बृहत्संहिता · अध्याय 81
सौगन्धिक^कुरुविन्द^स्फटिकेभ्यः पद्मराग^सम्भूतिः[क्ऽस् त्र्. पद्मरागो सम्भूतिः]।
सौगन्धिकजा भ्रमर^अञ्जन^अब्ज^जम्बू^रस^द्युतयः॥
कुरुविन्द^भवाः शबला मन्द^द्युतयश् च धातुभिर् विद्धाः।
स्फटिकभवा द्युतिमन्तो नानावर्णा विशुद्धाश् च॥
स्निग्धः प्रभानुलेपी स्वच्छो +अर्चिष्मान् गुरुः सुसंस्थानः।
अन्तःप्रभो +अतिरागो[क्.अतिरागा] मणिरत्नगुणाः समस्तानाम्॥
कलुषा मन्दद्युतयो लेखाकीर्णाः सधातवः खण्डाः।
दुर्विद्धा न मनोज्ञाः सशर्कराश् च^इति मणिदोषाः॥
भ्रमर^शिखि^कण्ठ^वर्णो दीप^शिखा^सप्रभो भुजङ्गानाम्।
भवति मणिः किक मूर्धनि यो +अनर्घेयः स विज्ञेयः॥
यस् तं बिभर्ति मनुजाधिपतिर् न तस्य
दोषा भवन्ति विष^रोग^कृताः कदा चित्।
राष्ट्रे च नित्यम् अभिवर्षति तस्य देवः
शत्रूंश् च नाशयति तस्य मणेः प्रभावात्॥
षड्विंशतिः सहस्राण्य् एकस्य मणेः पल^प्रमाणस्य।
कर्ष^त्रयस्य विंशतिर् उपदिष्टा पद्मरागस्य॥
अर्धपलस्य द्वादश कर्षस्य एकस्य षट्सहस्राणि।
यच् च^अष्ट^माषक^धृतं तस्य सहस्रत्रयं मूल्यम्॥
माषक^चतुष्टयं दश^शत^क्रयं द्वौ तु पञ्चशतमूल्यौ।
परिकल्प्यम् अन्तराले मूल्यं हीन^अधिक^गुणानाम्॥
वर्णन्य् ऊनस्य^अर्धं तेजोहीनस्य मूल्यम् अष्टांशम्।
अल्पगुणो बहुदोषो मूल्यात् प्राप्नोति विंशांशम्॥
आधूम्रं व्रणबहुलं स्वल्पगुणं चाप्नुयाद् द्विशतभागम्।
इति पद्मराग^मूल्यं पूर्वाचार्यैः समुद्दिष्टम्॥
82 मरकतलक्षणाध्यायः।
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0