भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 87

87.01

श्यामा^श्येन^शशघ्न^वञ्जुल^शिखि^श्रीकर्ण^चक्राह्वयाश्
चाष^अण्डीरक^खञ्जरीटक^शुक^ध्वाङ्क्षाः कपोतास् त्रयः[क्.त्रयाः]।
भारद्वाज^कुलालकुक्कुट^खरा हारीत^गृध्रौ कपिः
फेण्टः कुक्कुट^पूर्णकूट^*चटकाः प्रोक्ता[क्.चटकाश् च उक्ता] दिवासञ्चराः॥

87.02

लोमाशिका पिङ्गल^च्छिप्पिका^आख्यौ
वल्गुली^उलूकौ शशकश् च रात्रौ।
सर्वे स्वकाल^उत्क्रम^चारिणः स्युर्
देशस्य नाशाय नृप^अन्तदा वा॥

87.03

हय^नर^भुजग^उष्ट्र^द्वीपि^सिंह^ऋक्ष^गोधा
वृक^नकुल^कुरङ्ग^श्व^अज^गो^व्याघ्र^हंसाः।
पृषत^मृग^शृगाल^श्वाविद्^आख्य^अन्यपुष्टा
द्युनिशम् अपि बिडालः सारसः सूकरश् च॥

87.04

भष^कूटपूरि[उ.कूटपूरि]^कुरबक^करायिकाः पूर्णकूट^सण्ज्ञाः स्युः।
नामान्य् उलूकचेट्याः पिङ्गलिका पेचिका हक्का॥

87.05

कपोतकी च श्यामा वञ्जुलकः कीर्त्यते खदिरचञ्चुः।
छुच्छुन्दरी नृप^सुता वालेयो गर्दभः प्रोक्तः॥

87.06

स्रोतस्^*तडागभेद्य[क्.तडागभेद्येक]^एकपुत्रकः कलहकारिका च रला।
भृङ्गारवच् च विरुवति[क्.वाशति] निशि भूमौ द्व्य्^अङ्गुल^शरीरा॥

87.07

दुर्बलिको भाण्डीकः प्राच्यानां दक्षिणः प्रशस्तो +असौ।
धिक्कारो मृगजातिः कृकवाकुः कुक्कुटः प्रोक्तः॥

87.08

गर्ताकुक्कुटकस्य प्रथितं तु कुलालकुक्कुटो नाम।
गृहगोधिका^इति संज्ञा विज्ञेया कुड्यमत्स्यस्य॥

87.09

दिव्यो धन्वन उक्तः क्रोडः स्यात् सूकरो +अथ गौरुस्रा।
श्वा सारमेय उक्तो जात्या चटिका च सूकरिका॥

87.10

एवं देशे देशे तद्विद्भ्यः समुपलभ्य नामानि॥
शकुन^रुत^ज्ञान^अर्थं शास्त्रे सञ्चित्य[क्.सञ्चिन्त्य] योज्यानि॥

87.11

वञ्जुलक^रुतं तित्तिड् इति दीप्तम् अथ किल्किलि^इति तत्पूर्णम्।
श्येन^शुक^गृध्र^कङ्काः प्रकृतेर् अन्यस्वरा दीप्ताः॥

87.12

यान^आसन^शय्या^निलयनं कपोतस्य सद्म^विशनं वा।
अशुभ^प्रदं नराणां जाति^विभेदेन कालो +अन्यः॥

87.13

आपाण्डुरस्य वर्षाच् चित्र^कपोतस्य च^एव षण्मासात्।
कुङ्कुम^धूम्रस्य फलं सद्यः पाकं कपोतस्य॥

87.14

चिचिद् इति शब्दः पूर्णः श्यामायाः शूलिशूल् इति च धन्यः।
चच्च^इति दीप्तः स्यात् स्वप्रिय^लाभाय[क्.योगाय] चिक्चिग् इति॥

87.15

हारीतस्य तु शब्दो गुग्गुः पूर्णो +अपरे प्रदीप्ताः स्युः।
स्वर^वैचित्र्यं सर्वं भारद्वाज्याः शुभं प्रोक्तम्॥

87.16

किष्किषि^शब्दः पूर्णः करायिकायाः शुभः कहकह^इति।
क्षमाय[क्.ऊ.क्षेमाय] केवलं करकर^इति न त्व् अर्थ^सिद्धि^करः॥

87.17

कोटुक्लि^इति क्षेम्यः स्वरः कटुक्लि^इति वृष्टये तस्याः।
अफलः कोटिकिलि^इति च दीप्तः खलु गुं कृतः शब्दः॥

87.18

शस्त्रं[क्.ऊ.शस्तम्] वामे दर्शनं दिव्यकस्य
सिद्धिर् ज्ञेया हस्त^मात्र^उच्छ्रितस्य।
तस्मिन्न् एव प्रोन्नतस्थे शरीराद्
धात्री वश्यं सागरान्ता^अभ्युपैति॥

87.19

फणितो +अभिमुखागमो +अरिसङ्गं
कथयति बन्धु[क्.बन्ध]^वध^अत्ययं च यातुः।
अथ वा समुपैति सव्यभागात्
न स सिद्ध्यै कुशलो गमागमे च॥

87.20

अब्जेषु मूर्धसु च वाजि^गज^उरगाणां
राज्य^प्रदः कुशल^कृत्^शुचि^शाद्वलेषु।
भस्म^अस्थि^काष्ठ^तुष^केश^तृणेषु दुःखं
दृष्टः करोति खलु खञ्जनको +अब्दम् एकम्॥

87.21

किलिकिल्किलि तित्तिर^स्वनः
शान्तः शस्त^फलो +अन्यथा^अपरः।
शशको निशि वाम^पार्श्वगो
वाशन् शस्त^फलो निगद्यते॥

87.22

किलिकिलि^विरुतं कपेः प्रदीप्तं
न शुभ^फल^प्रदम् उद्दिशन्ति यातुः।
शुभम् अपि कथयन्ति चुग्लुशब्दं
कपिसदृशं च कुलालकुक्कुटस्य॥

87.23

पूर्णाननः कृमि^पतङ्ग^पिपीलका^आद्यैश्
चाषः प्रदक्षिणम् उपैति नरस्य यस्य।
खे स्वस्तिकं यदि करोत्य् अथ वा यियासोस्
तस्य^अर्थ^लाभम् अचिरात् सुमहत् करोति॥

87.24

चाषस्य काकेन विरुध्यतश् चेत्
पराजयो दक्षिण^भाग^गस्य।
वधः प्रयातस्य तदा नरस्य
विपर्यये तस्य जयः प्रदिष्टः॥

87.25

केक^इति पूर्णकुटवद् यदि वामपार्श्वे
चाषः करोति विरुतं जयकृत् तदा स्यात्।
क्रेक्र^इति[क्.क्रक्रेति] तस्य विरुतं न शिवाय दीप्तं
सन्दर्शनं शुभदम् अस्य सदैव यातुः॥

87.26

अण्डीरकष् टी^इति रुतेन पूर्णष्^
टिट्टिट्टिशब्देन तु दीप्त उक्तः।
फेण्टः शुभो दक्षिण^भाग^संस्थो
न वाशिते तस्य कृतो विशेषः॥

87.27

श्रीकर्ण^रुतं तु दक्षिणे
क्वक्वक्व^इति शुभं प्रकीर्तितम्।
मध्यं खलु चिक्चिकि^इति यच्^
शेषं सर्वम् उशन्ति निष्फलम्॥

87.28

दुर्बलेर् अपि चिरिल्विरिल्व् इति
प्रोक्तम् इष्टफलदं हि वामतः।
वामतश् च यदि दक्षिणं व्रजेत्
कार्य^सिद्धिम् अचिरेण यच्छति॥

87.29

चिक्चिकि^वाशितम् एव तु कृत्वा
दक्षिण^भागम् उपैति तु वामात्।
क्षेमकृद् एव न साधयते +अर्थान्
व्यत्यय^गो वध^बन्ध^भयाय॥

87.30

क्रक्र^इति च सारिका द्रुतं त्रेत्रे वा^अप्य्^अभया विरौति या।
सा वक्ति यियासतो +अचिराद् गात्रेभ्यः[क्.गात्रेभ्य] क्षतजस्य विस्रुतिम्॥

87.31

फेण्टकस्य वामतश् चिरिल्विरिल्व् इति स्वनः।
शोभनो निगद्यते प्रदीप्त उच्यते +अपरः॥

87.32

श्रेष्ठं खरं स्थास्नुम् उशन्ति वामम्
ओं^कार^शब्देन हितं च यातुः।
*अतो +अपरं[क्.अतः परं] गर्दभ^नादितं यत्
सर्व^आश्रयं तत् प्रवदन्ति दीप्तम्॥

87.33

आ^कार^रावी समृगः कुरङ्ग
ओ^कार^रावी पृषतश् च पूर्णः।
ये +अन्ये स्वरास् ते कथिताः प्रदीप्ताः
पूर्णाः शुभाः पापफलाः प्रदीप्ताः॥

87.34

भीता रुवन्ति कुकुकुक्व् इति ताम्रचूडास्
त्यक्त्वा रुतानि भयदान्य् अपराणि रात्रौ।
स्वस्थैः स्वभाव^विरुतानि निशावसाने
ताराणि राष्ट्र^पुर^पार्थिव^वृद्धि^दानि॥

87.35

नानाविधानि विरुतानि हि छिप्पिकायास्
तस्याः शुभाः कुलुकुलुर् न शुभास् तु शेषाः।
यातुर् बिडाल^विरुतं न शुभं सदैव
गोस् तु क्षुतं मरणम् एव करोति यातुः॥

87.36

हुंहुंगुग्लुग् इति प्रियाम् अभिलषन् क्रोशत्य् उलूको मुदा
पूर्णः स्याद् गुरुलु प्रदीप्तम् अपि च ज्ञेयं सदा किस्किसि।
विज्ञेयः कलहो यदा बलबलं तस्य[क्.तस्याः] असकृद् वाशितं
दोषाय^एव टटट्टट^इति न शुभाः शेषास् तु दीप्त[क्.दीप्ताः]स्वराः॥

87.37

सारस^कूजितम् इष्टफलं तद् यद् युगपद्^विरुतं मिथुनस्य।
एकरुतं न शुभं यदि वा स्याद् एकरुते प्रविरौति[क्.प्रतिरौति] चिरेण॥

87.38

चिरिल्विरिल्व् इति स्वरैः शुभं करोति पिङ्गलाः[क्.पिङ्गला]।
अतो +अपरे तु ये स्वराः प्रदीप्त^संज्ञितास् तु ते॥

87.39

इशिविरुतं गमन^प्रतिषेधि
कुशुकुशु चेत् कलहं प्रकरोति।
अभिमत^कार्य^गतिं च यथा सा
कथयति तं च विधिं कथयामि॥

87.40

दिनान्त^सन्ध्या^समये निवासम्
आगम्य तस्याः प्रयतश् च वृक्षम्।
देवान् समभ्यर्च्य पितामह^आदीन्
नव^अम्बरस् तं च तरुं सुगन्धैः॥

87.41

एको निशीथे +अनल^दिक्^स्थितश् च
दिव्य^इतरैस् तां शपथैर् नियोज्य।
पृच्छेद् यथाचिन्तितम् अर्थम् एवम्
अनेन मन्त्रेण यथा^आशृणोति॥

87.42

विद्धि भद्रे मया यत् त्वम् इमम् अर्थं प्रचोदिता।
कल्याणि सर्व^वचसां वेदित्री त्वं प्रकीर्त्यसे॥

87.43

आपृच्छे +अद्य गमिष्यामि वेदितश् च पुनस् त्व् अहम्।
प्रातर् आगम्य पृच्छे त्वाम् आग्नेयीं दिशम् आश्रितः॥

87.44

प्रचोदयाम्य् अहं यत् त्वां तन् मे व्याख्यातुम् अर्हसि।
स्वचेष्टितेन कल्याणि यथा वेद्मि निराकुलम्॥

87.45

इत्य् एवम् उक्ते तरु^मूर्ध^गायाश्
चिरिल्विरिल्वि^इति रुते +अर्थ^सिद्धिः।
अत्याकुलत्वं[उ.अव्याकुलत्वम्] दिशिकार^शब्दे
कुचाकुचा^इत्य् एवम् उदाहृते वा॥

87.46

अवाक्^प्रदाने *+अपि हित[क्.विहित]^अर्थ^सिद्धिः
पूर्व^उक्त^दिक्चक्र^फलैर् अतो +अन्यत्।
वाच्यं फलं च^उत्तम^मध्य^नीच^
शाखा^स्थितायां वर^मध्य^नीचम्॥

87.47

दिङ्मण्डले +अभ्यन्तर^बाह्य^भागे
फलानि विन्द्याद् गृहगोधिकायाः।
छुच्छुन्दरी चिच्चिड् इति प्रदीप्ता
पूर्णा तु सा तित्तिड् इति स्वनेन॥
88 श्वचक्राध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc