बृहत्संहिता · अध्याय 78
सर्वस्य सर्वकालं यस्माद् उपयोगम् एति शास्त्रम् इदम्।
राज्ञां विशेषतो +अतः शयन^आसन^लक्षणं वक्ष्ये॥
असन^स्पन्दन^चन्दन^हरिद्र^सुरदारु^तिन्दुकी^शालाः।
काश्मर्य्^अञ्जन^पद्मक^शाका वा शिंशपा च शुभाः॥
अशनि^जल^अनिल^हस्ति^प्रपातिता मधु^विहङ्ग^कृत^निलयाः।
चैत्य^श्मशान^पथिज^ऊर्ध्वशुष्क^वल्ली^निबद्धाश् च॥
कण्टकिनो *ये च[क्.वा ये] स्युर् महानदी^सङ्गम^उद्भवा ये च।
सुरभवनजाश् च न शुभा ये च^अपर^याम्य^दिक्^पतिताः॥
प्रतिषिद्ध^वृक्ष^निर्मित^शयन^आसन^सेवनात् कुल^विनाशः।
व्याधि^भय^व्यय^कलहा भवन्त्य् अनर्था[क्.अनर्थाश् च] अनेकविधाः॥
पूर्वच्छिन्नं यदि वा दारु भवेत् तत् परीक्ष्यम् आरम्भे।
यद्य् आरोहेत् तस्मिन् कुमारकः पुत्र^पशु^दं तत्॥
सितकुसुम^मत्त^वारण^दध्य्^अक्षत^पूर्णकुम्भ^रत्नानि।
मङ्गल्यान्य् अन्यानि च दृष्ट्वा^आरम्भे शुभं ज्ञेयम्॥
कर्माङ्गुलं यव^अष्टकम् उदर^आसक्तं तुषैः परित्यक्तम्।
अङ्गुलशतं नृपाणां महती शय्या जयाय कृता॥
नवतिः सैव षडूना द्वादशहीना त्रिषट्कहीना च।
नृप^पुत्र^मन्त्रि^बलपति^पुरोधसां स्युर् यथा^सङ्ख्यम्॥
अर्धम् अतो +अष्टांशोनं विष्कम्भो विश्वकर्मणा प्रोक्तः।
आयाम^त्र्यंश^समः पाद^उच्छ्रायः सकुक्ष्य[क्.सकुक्षि]शिराः॥
यः सर्वः श्रीपर्ण्या पर्यङ्को निर्मितः स धनदाता।
असनकृतो रोगहरस् तिन्दुकसारेण वित्तकरः॥
यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः।
चन्दनमयो रिपुघ्नो धर्म^यशो^दीर्घ^जीवित^कृत्॥
यः पद्मक^पर्यङ्कः स दीर्घम् आयुः श्रियं श्रुतं वित्तम्।
कुरुते शालेन कृतः कल्याणं शाकरचितश् च॥
केवल^चन्दन^रचितं काञ्चन^गुप्तं विचित्र^रत्न^युतम्।
अध्यासन् पर्यङ्कं विबुधैर् अपि पूज्यते नृपतिः॥
अन्येन समायुक्ता न तिन्दुकी शिंशपा च शुभफलदा।
न *श्रीपर्णेन[क्.श्रीपर्णी न] च देवदारुवृक्षो न च^अप्य् असनः॥
शुभदौ तु शाल^शाकौ[क्.शाकशालौ] परस्परं संयुतौ पृथक् च^एव।
तद्वत् पृथक् प्रशस्तौ सहितौ च हरिद्रक^कदम्बौ॥
सर्वः स्पन्दन^रचितो न शुभः प्राणान् हिनस्ति च^अम्बकृतः।
असनो +अन्य^दारु^सहितः क्षिप्रं दोषान् करोति बहून्॥
अम्ब^स्पन्दन^चन्दन^वृक्षाणां स्पन्दनात्^शुभाः पादाः।
फल^तरुणा शयनासनम् इष्टफलं भवति सर्वेण॥
गज^दन्तः सर्वेषां प्रोक्त^तरूणां प्रशस्यते योगे।
कार्यो +अलङ्कारविधिर् गज^दन्तेन प्रशस्तेन॥
दन्तस्य मूलपरिधिं द्विरायतं प्रोह्य कल्पयेत्^शेषम्।
अधिकम् अनूपचराणां न्यूनं गिरिचारिणां किञ् चित्॥
*श्रीवृक्ष[क्.श्रीवत्स]^वर्धमान^च्छत्र^ध्वज^चामर^अनुरूपेषु।
छेदे दृष्टेष्व् आरोग्य[क्.अरोग्य]^विजय^धन^वृद्धि^सौख्यानि॥
प्रहरण^सदृशेषु जयो नन्द्यावर्ते प्रनष्ट^देश^आप्तिः।
लोष्ठे[क्.ऊ.लोष्टे] तु लब्धपूर्वस्य भवति देशस्य सम्प्राप्तिः॥
स्त्रीरूपे धननाशो[क्.स्वविनाशो] भृङ्गारे +अभ्युत्थिते सुत^उत्पत्तिः।
कुम्भेन निधिप्राप्तिर् यात्राविघ्नं च दण्डेन॥
कृकलास^कपि^भुजङ्गेष्व् असुभिक्ष^व्याधयो रिपु^*वशित्वम्[क्.वशत्वम्]।
गृध्र^उलूक^ध्वाङ्क्ष^श्येन^आकारेषु जनमरकः॥
पाशे +अथ वा कबन्धे नृप^मृत्युर् जनविपत् स्रुते रक्ते।
कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं भवति॥
शुक्लः समः सुगन्धिः स्निग्धश् च शुभावहो भवेच् छेदः।
अशुभ^शुभच्छेदा ये शयनेष्व् अपि ते तथा फलदाः॥
ईषायोगे दारु प्रदक्षिण^अग्रं प्रशस्तम् आचार्यैः।
अपसव्य^एकदिगग्रे भवति भयं भूत^सञ्जनितम्॥
एकेन^अवाक्शिरसा[क्.एकेनावाक्च्छिरसा] भवति हि पादेन पाद^वैकल्यम्।
द्वाभ्यां न जीर्यते +अन्नं त्रिचतुर्भिः क्लेश^वध^बन्धाः॥
सुषिरे +अथ वा विवर्णे ग्रन्थौ पादस्य शीर्षगे व्याधिः।
पादे कुम्भो यश् च ग्रन्थौ तस्मिन्न् उदररोगः॥
कुम्भ^अधस्ताज् जङ्घा तत्र कृतो जङ्घयोः करोति भयम्।
तस्याश् च^आधरो +अधः क्षयकृद् द्रव्यस्य तत्र कृतः॥
खुरदेशे यो ग्रन्थिः खुरिणां पीडाकरः स निर्दिष्टः।
ईषा^शीर्षण्योश् च त्रिभाग^संस्थो भवेन् न शुभः॥
निष्कुटम् अथ कोलाक्षं सूकरनयनं च वत्सनाभं च।
कालकम् अन्यद् धुन्धुकम् इति कथितश् छिद्र^संक्षेपः॥
घटवत् सुषिरं मध्ये सङ्कटम् आस्ये च निष्कुटं छिद्रम्।
निष्पाव^माषमात्रं नीलं छिद्रं च कोलाक्षम्॥
सूकरनयनं विषमं विवर्णम् अध्यर्ध^पर्व^दीर्घम् च।
वामावर्तं भिन्नं पर्वमितं वत्सनाभ^आख्यम्॥
कालकसंज्ञं कृष्णं धुन्धुकम् इति यद् भवेद् विनिर्भिन्नम्।
दारुसवर्णं छिद्रं न तथा पापं समुद्दिष्टम्॥
निष्कुट^सण्ज्ञे द्रव्यक्षयस् तु कोलेक्षणे कुल^ध्वंसः।
शस्त्र^भयं सूकरके रोगभयं वत्सनाभाख्ये॥
कालक^धुन्धुक^संज्ञं कीटैर् विद्धं च न शुभदं छिद्रम्।
सर्वं ग्रन्थिप्रचुरं सर्वत्र न शोभनं दारु॥
एकद्रुमेण धन्यं वृक्ष^द्वय^निर्मितं च धन्यतरम्।
त्रिभिर् आत्मज^वृद्धिकरं चतुर्भिर् अर्थं[क्.अर्थो] यशश् चाग्र्यम्॥
पञ्च^वनस्पति^रचिते पञ्चत्वं याति तत्र यः शेते।
षट्सप्ताष्टतरूणां काष्ठैर् घटिते कुलविनाशः॥
79 रत्नपरीक्षाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0