बृहत्संहिता · अध्याय 88
नृ^तुरग^करि^कुम्भ^पर्याण^सक्षीरवृक्ष^इष्टकासञ्चय^च्छत्र^शय्या^आसन^उलूखलानि ध्वजं चामरं शाद्वलं पुष्पितं वा प्रदेशं यदा श्वा^अवमूत्र्य^अग्रतो याति यातुस् तदा कार्य^सिद्धिर् भवेद् आर्द्रके गोमये मिष्टभोज्य^आगमः शुष्क^सम्मूत्रणे शुष्कम् अन्नं गुडो मोदक^अवाप्तिर् एव^अथ वा
अथ विषतरु^कण्ठकी^काष्ठ^पाषाण^शुष्कद्रुम^अस्थि^श्मशानानि मूत्र्य^अवहत्य^अथ वा यायिनो +अग्रेसरो +अनिष्टम् आख्याति शय्या^कुलाल^आदि भाण्डान्य् अभुक्तान्य् अभिन्नानि वा मूत्रयन् कन्यका^दोषकृद् भुज्यमानानि चेद् दुष्टतां तद्^गृहिण्यास् तथा स्याद् उपानत्^फलं गोस् तु सम्मूत्रणे +अवर्ण^जः[क्.वर्णजः] सङ्करः।
गमन^मुखम् उपानहं सम्प्रगृह्य^उपतिष्ठेद् यदा स्याद् तदा सिद्धये मांस^पूर्ण^आनने +अर्थ^आप्तिर् आद्रेण च^अस्थ्ना शुभं स^अग्न्य्^अलातेन शुष्केण च^अस्थ्ना गृहीतेन मृत्युः प्रशान्त^उल्मुकेन^अभिघातो +अथ पुंसः शिरो^हस्त^पाद^आदि वक्त्रे भुवो +अभ्यागमो[क्.ह्यागमो] वस्त्र^चीर^आदिभिर् व्यापदः के चिद् आहुः सवस्त्रे शुभम्
प्रविशति तु गृहं स^शुष्क^अस्थि^वक्त्रे प्रधानस्य तस्मिन् वधः शृङ्खला^शीर्ण^वल्ली^वरत्रा^आदि वा बन्धनं च^उपगृह्य^उपतिष्ठेद् यदा स्यात् तदा बन्धनं लेढि पादौ विधुन्वन् स्वकर्णाव् उपर्य् आक्रमंश् च^अपि विघ्नाय यातुर् विरोधे विरोधस् तथा स्व^अङ्ग^कण्डूयने स्यात् स्वपंश् च^ऊर्ध्व^पादः सदा दोषकृत्॥
सूर्य^उदये +अर्क^अभिमुखो विरौति
ग्रामस्य मध्ये यदि सारमेयः।
एको यदा वा बहवः समेताः
शंसन्ति देश^अधिपम् अन्यम् आशु॥
सूर्य^उन्मुखः श्वा^अनलदिक्^स्थितश् च
चौर^अनल^त्रास^करो +अचिरेण।
मध्याह्न^काले +अनल^मृत्यु^शंसी
सशोणितः स्यात् कलहो +अपराह्णे॥
रुवन् दिनेश^अभिमुखो +अस्तकाले
कृषीबलानां भयम् आशु दत्ते[क्.धत्ते]।
प्रदोष^काले +अनिलदिङ्^मुखश् च[क्.तु]
दत्ते[क्.धत्ते] भयं मारुत^तस्कर^उत्थम्॥
उदङ्^मुखश् च^अपि निशार्ध^काले
विप्रव्यथां गोहरणं च शास्ति।
निशावसाने शिवदिन्^मुखश् च
कन्या^अभिदूष^अनल^गर्भपातान्॥
उच्चैः स्वराः स्युस् तृण^कूट^संस्थाः
प्रासाद^वेश्म^उत्तम^संस्थिता वा।
वर्षासु वृष्टिं कथयन्ति तीव्राम्
अन्यत्र मृत्युं दहनं रुजश् च॥
प्रावृट्^काले +अवग्रहे +अम्भो +अवगाह्य
प्रत्यावर्तै[क्.प्रत्यावृत्तै] रेचकैश् च^अप्य् अभीक्षणम्[क्.अभीक्ष्णम्]।
आधुन्वन्तो वा पिबन्तश् च तोयं
वृष्टिं कुर्वन्त्य् अन्तरे द्वादशाहात्॥
द्वारे शिरो न्यस्य बहिः शरीरं
रोरूयते श्वा गृहिणीं विलोक्य।
रोग^प्रदः स्याद् अथ मन्दिर^अन्तर्^
बहिर्^मुखो *वक्ति च[क्.शंसति] बन्धकीं ताम्॥
कुड्यम् उत्किरति वेश्मनो यदा तत्र खानक^भयं भवेत् तदा।
गोष्ठम् उत्किरति गो^ग्रहं वदेद् धान्य^लब्धिम् अपि धान्य^भूमिषु॥
एकेन^अक्ष्णा स^अश्रुणा दीन^दृष्टिर्
मन्द^आहारो दुःख^कृत् तद्^गृहस्य।
गोभिः साकं[क्.सार्धं] क्रीडमाणः सुभिक्षं
क्षेम^आरोग्यं च^अभिधत्ते मुदं च॥
वामं जिघ्रेज् जानु वित्त^आगमाय
स्त्रीभिः साकं विग्रहो दक्षिणं चेत्।
ऊरुं वामं च^इन्द्रिय^अर्थ^उपभोगः[क्.उपभोगाः]
सव्यं जिघ्रेद् इष्ट^मित्रैर् विरोधः॥
पादौ जिघ्रेद् यायिनश् चेद् अयात्रां
प्राह^अर्थ^आप्तिं वाञ्छितां निश्चलस्य।
स्थान^स्थस्य^उपानहौ चेद् विजिघ्रेत्
क्षिप्रं यात्रां सारमेयः करोति॥
उभयोर् अपि जिघ्रणे हि बाह्वोर्
विज्ञेयो रिपु^चौर^सम्प्रयोगः।
अथ भस्मनि गोपयीत भक्षान्
मांस^अस्थीनि च[क्.वा च] शीघ्रम् अग्निकोपः॥
ग्रामे भषित्वा च बहिः श्मशाने
भषन्ति चेद् उत्तम^पुं^विनाशः।
यियासतश् च^अभिमुखो विरौति
यदा तदा श्वा निरुणद्धि यात्राम्॥
उकार^*वर्णे विरुते[क्.वर्णेन रुते] +अर्थ^सिद्धिर्
ओकार^वर्णेन च वाम^पार्श्वे।
व्याक्षेपम् औकार^रुतेन विन्द्यान्
निषेधकृत् सर्वरुतैश् च पश्चात्॥
*खंख^इति[क्.सङ्खेति] च^उच्चैश् च मुहुर्मुहुर् ये
रुवन्ति दण्डैर् इव ताड्यमानाः।
श्वानो +अभिधावन्ति च मण्डलेन
ते शून्यतां मृत्यु^भयं च कुर्युः॥
प्रकाश्य दन्तान् यदि लेढि सृक्विणी
तदा^अशनं मृष्टम्[क्.मिष्टम्] उशन्ति तद्विदः।
यदा^आननं *लेढि पुनर्[क्.च अवलिहेन्] न सृक्विणी
प्रवृत्त^भोज्ये +अपि तदा^अन्न^विघ्न^कृत्॥
ग्रामस्य मध्ये यदि वा पुरस्य
भषन्ति संहत्य मुहुर्मुहुर् ये।
ते क्लेशम् आख्यान्ति तद्^ईश्वरस्य
श्वा^अरण्य^संस्थो मृगवद् विचिन्त्यः॥
वृक्ष^उपगे क्रोशति तोय^पातः
स्याद् इन्द्रकीले सचिवस्य पीडा।
वायोर् गृहे सस्य^भयं गृह^अन्तः
पीडा पुरस्य^एव च गोपुर^स्थे॥
भयं च शय्यासु तद्^ईश्वराणां
याने भषन्तो भयदाश् च पश्चात्।
अथ^अपसव्या जन^सन्निवेशे
भयं भषन्तः कथयन्त्य् अरीणाम्॥
89 शिवारुताध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0