बृहत्संहिता · अध्याय 90
सीमा^गता वन्य^मृगा रुवन्तः
स्थिता व्रजन्तो +अथ समापतन्तः।
सम्प्रत्य्^अतीत^एष्य^भयानि दीप्ताः
कुर्वन्ति शून्यं परितो भ्रमन्तः॥
ते ग्राम्य^सत्त्वैर् अनुवाश्यमाना
भयाय रोधाय भवन्ति वन्यैः।
द्वाभ्याम् अपि प्रत्यनुवाशितास् ते
वन्दि^*ग्रहायै च[क्.ग्रहायैव] मृगा रुवन्ति[क्.भवन्ति]॥
वन्ये सत्त्वे द्वार^संस्थे पुरस्य
रोधो वाच्यः सम्प्रविष्टे विनाशः।
सूते मृत्युः स्याद् भयं संस्थिते च
गेहं याते बन्धनं सम्प्रदिष्टम्॥
91 गवेङ्गिताध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0