भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 84

84.01

वल्ली^लता^गुल्म^तरु^प्रभेदैः
स्युर् दन्तकाष्ठानि सहस्रशो यैः।
फलानि वाच्यान्य् अथ[क्.अति] तत्प्रसङ्गो
मा भूद् अतो वच्म्य् अथ कामिकानि॥

84.02

अज्ञातपूर्वाणि न दन्तकाष्ठान्य्
अद्यान् न पत्रैश् च समन्वितानि।
न युग्मपर्वाणि न पाटितानि
न च^ऊर्ध्वशुष्काणि विना त्वचा च॥

84.03

वैकङ्कत^श्रीफल^काश्मरीषु
ब्राह्मी द्युतिः क्षेमतरौ सुदाराः।
वृद्धिर् वटे +अर्के प्रचुरं च तेजः
पुत्रा मधूके सगुणाः[क्.ककुभे] प्रियत्वम्॥

84.04

लक्ष्मीः शिरीषे च तथा करञ्जे
प्लक्षे +अर्थ^सिद्धिः समभीप्सिता स्यात्।
मान्यत्वम् आयाति जनस्य जात्यां
प्राधान्यम् अश्वत्थ^तरौ वदन्ति॥

84.05

आरोग्यम् आयुर् बदरी^बृहत्योर्
ऐश्वर्य^वृद्धिः खदिरे सबिल्वे।
द्रव्याणि च^इष्टान्य् अतिमुक्तके स्युः
प्राप्नोति तान्य् एव पुनः कदम्बे॥

84.06

नीपे[क्.निम्बे] +अर्थाप्तिः करवीरे +अन्नलब्धिर्
भाण्डीरे स्याद् *अन्नम् एवं[क्.इदम् एव] प्रभूतम्।
शम्यां शत्रून् अपहन्त्य् अर्जुने च
श्यामायां च द्विषताम् एव नाशः॥

84.07

शाले +अश्वकर्णे च वदन्ति गौरवं
सभद्रदाराव् अपि चाटरूषके।
वाल्लभ्यम् आयाति जनस्य सर्वतः
प्रियङ्गु^अपामार्ग^सजम्बु^दाडिमैः॥

84.08

उदङ्मुखः प्राङ्मुख एव वा^अब्दं
कामं यथेष्ठं[उ.यथेष्टं] हृदये निवेश्य।
अद्याद् अनिन्दन्[क्.अनिन्द्यं] च सुख^उपविष्टः
प्रक्षाल्य जह्याच् च शुचिप्रदेशे॥

84.09

अभिमुख^पतितं प्रशान्त^दिक्^स्थं
शुभम् अतिशोभनम् ऊर्ध्वसंस्थितं यत्।
अशुभकरम् अतो +अन्यथा प्रदिष्टं
स्थित^पतितं च करोति मृष्टम् अन्नम्॥
85 शाकुनाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc