भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 77

77.01

शस्त्रेन वेणी^विनिगूहितेन विदूरथं स्वा महिषी जघान।
विष^प्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशिराजम्॥

77.02

एवं विरक्ता जनयन्ति दोषान्
प्राणच्छिदो +अन्यैर् अनुकीर्तितैः किम्।
रक्ताविरक्ताः पुरुषैर् अतो +अर्थात्
परीक्षितव्याः प्रमदाः प्रयत्नात्॥

77.03

स्नेहं मनोभवकृतं कथयन्ति भावा
नाभी^भुज^स्तन^विभूषण^दर्शनानि।
वस्त्र^अभिसंयमन^केश^विमोक्षणानि
भ्रूक्षेप^कम्पित^कटाक्ष^निरीक्षणानि॥

77.04

उच्चैः ष्ठीवनम् उत्कट^प्रहसितं शय्या^आसन^उत्सर्पणं
गात्र^आस्फोटन^जृम्भणानि सुलभ^द्रव्य^अल्प^सम्प्रार्थना।
बाल^आलिङ्गन^चुम्बनान्य् अभिमुखे सख्याः समालोकनं
दृक्पातश् च पराङ्मुखे गुणकथा कर्णस्य कण्डूयनम्॥

77.05

इमां च विन्द्याद् अनुरक्तचेष्टां
प्रियाणि वक्ति स्वधनं ददाति।
विलोक्य संहृष्यति वीतरोषा
प्रमार्ष्टि दोषान् गुणकीर्तनेन॥

77.06

तन्मित्रपूजा तदरिद्विषत्वं
कृतस्मृतिः प्रोषित^दौर्मनस्यम्।
स्तन^ओष्ठ^दानान्य् उपगूहनं च
स्वेदो +अथ चुम्बा^प्रथम^अभियोगः॥

77.07

विरक्त^चेष्टा भ्रुकुटी[क्.भृकुटी]^मुखत्वं
पराङ्मुखत्वं कृतविस्मृतिश् च।
असम्भ्रमो दुष्परितोषता च
तद्द्विष्ट^मैत्री परुषं च वाक्यम्॥

77.08

स्पृष्ट्वा^अथ वा^आलोक्य धुनोति गात्रं
करोति गर्वं न रुणद्धि यान्तम्।
चुम्बा^विरामे वदनं प्रमार्ष्टि
पश्चात् समुत्तिष्ठति पूर्वसुप्ता॥

77.09

भिक्षुणिका प्रव्रजिता दासी धात्री कुमारिका रजिका।
मालाकारी दुष्टाङ्गना सखी नापिती दूत्यः॥

77.10

कुलजन^विनाश^हेतुर् दूत्यो यस्माद् अतः प्रयत्नेन।
ताभ्यः स्त्रियो +अभिरक्ष्या वंश^यशो^मान^वृद्ध्य्^अर्थम्॥

77.11

रात्री^विहार^जागर^रोग^व्यपदेश^परगृह^ईक्षणिकाः।
व्यसन^उत्सवाश् च सङ्केत^हेतवस् तेषु रक्ष्याश् च॥

77.12

आदौ न^इच्छति न^उज्झति स्मरकथां व्रीडा^विमिश्र^आलसा
मध्ये ह्री^परिवर्जित^अभ्युपरमे लज्जा^विनम्र^आनना।
भावैर् न^एकविधैः करोत्य् अभिनयं भूयश् च या सादरा
बुद्ध्वा पुम्प्रकृतिं च या^अनुचरति ग्लानेतरैश् चेष्टितैः॥

77.13

स्त्रीणां गुणा यौवन^रूप^वेष^
दाक्षिण्य^विज्ञान^विलास^पूर्वाः।
स्त्री रत्नसंज्ञा च गुण^अन्वितासु
स्त्री^व्याधयो +अन्याश् चतुरस्य पुंसः॥

77.14

न ग्राम्य^वर्णैर् मलदिग्धकाया
निन्द्याङ्ग^संबन्धि^कथां च कुर्यात्।
न च^अन्यकार्य^स्मरणं रहःस्था
मनो हि मूलं हरदग्धमूर्तेः॥

77.15

श्वासं मनुष्येण समं त्यजन्ती बाहु^उपधान^स्तन^दान^दक्षा।
सुगन्ध^केशा सुसमीप^रागा सुप्ते +अनुसुप्ता प्रथमं विबुद्धा॥

77.16

दुष्ट^स्वभावाः परिवर्जनीया विमर्द^कालेषु च न क्षमा याः।
यासाम् असृग्^वा^असित^नील^पीतम् आताम्रवर्णं च न ताः प्रशस्ताः॥

77.17

या स्वप्नशीला बहु^रक्त^पित्ता प्रवाहिनी वात^कफ^अतिरक्ता[क्.अतिरिक्ता]।
महाशना स्वेदयुताङ्गदुष्ठा या ह्रस्वकेशी पलितान्विता वा[क्.च]॥

77.18

मांसानि यस्याश् च चलन्ति नार्या
महोदरा खिक्खिमिनी च या स्यात्॥
स्त्रीलक्षणे याः कथिताश् च पापास्
ताभिर् न कुर्यात् सह कामधर्मम्॥

77.19

शश^शोणित^सङ्काशं लाक्षा^रस^सन्निकाशम् अथ^वा यत्।
प्रक्षालितं विरज्यति यच् च^असृक् तद् भवेत्^शुद्धम्॥

77.20

यच् छब्द^वेदना^वर्जितं त्र्यहात् सन्निवर्तते रक्तम्।
तत् पुरुष^सम्प्रयोगाद् अविचारं गर्भतां याति॥

77.21

न दिनत्रयं निषेव्यं[क्.निषेवेत्] स्नानं माल्य^अनुलेपनं *स्त्रीभिः[क्.च स्त्री]।
स्नायाच् चतुर्थ^दिवसे शास्त्र^उक्तेन^उपदेशेन॥

77.22

पुष्यस्नान^ओषधयो याः कथितास् ताभिर् अम्बु^मिश्राभिः।
स्नायात् तथात्र मन्त्रः स एव यस् तत्र निर्दिष्टः॥

77.23

युग्मासु किल मनुष्या निशासु नार्यो भवन्ति विषमासु।
दीर्घायुषः सुरूपाः सुखिनश् च विकृष्ट^युग्मासु॥

77.24

दक्षिण^पार्श्वे पुरुषो वामे नारी यमाव् उभयसंस्थौ॥
यद् उदरमध्य^उपगतं नपुंसकं तन् निबोद्धव्यम्॥

77.25

केन्द्र^त्रिकोणेषु शुभस्थितेषु
लग्ने शशाङ्के च शुभैः समेते।
पापैस् त्रिलाभारिगतैश् च यायात्
पुंजन्मयोगेषु च सम्प्रयोगम्॥

77.26

न नखदशनविक्षतानि कुर्याद्
ऋतुसमये पुरुषः स्त्रियाः कथञ् चित्।
ऋतुर् अपि दश षट् च वासराणि
प्रथम^निशात्रितयं न तत्र गम्यम्॥
78 शय्यासनलक्षणाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc