बृहत्संहिता · अध्याय 83
वामावर्तो मलिनकिरणः सस्फुलिङ्गो +अल्पमूर्तिः
क्षिप्रं नाशं व्रजति विमल^स्नेह^वर्त्य्^अन्वितो +अपि।
दीपः पापं कथयति फलं शब्दवान् वेपनश् च
व्याकीर्ण^अर्चिर् विशलभ^मरुद्यश् च नाशं प्रयाति॥
दीपः संहत^मूर्तिर् आयत^तनुर् निर्वेपनो दीप्तिमान्
निःशब्दो रुचिरः प्रदक्षिणगतिर् वैदूर्य[क्.वैडूर्य]हेमद्युतिः।
लक्ष्मीं क्षिप्रम् अभिव्यनक्ति सुचिरं[क्.रुचिरं, क्ऽस् त्र्. सुचिरम्] यश् च^उद्यतं दीप्यते
शेषं लक्षणम् अग्निलक्षणसमं योज्यं यथायुक्तितः॥
84 दन्तकाष्ठलक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0