बृहत्संहिता · अध्याय 86
ऐन्द्र्यां दिशि शान्तायां विरुवन् नृप^संश्रित^आगमं वक्ति।
[क्.शकुनिः] पूजा^लाभं मणि^रत्न^द्रव्य^सम्प्राप्तिम्॥
तद्^अनन्तर^दिशि कनक^आगमो भवेद् वाञ्छित^अर्थ^सिद्धिश् च।
आयुध^धन^पूगफल^आगमस् तृतीये भवेद् भागे॥
स्निग्ध^द्विजस्य सन्दर्शनं चतुर्थे तथा^आहिताग्नेश् च।
कोणे +अनुजीवि^भिक्षु^प्रदर्शनं कनक^लोह^आप्तिः॥
याम्येन^आद्ये नृप^पुत्र^दर्शनं सिद्धिर् अभिमतस्य^आप्तिः।
परतः स्त्री^धर्म^आप्तिः सर्षप^यव^लब्धिर् अप्य् उक्ता॥
कोणाच् चतुर्थ^खण्डे लब्धिर् द्रव्यस्य पूर्व^नष्टस्य।
यद् वा तद् वा फलम् अपि यात्रायां प्राप्नुयाद् याता॥
यात्रा^सिद्धिः समदक्षिणेन शिखि^महिष^कुक्कुट^आप्तिश् च।
याम्याद् द्वितीयभागे चारण^सङ्गः शुभं प्रीतिः॥
ऊर्ध्वं सिद्धिः कैवर्त^सङ्गमो मीन^तित्तिर^आद्य्^आप्तिः।
प्रव्रजित^दर्शनं तत्परे च पक्वान्न^फल^लब्धिः॥
नैरृत्यां स्त्रीलाभस् तुरग^अलङ्कार^दूत^लेख^आप्तिः।
परतो +अस्य चर्म^तत्शिल्पि^दर्शनं चर्ममय^लब्धिः॥
वानर^भिक्षु^श्रवण^अवलोकनं नैरृतात् तृतीय^अंशे।
फल^कुसुम^दन्त^घटित^आगमश् च कोणाच् चतुर्थ^अंशे॥
वारुण्याम् अर्णवजात^रत्न^वैदूर्य[क्.वैडूर्य]^मणिमय^प्राप्तिः।
परतो +अतः शबर^व्याध^चौर^सङ्गः पिशित^लब्धिः॥
परतो +अपि दर्शनं वातरोगिणां चन्दन^अगुरु^प्राप्तिः।
आयुध^पुस्तक^लब्धिस् तद्वृत्तिसमागमश् च^ऊर्ध्वम्॥
वायव्ये फेनक^चामर^और्णिक^आप्तिः समेति कायस्थः।
मृन्मय^लाभो +अन्यस्मिन् वैतालिक^डिण्डि^भाण्डानाम्॥
वायव्याच् च तृतीये मित्रेण समागमो धनप्राप्तिः।
वस्त्र^अश्व^आप्तिर् अतः परम् इष्ट^सुहृत्^सम्प्रयोगश् च॥
दधि^तण्डुल^लाजानां लब्धिर् उदग् दर्शनं च विप्रस्य।
अर्थ^अवाप्तिर् अनन्तरम् उपगच्छति सार्थ^वाहश् च॥
वेश्या^वटु^दास^समागमः परे शुक्ल[क्.शुष्क]^पुष्प^फल^लब्धिः।
*अत ऊर्ध्वं[क्.अतः परं] चित्रकरस्य दर्शनं चित्र^वस्त्र^आप्तिः[क्.वस्त्रसम्प्राप्तिः]॥
ऐशान्यां देवलक^उपसङ्गमो धान्य^रत्न^पशु^लब्धिः।
प्राक् प्रथमे वस्त्राप्तिः समागमश् च^अपि बन्धक्या॥
रजकेन समायोगो जलज^द्रव्य^आगमश् च परतो +अतः।
हस्त्य्^उपजीवि^समाजश् च^अस्माद् धन^हस्ति^लब्धिश् च॥
द्वात्रिंशत्^प्रविभक्तं दिक्चक्रं *वास्तुवत् सनेम्य् उक्तम्[क्.वास्तुबन्धने अप्य् उक्तम्]।
अर^नाभि^स्थैर् अन्तः फलानि नवधा विकल्प्यानि॥
नाभिस्थे बन्धु^सुहृत्^समागमस् तुष्टिर् उत्तमा भवति।
प्राग् रक्त^पट्ट^वस्त्र^आगमस् त्व् अरे नृपति^संयोगः॥
आग्नेये कौलिक^तक्ष^पारिकर्म^अश्व^सूत^संयोगः।
लब्धिश् च तत्कृतानां द्रव्याणाम् अश्व^लब्धिर् वा॥
नेमी^भागं बुद्ध्वा नाभी^भागं च दक्षिणे यो +अरः।
धार्मिक^जन^संयोगस् तत्र भवेद् धर्म^लाभश् च॥
उस्रा^क्रीडक^कापालिक^आगमो नैरृते समुद्दिष्टः।
वृषभस्य च^अत्र लब्धिर् माष^कुलत्थ^आद्यम् अशनम् च॥
अपरस्यां दिशि यो +अरस् तत्र^आसक्तिः कृषीवलैर् भवति।
सामुद्रद्रव्य^सुसार^काच^फल^मद्य^लब्धिश् च॥
भारवह^तक्ष^भिक्षुक^सन्दर्शनम् अपि च वायु^दिक्^संस्थे।
तिलक^कुसुमस्य लब्धिः सनाग^पुन्नाग^कुसुमस्य॥
कौबेर्यां दिशि *यो +अरस् तत्रस्थो[क्.शकुनः शान्तायां] वित्त^लाभम् आख्याति।
भागवतेन समागमनम्[क्.ऊ.समागमम्] आचष्टे पीत^वस्त्रैश् च॥
ऐशाने व्रतयुक्ता वनिता सन्दर्शनं समुपयाति।
लब्धिश् च परिज्ञेया कृष्णायः^शस्त्र[क्.कृष्णायोवस्त्र]^घण्टानाम्॥
याम्ये +अष्टांशे पश्चाद् द्वि^षट्^त्रि^सप्त^अष्टमेषु मध्य^फला।
सौम्येन च द्वितीये शेषेष्व् अतिशोभना यात्रा॥
अभ्यन्तरे तु नाभ्यां शुभफलदा भवति षट्सु च^अरेषु।
वायव्या^नैरृतयोर् अरयोः[क्.?उभय्योः] क्लेशावहा यात्रा॥
शान्तासु दिक्षु फलम् इदम् उक्तं दीप्तास्व् अतो +अभिधास्यामि।
ऐन्द्र्यां भयं नरेन्द्रात् समागमश् च^एव शात्रूणाम्॥
तद्^अनन्तर^दिशि नाशः कनकस्य भयं सुवर्णकाराणाम्।
अर्थ^क्षयस् तृतीये कलहः शस्त्र^प्रकोपश् च॥
अग्निभयं च चतुर्थे भयम् आग्नेये च भवति चौरेभ्यः।
कोणाद् अपि द्वितीये धन^क्षयो नृप^सुत^विनाशः॥
प्रमदा^गर्भ^विनाशस् तृतीय^भागे भवेच् चतुर्थे च।
हैरण्यक^कारुकयोः प्रध्वंसः शस्त्र^कोपश् च॥
अथ पञ्चमे नृप^भयं मारी^मृत^दर्शनं च वक्तव्यम्।
षष्ठे तु भयं ज्ञेयं गन्धर्वाणां सडोम्बानाम्॥
धीवर^शाकुनिकानां सप्तम^भागाद्[क्.भागे] भयं भवति दीप्ते।
भोजन^विघात उक्तो निर्ग्रन्थ^भयं च तत्परतः॥
कलहो नैरृत^भागे रक्तस्रावो +अथ शस्त्र^कोपश् च।
अपराद्ये चर्मकृतं विनश्यते चर्मकार^भयम्॥
तदनन्तरं[क्.तदनन्तरे] परिव्राट्^श्रवण^भयं तत्परे त्व् अनशनभयम्।
वृष्टिभयं वारुण्ये श्व^तस्कराणां भयं परतः॥
वायु^ग्रस्त^विनाशः परे परे शस्त्र^पुस्त^*वार्तानाम्[क्.वार्त्तानाम्]।
कोणे पुस्तकनाशः परे विष^स्तेन^वायु^भयम्॥
परतो वित्त^विनाशो मित्रैः सह विग्रहश् च विज्ञेयः।
तस्य^आसन्ने +अश्ववधो भयम् अपि च पुरोधसः प्रोक्तम्॥
गोहरण^शस्त्र^घाताव् उदक् परे सार्थ^घात^धन^नाशौ।
आसन्ने च श्वभयं व्रात्य^द्विज^दास^गणिकानाम्॥
ऐशानस्य^आसन्ने चित्र^अम्बर^चित्रकृद्^भयं प्रोक्तम्।
ऐशाने त्व् अग्नि^भयं दूषणम् अप्य् उत्तम^स्त्रीणाम्॥
प्राक् तस्य^एव^आसन्ने दुःख^उत्पत्तिः स्त्रिया विनाशश् च।
भयम् ऊर्ध्वं रजकानां विज्ञेयं काच्छिकानां च॥
हस्त्य्^आरोह^भयं स्याद् द्विरद^विनाशश् च मण्डल^समाप्तौ।
अभ्यन्तरे तु दीप्ते पत्नी^मरणं ध्रुवं पूर्वे॥
शस्त्र^अनल^प्रकोप^आग्नेये वाजि^मरण^शिल्पि^भयम्।
याम्ये धर्म^*विनाशो +अपरे[क्.विनाशः परे] +अग्न्य्^अवस्कन्द^चोक्ष^वधाः॥
अपरे तु कर्मिणां भयम् अथ कोणे च^अनिले खर^उष्ट्र^वधः।
अत्र^एव मनुष्याणां विसूचिका[क्.विशूचिका]^विष^भयं भवति॥
उदग् अर्थ^विप्र^पीडा दिश्य् ऐशान्यां तु चित्त^सन्तापः।
ग्रामीण^गोप^पीडा च तत्र नाभ्यां तथा^आत्म^वधः॥
87 विरुताध्याय्ः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0