भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 79

79.01

रत्नेन शुभेन शुभं भवति नृपाणाम् अनिष्टम् अशुभेन।
यस्माद् अतः परीक्ष्यं दैवं रत्नाश्रितम् तज्ज्ञैः॥

79.02

द्विप^हय^वनिता^आदीनां स्वगुणविशेषेण रत्नशब्दो +अस्ति।
इह तु^उपलरत्नानाम् अधिकारो वज्रपूर्वाणाम्॥

79.03

रत्नानि बलाद् दैत्याद् दधीचितो +अन्ये वदन्ति जातानि।
के चिद् भुवः स्वभावाद् वैचित्र्यं प्राहुर् उपलानाम्॥

79.04

वज्र^इन्द्रनील^मरकत^कर्केतर^पद्मराग^रुधिर^आख्याः।
वैदूर्य[क्.वैडूर्य]^पुलक^विमलक^राजमणि^स्फतिक^शशिकान्ताः॥

79.05

सौगन्धिक^गोमेदक^शङ्ख^महानील^पुष्पराग^आख्याः।
ब्रह्ममणि^ज्योतीरस^सस्यक^मुक्ता^प्रवालानि॥

79.06

वेणा^तटे विशुद्धं शिरीषकुसुम*प्रभं[क्.उपमं] च कौशलकम्।
सौराष्ट्रकम् आताम्रं कृष्णं सौर्पारकं वज्रम्॥

79.07

ईषत्^ताम्रं हिमवति मतङ्गजं वल्लपुष्पसङ्काशम्।
आपीतं च कलिङ्गे श्यामं पौण्ड्रेषु सम्भूतम्॥

79.08

ऐन्द्रं षडश्रि शुक्लं याम्यं सर्प^आस्य^रूपम् असितं च।
कदली^काण्ड^निकाशं वैष्णवम् इति सर्व^संस्थानम्॥

79.09

वारुणम् अबला^गुह्य^उपमं भवेत् कर्णिकार^पुष्प^निभम्।
शृङ्गाटक^संस्थानं व्याघ्र^अक्षि^निभं च हौतभुजम्॥

79.10

वायव्यं च यव^उपमम् अशोक^कुसुम^प्रभं समुद्दिष्टम्।
स्रोतः खनिः प्रकीर्णकम् इत्य् आकर^सम्भवस् त्रिविधः॥

79.11

रक्तं पीतं च शुभम् राजन्यानाम् सितम् द्विजातीनाम्।
शैरीषं वैश्यानां शूद्राणां शस्यते +असिनिभम्॥

79.12

सितसर्षप^अष्टकं तण्डुलो भवेत् तण्डुलैस् तु विंशत्या।
तुलितस्य द्वे लक्षे मूल्यं द्विद्व्यूनिते चैतत्॥

79.13

पाद^त्र्यंश^अर्ध^ऊनं त्रिभाग^पञ्चांश^षोडश^अंशाश् च।
भागश् च पञ्चविंशः शतिकस् साहस्रिकश् च^इति॥

79.14

सर्व^द्रव्य^आभेद्यं लघ्व् अम्भसि तरति रश्मिवत् स्निघ्दम्।
तडिद्^अनल^शक्रचाप^उपमं च वज्रं हिताय^उक्तम्॥

79.15

काकपद^मक्षिका^केश^धातु^युक्तानि शर्करैर्[क्.शर्करा] विद्धम्।
द्विगुणाश्रि दग्ध[क्.दिग्ध]^कलुष^त्रस्त^विशीर्णानि न शुभानि॥

79.16

यानि च बुद्बुद^दलित^अग्र^चिपिट^वासीफल^प्रदीर्घाणि।
सर्वेषां चैतेषां मूल्याद् भागो +अष्टमो हानिः॥

79.17

वज्रं न किञ् चिद् अपि धारयितव्यम् एके
पुत्र^अर्थिनीभिर् अबलाभिर् उशन्ति तज्ज्ञाः।
शृङ्गाटक^त्रिपुट^धान्यकवत् स्थितं यच्
श्रोणीनिभं च शुभदं तनय^अर्थिनीनाम्॥

79.18

स्वजन^विभव^जीवित^क्षयं जनयति वज्रम् अनिष्ट^लक्षणम्।
अशनि^विष^भय^अरिनाशनम् शुभम् उपभोग^करं[क्.उरु^भोगकर] च भूभृताम्॥
80 मुक्तालक्षणाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc