भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 85

85.01

यत्^शक्र^शुक्र[क्.शुक्रशक्र]^वागीश^कपिष्ठल^गरुत्मताम्।
मतेभ्यः प्राह ऋषभो भागुरेर् देवलस्य च॥

85.02

भारद्वाज^मतं दृष्ट्वा यच् च श्रीद्रव्यवर्धनः।
आवन्तिकः प्राह नृपो महाराज^अधिराजकः॥

85.03

सप्तर्षीणां मतं यच् च संस्कृतं प्राकृतं च यत्।
यानि च^उक्तानि गर्ग^आद्यैर् यात्राकारैश् च भूरिभिः॥

85.04

तानि दृष्ट्वा चकार^इमं सर्वशाकुनसंग्रहम्।
वराहमिहिरः प्रीत्या शिष्याणां ज्ञानम् उत्तमम्॥

85.05

अन्य^जन्म^अन्तरकृतं कर्म पुंसां शुभ^अशुभम्।
यत् तस्य शकुनः पाकं निवेदयति गच्छताम्॥

85.06

ग्राम^आरण्य^अम्बु^भू^व्योम^द्यु^निश^उभय^चारिणः।
रुत^यात^ईक्षित^उक्तेषु ग्राह्याः पुं^स्त्री^नपुंसकाः[क्.स्त्रीपुन्नपुंसकाः]॥

85.07

पृथग् जात्य्^अनवस्थानाद् एषां व्यक्तिर् न लक्ष्यते।
सामान्य^लक्षण^उद्देशे श्लोकाव् ऋषिकृताव् इमौ॥

85.08

पीन^उन्नत^विकृष्ट^अंसाः पृथुग्रीवाः सुवक्षसः।
स्वल्प^गम्भीर^विरुताः पुंआंसः स्थिर^विक्रमाः॥

85.09

तनु^उरस्क^शिरो^ग्रीवाः सूक्ष्म^आस्य^पद^विक्रमाः।
प्रसक्त^मृदु^भाषिण्यः स्त्रियो +अतो +अन्यन् नपुंसकम्॥

85.10

ग्राम^अरण्य^प्रचार^आद्यं लोकाद् एव^उपलक्षयेत्।
संचिक्षिप्सुर् अहं वच्मि यात्रा^मात्र^प्रयोजनम्॥

85.11

पथ्य्^आत्मानं नृपं सैन्ये पुरे च^उद्दिश्य देवताम्।
सार्थे प्रधानं साम्ये[क्.साम्यं] स्याज् जाति^विद्या^वयो +अधिकम्॥

85.12

मुक्त^प्राप्त^एष्यद्^अर्कासु फलं दिक्षु तथाविधम्।
अङ्गार[क्.अङ्गारि]^दीप्त^धूमिन्यस् ताश् च शान्तास् ततो +अपराः[क्.+अपरा, क्ऽस् त्र्. अपराः]॥

85.13

तत्^पञ्चम^दिशां तुल्यं शुभं त्रैकाल्यम् आदिशेत्।
परिशेषदिशोर्[क्.परिशेषयोर्] वाच्यं यथासन्नं शुभ^अशुभम्॥

85.14

शीघ्रम् आसन्न^निम्नस्थैश् चिराद् उन्नत^दूरगैः।
स्थान^वृद्ध्य्^उपघाताच् च तद्वद् ब्रूयात् फलं पुनः॥

85.15

क्षण^तिथ्य्^उडु^वात^अर्कैर् देवदीप्तो यथोत्तरम्।
क्रियादीप्तो गति^स्थान^भाव^स्वर^विचेष्टितैः॥

85.16

दशधा^एवं प्रशान्तो +अपि सौम्यस् तृण^फल^अशनः।
मांस^अमेध्य^अशने रौद्रो विमिश्रो +अन्न^अशनः स्मृतः॥

85.17

हर्म्य^प्रासाद^मङ्गल्य^मनोज्ञ^स्थान^संस्थिताः।
श्रेष्ठा मधुर^सक्षीर^फल^पुष्प^द्रुमेषु च॥

85.18

स्वकाले गिरि^तोय^स्था बलिनो द्युनिशाचराः।
क्लीब^स्त्री^*पुरुषा ज्ञेया[क्.पुरुशाश् च एषां] बलिनः स्युर् यथोत्तरम्॥

85.19

जव^जाति^बल^स्थान^हर्ष^सत्त्व^स्वर^अन्विताः।
स्वभूमाव् अनुलोमाश् च तद्^ऊनाः स्युर् विवर्जिताः॥

85.20

कुक्कुट^इभ^पिरिल्यश् च शिखि^वञ्जुल^छिक्कराः।
बलिनः सिंहनादश् च कूटपूरी च पूर्वतः॥

85.21

क्रोष्टुक^उलूक^हारीत^काक^कोक^ऋक्ष^पिङ्गलाः।
कपोत^रुदित^आक्रन्द^क्रूर^शब्दाश् च याम्यतः॥

85.22

गो^शश^क्रौञ्च^लोमाश^हंस^उत्क्रोश^कपिञ्जलाः।
विडाल^उत्सव^वादित्र^गीत^हासाश् च वारुणाः॥

85.23

शतपत्र^कुरङ्ग^आखु^मृग^एकशफ^कोकिलाः।
चाष^शल्यक^पुण्याह^घण्टा^शङ्ख^रवा उदक्॥

85.24

न ग्राम्यो +अरण्यगो ग्राह्यो न^आरण्यो ग्राम्य^संस्थितः[क्.ग्रामसंस्थितः]।
दिवाचरो न शर्वर्यां न च नक्तंचरो दिवा॥

85.25

द्वन्द्व^रोगार्दित^त्रस्ताः कलह^आमिष^काङ्क्षिणः
आपग^अन्तरिता मत्ता न ग्राह्याः शकुनाः क्व चित्॥

85.26

रोहित^अश्व^अज^*वालेयाः कुरङ्ग[क्.वालेयकुरङ्ग]^उष्ट्र^मृगाः शशः।
निष्फलाः शिशिरे ज्ञेया वसन्ते काक^कोकिलौ॥

85.27

न तु भाद्रपदे ग्राह्याः सूकर^श्व^वृक^आदयः।
शारद्य[क्.शरद्य]^अब्ज^अद^गो^क्रौञ्चाः श्रावणे हस्ति^चातकौ॥

85.28

व्याघ्र^ऋक्ष^वानर^द्वीपि^महिषाः सबिलेशयाः।
हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानुषाः॥

85.29

ऐन्द्र^अनल^दिशोर् मध्ये त्रिभागेषु व्यवस्थिताः।
कोशाध्यक्ष^अनलाजीवि^तपोयुक्ताः प्रदक्षिणम्॥

85.30

शिल्पी भिक्षुर् विवस्त्रा स्त्री याम्य^अनल^दिग्^अन्तरे।
परतश् च^अपि मातङ्ग^गोप^धर्मसमाश्रयाः॥

85.31

नैरृती^वारुणी^मध्ये प्रमदा^सूति^तस्कराः।
शौण्डिकः शाकुनी हिंस्रो वायव्या[क्.वायव्य]^पश्चिम^अन्तरे॥

85.32

विषघातक^गोस्वामि^कुहकज्ञास् ततः परम्।
धनवान् ईक्षणीकश् च मालाकारः परं ततः॥

85.33

वैष्णवश् चरकश् च^एव वाजिनां रक्षणे रतः।
*द्वात्रिंशद् एवं[क्.एवं द्वात्रिंशतो] भेदाः स्युः पूर्वदिग्भिः सह^उदिताः॥

85.34

राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः।
राजाध्यक्षश्[क्.ऊ.गजाध्यक्षश्] च पूर्वाद्याः क्षत्रिय^आद्याश् चतुर्दिशम्॥

85.35

गच्छतस् तिष्ठतो वा^अपि दिशि यस्यां व्यवस्थितः।
विरौति शकुनो वाच्यस् तद्दिग्जेन समागमः॥

85.36

भिन्न^भैरव^दीन^आर्त^परुष^क्षाम^जर्जराः।
स्वना[क्.स्वरा] न^इष्टाः शुभाः शान्त[क्.शान्ता]^हृष्ट^प्रकृति^पूरिताः॥

85.37

शिवा श्यामा रला छुच्छुः पिङ्गला गृहगोधिका।
सूकरी परपुष्टा च पुन्नामानश् च वामतः॥

85.38

स्त्रीसंज्ञा भास^भषक^कपि^श्रीकर्ण^*धिक्कराः[क्.छिक्कराः]।
शिखि^श्रीकण्ठ^पिप्पीक^रुरु^श्येनाश् च दक्षिणाः॥

85.39

क्ष्वेड^आस्फोटित^पुण्याह^गीत^शङ्ख^अम्बु^निःस्वनाः।
सतूर्य^अध्ययनाः पुंवत् स्त्रीवद् अन्या गिरः शुभाः॥

85.40

ग्रामौ मध्यम^षड्जौ तु गान्धारश् च^इति शोभनाः।
षड्ज[क्.षड्जा]^मध्यम^गान्धारा ऋषभश् च स्वरा हिताः॥

85.41

रुत^कीर्तन^दृष्टेषु भारद्वाज^अज^बर्हिणः।
धन्या नकुल^चाषौ च सरटः पापदो +अग्रतः॥

85.42

जाहक^अहि^शश^क्रोड^गोधानां कीर्तनं शुभम्।
*रुतं सन्दर्शनं[क्.रतसन्दर्शनं] न^इष्टं प्रतीपं वानर^ऋक्षयोः॥

85.43

ओजाः प्रदक्षिणं शस्ता मृगाः सनकुल^अण्डजाः।
चाषः सनकुलो वामो भृगुर् आह^अपराह्णतः॥

85.44

छिक्करः कूटपूरी च पिरिली चाह्नि दक्षिणाः।
अपसव्याः सदा शस्ता दंष्ट्रिणः सबिलेशयाः॥

85.45

श्रेष्ठे हयसिते प्राच्यां शवमांसे च दक्षिणे।
कन्यका^दधिनी पश्चाद् उदग् गो^विप्र^साधवः॥

85.46

जाल^श्व^चरणौ न^इष्टौ प्राग् याम्यौ शस्त्र^घातकौ।
पश्चाद् आसव^षण्ढौ च खल^आसन^हलान्य् उदक्॥

85.47

कर्म^सङ्गम^युद्धेषु प्रवेशे नष्ट^मार्गणे।
यान^व्यस्तगता ग्राह्या विशेषश् च^अत्र वक्ष्यते॥

85.48

दिवा प्रस्थानवद् ग्राह्याः कुरङ्ग^रुरु^वानराः।
अह्नश् च प्रथमे भागे चाष^वञ्जुल^कुक्कुटाः॥

85.49

पश्चिमे शर्वरी^भागे नप्तृक^उलूक^पिङ्गलाः।
सर्व एव विपर्यस्ता ग्राह्याः सार्थेषु योषिताम्॥

85.50

नृप^सन्दर्शने ग्राह्यः प्रवेशे +अपि प्रयाणवत्।
गिर्य्^अरण्य^*प्रवेशेषु[क्.प्रवेशे च] नदीनां च^अवगाहने॥

85.51

वाम^दक्षिणगौ शस्तौ यौ तु ताव् अग्र^पृष्ठगौ।
क्रियादीप्तौ विनाशाय यातुः परिघ^संज्ञितौ॥

85.52

ताव् एव तु यथाभागं प्रशान्त^रुत^चेष्टितौ।
शकुनौ शकुन^द्वार^संज्ञिताव् अर्थ^सिद्धये॥

85.53

के चित् तु शकुन^द्वारम् इच्छन्त्य् उभयतः स्थितैः।
शकुनैर् एकजातीयैः शान्त^चेष्टा^विराविभिः॥

85.54

विसर्जयति यद्य् एक एकश् च प्रतिषेधति।
स विरोधो +अशुभो यातुर् ग्राह्यो यो[क्.ऊ.वा] बलवत्तरः॥

85.55

पूर्वं प्रावेशिको[क्.प्रावेशेको] भूत्वा पुनः प्रास्थानिको भवेत्।
सुखेन सिद्धिम् आचष्टे प्रवेशे तद्^विपर्ययात्[क्.तद्विपर्ययः]॥

85.56

विसर्ज्य शकुनः पूर्वं स एव निरुणद्धि चेत्।
प्राह यातुर् अरेर् मृत्युं डमरं रोगम् एव वा॥

85.57

अपसव्यास् तु शकुना दीप्ता भय^निवेदिनः।
आरम्भे शकुनो दीप्तो वर्षान्तस् तद्भयङ्करः॥

85.58

तिथि^वाय्व्^अर्क^भ^स्थान^चेष्टा^दीप्ता यथाक्रमम्।
धन^सैन्य^बल^अङ्ग^इष्ट^कर्मणां स्युर् भयङ्कराः॥

85.59

जीमूतध्वनिदीप्तेषु भयं भवति मारुतात्।
उभयोः सन्ध्ययोर् दीप्ताः शस्त्र^उद्भव^भयङ्कराः॥

85.60

चिति^केश^कपालेषु मृत्यु^बन्ध^वध^प्रदाः।
कण्टकी^काष्ठ^भस्मस्थाः कलह^आयास^दुःखदाः॥

85.61

अप्रसिद्धिं भयं वा^अपि निःसार^अश्म^व्यवस्थिताः।
कुर्वन्ति शकुना दीप्ताः शान्ता याप्य^फलास् तु ते॥

85.62

असिद्धिसिद्धिदौ ज्ञेयौ निर्हार^आहार[क्.निर्हादाहार]कारिणौ।
स्थानाद् रुवन् व्रजेद् यात्रां शंसते त्व् अन्यथागमम्॥

85.63

कलहः स्वरदीप्तेषु स्थानदीप्तेषु विग्रहः।
उच्चम् आदौ स्वरं कृत्वा नीचं पश्चाच् च दोषकृत्[क्.मोषकृत्]॥

85.64

एक^स्थाने रुवन् दीप्तः सप्ताहाद् ग्राम^घातकः[क्.ग्रामघातकृत्]।
पुर^देश^नरेन्द्राणाम् ऋत्व्^अर्धायन^वत्सरात्

85.65

सर्वे दुर्भिक्ष^कर्तारः स्वजातिपिशित^अशिनः[क्.अशनाः]॥
सर्प^मूषक^मार्जार^*पृथुलोम[क्.पृथुरोम]^विवर्जिताः॥

85.66

परयोनिषु गच्छन्तो मैथुनं देशनाशनाः।
अन्यत्र वेसर^उत्पत्तेर् नृणां च^अजाति^मैथुनात्॥

85.67

बन्ध^घात^भयानि स्युः पाद^ऊरू^मस्तक^अन्तिगैः।
शष्प^अपः[क्.अपशष्प]^पिशित^अन्न^अदैर् *दोष^वर्ष^क्षय[क्.वर्षमोषक्षत ऊ.दोषवर्षक्षत]^ग्रहाः॥

85.68

क्रूर^उग्र^दोष^दुष्टैश् च प्रधान^नृप^वृत्तकैः।
चिरकालेन[क्.चिरकालैश् च] दीप्ताद्यास्व् आगमो दिक्षु तन्नृणाम्॥

85.69

सद्रव्यो बलवांश् च स्यात् सद्रव्यस्य^आगमो भवेत्।
द्युतिमान् विनतप्रेक्षी सौम्यो दारुणवृत्तकृत्॥

85.70

विदिक्स्थः शकुनो दीप्तो वामस्थेन^अनुवाशितः।
स्त्रियाः संग्रहणं प्राह तद्दिगाख्यातयोनितः॥

85.71

शान्तः पञ्चमदीप्तेन विरुतो विजयावहः।
दिग्^नर^आगम^कारी वा दोषकृत् तद्^विपर्यये॥

85.72

वामसव्य^गतो[क्.रुतो] मध्यः प्राह स्वपरयोर् भयम्।
मरणं कथयन्ति एते सर्वे समविराविणः॥

85.73

वृक्ष^अग्र^मध्य^मूलेषु गज^अश्व^रथिक^आगमः।
दीर्घ^अब्ज^मुषिताग्रेषु नर^नौ^शिबिका^आगमः॥

85.74

शकटेन^उन्नतस्थे वा[क्.च] छायास्थे छत्र^संयुते[क्.छत्रसम्युतः]।
एक^त्रि^पञ्च^सप्ताहात् पूर्व^आद्यास्व् अन्तरासु च॥

85.75

सुरपति^हुतवह^यम^निरृति^वरुण^पवन^इन्दु^सङ्कराः *क्रमशः[क्.ओमित्तेद्]।
प्राच्याद्यानां पतयो दिशः पुमांसो +अङ्गना विदिशः॥

85.76

तरु^ताली^विदल^अम्बर^सलिलज^शर^चर्म^पट्ट^लेखाः स्युः।
द्वात्रिंशत्^प्रविभक्ते दिक्चक्रे तेषु कार्याणि॥

85.77

व्यायाम^शिखि^निकूजित^कलह^अम्भो^निगड^मन्त्र^गो^शब्दाः।
वर्णास् तु[क्.च] रक्त^पीतक^कृष्ण^सिताः कोणगा मिश्राः॥

85.78

चिह्नं ध्वजो दग्धम् अथ श्मशानं
दरी जलं पर्वत^यज्ञ^घोषाः।
एतेषु संयोग^भयानि विन्द्याद्
अन्यानि वा स्थान^विकल्पितानि॥

85.79

स्त्रीणां विकल्पा बृहती कुमारी
व्यङ्गा विगन्धा त्व् अथ नीलवस्त्रा।
कुस्त्री प्रदीर्घा विधवा च ताश् च
संयोग^चिन्ता परिवेदिकाः स्युः॥

85.80

पृच्छासु रूप्य^कनक^आतुर^भामिनीनां
मेषाव्य^यान^मख^गोकुल^संश्रयासु।
न्यग्रोध^रक्ततरु^रोध्रक^कीचकाख्याश्
चूतद्रुमाः खदिर^बिल्व^नगार्जुनाश् च॥
86 शाकुनेऽ+अन्तरचक्राध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc