बृहत्संहिता · अध्याय 80
द्विप^भुजग^शुक्ति^शङ्ख^अभ्र^वेणु^तिमि^सूकर^प्रसूतानि।
मुक्ताफलानि तेषां बहुसाधु च शुक्तिजं भवति॥
सिंहलक^पारलौकिक^सौराष्ट्रिक^ताम्रपर्णि^पारशवाः।
कौबेर^पाण्ड्यवाटक^हैमा इत्य् आकरास् त्व्[क्.ह्य्] अष्टौ॥
बहुसंस्थानाः स्निग्धाः[क्.स्निग्धा] हंसाभाः सिंहलाकराः स्थूलाः।
ईषत्ताम्राः श्वेतास् तमोवियुक्ताश् च ताम्राख्याः॥
कृष्णाः श्वेताः पीताः सशर्कराः पारलौकिका विषमाः।
न स्थूला नात्यल्पा नवनीत^निभाश् च सौराष्ट्राः॥
ज्योतिष्मत्यः[क्.मन्तः] शुभ्रा गुरवो +अतिमहागुणाश् च पारशवाः।
लघु जर्जरं दधिनिभं *बृहद् द्विसंस्थानम्[क्.बृहद्विसंस्थानम्] अपि हैमम्॥
विषमम् कृष्ण^श्वेतं[क्.कृष्णम् श्वेतम्] लघु कौबेरं प्रमाण^तेजोवत्।
निम्बफल^त्रिपुट^धान्यक^चूर्णाः स्युः पाण्ड्यवाटभवाः॥
अतसीकुसुम^श्यामम् वैष्णवम् ऐन्द्रं शशाङ्क^सङ्काशम्।
हरिताल^निभं वारुणम् असितं यमदैवतं भवति॥
परिणत^दाडिम^गुलिका^गुञ्जा^ताम्रं च वायुदैवत्यम्।
निर्धूम^अनल^कमल^प्रभं च विज्ञेयम् आग्नेयम्॥
माषक^चतुष्टय^धृतस्य^एकस्य शताहता त्रिपञ्चाशत्।
कार्षापणा निगदिता मूल्यं तेजोगुणयुतस्य॥
माषक^दलहान्यातो द्वात्रिंश^द्विंशतिस् त्रयोदश च।
अष्टौ च शतानि शतत्रयं त्रिपञ्चाशता सहितम्॥
पञ्चत्रिंशं शतम् इति चत्वारः कृष्णला नवतिमूल्याः।
सार्धास् तिस्रो गुञ्जाः सप्ततिमूल्यं धृतं रूपम्॥
गुञ्जा^त्रयस्य मूल्यं पञ्चाशद् रूपका गुणयुतस्य।
रूपक^पञ्च^त्रिंशत्^त्रयस्य गुञ्जा^अर्धहीनस्य॥
पलदशभागो धरणं तद् यदि मुक्तास् त्रयोदश सुरूपाः।
*त्रिशती[उ.त्रिंशती] सपञ्चविंशा रूपकसङ्ख्या कृतं मूल्यम्॥
षोडशकस्य द्विशती विंशतिरूपस्य सप्ततिः सशता।
यत्पञ्चविंशतिधृतं तस्य शतं त्रिंशता सहितम्॥
त्रिंशत्सप्ततिमूल्यं चत्वारिंशच्छतार्ध^मूल्यं[क्.मूल्या] च।
षष्टिः पञ्चोना वा धरणम् पञ्च^अष्टकं मूल्यम्॥
मुक्ताशीत्या त्रिंशच्छतस्य सा पञ्चरूपकविहीना।
द्वित्रिचतुःपञ्चशता द्वादशषट्पञ्चकत्रितयम्॥
पिक्का^पिच्चा^अर्घा^अर्धा रवकः सिक्थं त्रयोदश^आद्यानाम्।
संज्णाः परतो निगराश् चूर्णाश् च^अशीतिपूर्वाणाम्॥
एतद्^गुणयुक्तानां धरण^धृतानां प्रकीर्तितं[क्.प्रकीतितम्] मूल्यम्।
परिकल्प्यम् अन्तराले हीनगुणाणां क्षयः कार्यः॥
कृष्ण^श्वेतक^पीतक^ताम्राणाम् ईषद् अपि च विषमाणाम्।
त्र्यंशोनम् विषमक^पीतयोश् च षड्भाग^दलहीनम्॥
ऐरावत^कुलजानां पुष्य^श्रवण^इन्दु^सूर्य^दिवसेषु।
ये चोत्तरायणभवा ग्रहणे +अर्केन्द्वोश् च भद्रेभाः॥
तेषां किल जायन्ते मुक्ताः कुम्भेषु सरदकोशेषु।
बहवो बृहत्प्रमाणा बहुसंस्थानाः प्रभायुक्ताः॥
नैषाम् अर्घः कार्यो न च वेधो +अतीव ते प्रभायुक्ताः।
सुत^विजय^आरोग्य^करा महापवित्रा धृता राज्ञाम्॥
दंष्ट्रामूले शशिकान्तिसप्रभं बहुगुणं च वाराहम्।
तिमिजं मत्स्य^अआक्षि^इभं बृहत् पवित्रं बहुगुणं च॥
वर्ष^उपलवज्जातं वायुस्कन्धाच् च सप्तमाद् भ्रष्टम्।
ह्रियते किल खाद् दिव्यैस् तडित्^प्रभं मेघ^सम्भूतम्॥
तक्षक^वासुकि^कुलजाः कामगमा ये च पन्नगास् तेषाम्।
स्निग्धा नीलद्युतयो भवन्ति मुक्ताः फणस्यान्ते॥
शस्ते +अवनिप्रदेशे रजतमये भाजने स्थिते च यदि।
वर्षति देवो +अकस्मात् तज्ज्ञेयं नागसम्भूतम्॥
अपहरति विषमलक्ष्मीं क्षपयति शत्रून् यशो विकाशयति।
भौजङ्गं नृपतीनां धृतम् अकृतार्घं विजयदं च॥
कर्पूर^स्फटिक^निभं चिपिटं विषमं च वेणुजं ज्ञेयम्।
शङ्ख^उद्भवं शशिनिभं वृत्तं भ्राजिष्णु रुचिरं च॥
शङ्ख^तिमि^वेणु^वारण^वराह^भुजग^अभ्रजान्य् *अवैद्यानि[क्.अवैध्यानि ऊ.अवेद्यानि]।
अमितगुणत्वाच् च^एषाम् अर्घः शास्त्रे न निर्दिष्टः॥
एतानि सर्वाणि महागुणानि
सुता^अर्थ^सौभाग्य^यशस्^कराणि।
रुक्^शोक^हन्तॄणि च पार्थिवानां
मुक्ताफलानि^ईप्सित^कामदानि॥
सुरभूषणं लतानां सहस्रम् अष्टोत्तरं चतुर्हस्तम्।
इन्दुच्छन्दो[क्.इन्द्रच्छन्दो] नाम्ना विजयच्छन्दस् तदर्धेन॥
शतम् अष्टयुतं हारो देवच्छन्दो ह्य् अशीतिर् एकयुता।
अष्टाष्टको +अर्धहारो रश्मिकलापश् च नवषट्कः॥
द्वात्रिंशता तु गुच्छो विंशत्या कीर्तितो +अर्धगुच्छाख्यः।
षोडशभिर् माणवको द्वादशभिश् च^अर्धमाणवकः॥
मन्दरसंज्ञो +अष्टाभिः पञ्चलता हारफलकम् इत्य् उक्तम्।
सप्ताविंशतिमुक्ता हस्तो नक्षत्रमाला^इति॥
अन्तरमणिसंयुक्ता मणिसोपानं सुवर्णगुलिकैर् वा।
तरलक^मणि^मध्यं तद्विज्ञेयं चाटुकारम् इति॥
एकावली नाम यथेष्ट^सङ्ख्या
हस्तप्रमाणा मणि^विप्रयुक्ता।
संयोजिता या मणिना तु मध्ये
यष्टि^इति सा भूषणविद्भिर् उक्तम्॥
81 पद्मरागलक्षणाद्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0