बृहत्संहिता · अध्याय 7
न^उत्पात^परित्यक्तः कदा चिद् अपि चन्द्रजो व्रजत्य् उदयम्।
जल^दहन^पवन^भय^कृद् धान्य^अर्घ^क्षय^विवृद्धौ वा॥
विचरन् श्रवण^धनिष्ठा^प्रजापत्य[उ.प्राजापत्य]^इन्दु*वैश्वदेवानि[क्.विश्वदैवानि]।
मृद्नन् हिम^कर^तनयः करोत्य् अवृष्टिं स^रोग^भयाम्॥
रौद्र^आदीनि मघा^अन्तान्य् उपाश्रिते चन्द्रजे प्रजापीडा।
शस्त्र^निपात^क्षुद्^भय^रोग^अनावृष्टि^सन्तापैः॥
हस्त^आदीनि *चरन्[क्.विचरन्] षडृक्षाण्य् उपपीडयन् गवाम् अशुभः।
स्नेह^रस^अर्घ^विवृद्धिं करोति च^उर्वीं प्रभूत^अन्नाम्॥
आर्यम्णं हौतभुजं भद्रपदाम् उत्त्ररां यमेशं च।
चन्द्रस्य सुतो निघ्नन् प्राण^भृतां धातु^संक्षय^कृत्॥
आश्विन^वारुण^मूलान्य् उपमृद्नन् रेवतीं च चन्द्र^सुतः।
पण्य^भिषग्^नौजीविक^सलिलज^तुरग^उपघात^करः॥
पूर्व^आद्य्^ऋक्ष^त्रितयाद् एकम् अपि^इन्दोः सुतो +अभिमृद्नीयात्।
क्षुत्^शस्त्र^तस्कर^आमय^भय^प्रदायी चरन् जगतः॥
प्राकृत^विमिश्र^संक्षिप्त^तीक्ष्ण^योगान्त^घोर^पाप^आख्याः।
सप्त पराशर^तन्त्रे नक्षत्रैः कीर्तिता गतयः॥
प्राकृत^संज्ञा वायव्य^याम्य^पैतामहानि बहुलाश् च।
मिश्रा गतिः प्रदिष्टा शशि^शिव^पितृ^*भुजगदेवानि[क्.भुजगदैवानि]।
संक्षिप्तायां पुष्यः पुनर्वसुः फल्गुनी^द्वयं च^इति।
तीक्ष्णायां भद्रपदा^द्वयं स^शाक्र^अश्वयुक् पौष्णम्॥
योगान्तिका^इति मूलं द्वे च^आषाढे गतिः सुतस्य^इन्दोः॥
घोरा श्रवणस् त्वाष्ट्रं *वसुदैवं[क्.वसुदेवं] वारुणं च^एव॥
पाप^आख्या सावित्रं मैत्रं शक्राग्नि^दैवतं च^इति।
उदय^प्रवास^दिवसैः स एव गति^लक्षणं प्राह॥
चत्वारिंशत्(40) त्रिंशद्(30) द्विसमेता विंशतिर्(22) द्विनवकं(18) च।
नव(9) मास^अर्धं(15) दश च^एकसंयुताः(11) प्राकृताद्यानाम्॥
प्राकृत^गत्याम् आरोग्य^वृष्टि^सस्य^प्रवृद्धयः क्षेमम्।
संक्षिप्त^मिश्रयोर् मिश्रम् एतद् अन्यासु विपरीतम्॥
ऋज्वी^अतिवक्रा^वक्रा विकला च मतेन देवलस्य^एताः।
पञ्च^चतुर्^द्व्य्^एकाहा ऋज्व्यादीनां षडभ्यस्ताः॥
ऋज्वी हिता प्रजानाम् *अतिवक्रा +अर्घं[क्.अतिवक्रार्थं] गतिर् विनाशयति।
शस्त्र^भयदा च वक्रा विकला भय^रोग^संजननी॥
पौष^आषाढ^श्रावण^वैशाखेष्व् इन्दुजः स^माघेषु।
वृष्टो भयाय जगतः शुभ^फल^कृत् प्रोषितस् तेषु॥
*कार्तिके[क्.कार्त्तिके] +अश्वयुजि वा यदि मासे दृश्यते तनु^भवः शिशिरांशोः।
शस्त्र^चौर^हुतभुग्^गद^तोय^क्षुद्^भयानि च तदा विदधाति
रुद्धानि सौम्ये *+अस्तगते[क्.अस्तमिते] पुराणि यान्य् उद्गते तान्य् उपयान्ति मोक्षम्।
अन्ये तु पश्चाद् उदिते वदन्ति लाभः पुराणां भवति तज्ज्ञाः॥
हेम^कान्तिर् अथ वा शुक^वर्णः सस्यकेन मणिना सदृशो वा।
स्निग्ध^मूर्तिर् अलघुश् च हिताय व्यत्यये न शुभ^कृत् शशिपुत्रः॥
8 बृहस्पतिचाराध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0