भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 76

76.01

स्रग्^गन्ध^धूप^अम्बर^भूषण^आद्यं न शोभते शुक्ल^शिरोरुहस्य।
यस्माद् अतो मूर्धज^रागसेवां कुर्याद् यथ^एव^अञ्जन^भूषणानाम्॥

76.02

लौहे पात्रे तण्डुलान् कोद्रवाणां
शुक्ले पक्वांल् लोहचूर्णेन साकम्।
पिष्टान् सूक्ष्मं मूर्ध्नि शुक्ल^अम्ल^केशे
दत्वा[क्.दत्त्वा] तिष्ठेद् वेष्टयित्वा^आर्द्र[क्.अर्क]पत्रैः॥

76.03

याते द्वितीये प्रहरे विहाय
दद्यात्^शिरस्य् आमलक^प्रलेपम्।
संछाद्य पत्रैः प्रहरद्वयेन
प्रक्षालितं कार्ष्ण्यम् उपैति शीर्षम्॥

76.04

पश्चात्^शिरःस्नान^सुगन्ध^तैलैर्
लोह^अम्ल^गन्धं शिरसो +अपनीय।
हृद्यैश् च गन्धैर् विविधैश् च धूपैर्
अन्तःपुरे राज्यसुखं निषेवेत्॥

76.05

त्वक्^कुष्ठ^रेणु^नलिका^स्पृक्का^रस^तगर^बालकैस् तुल्यैः।
केसर^पत्र^विमिश्रैर् नरपति^योग्यं शिरःस्नानम्॥

76.06

मञ्जिष्ठया व्याघ्रनखेन शुक्त्या त्वचा सकुष्ठेन रसेन चूर्णः।
तैलेन युक्तो +अर्कमयूख^तप्तः करोति तच् चम्पक^गन्धि तैलम्॥

76.07

तुल्यैः पत्र^तुरुष्क^बाल^तगरैर् गन्धः स्मरोद्दीपनः
सव्यामो बकुलो +अयम् एव कटुका^हिङ्गु^प्रधूप^अन्वितः।
कुष्ठेन^उत्पलगन्धिकः समलयः पूर्वो भवेच् चम्पको
जाती^त्वक्^सहितो +अतिमुक्तक इति ज्ञेयः सकुस्तुम्बुरुः॥

76.08

शतपुष्पा^कुन्दुरुकौ पादेन^अर्धेन नख^तुरुष्कौ च।
मलय^प्रियङ्गु^*भागौ[क्ऽस् त्र्. भागो] गन्धो धूप्यो गुड^नखेन॥

76.09

गुग्गुलु^बालक[क्.वालक]^लाक्षा^मुस्ता^नख^शर्कराः क्रमाद् धूपः।
अन्यो मांसी^बालक[क्.वालक]^तुरुष्क^नख^चन्दनैः पिण्डः॥

76.10

हरीतकी^शङ्ख^घन^द्रव^अम्बुभिर्
गुड^उत्पलैः शैलक^मुस्तक^अन्वितैः।
नवान्त^पाद^आदि^विवर्धितैः क्रमाद्
भवन्ति धूपा बहवो मनोहराः॥

76.11

भागैश् चतुर्भिः सित^शैल[उ.शैलेय]^मुस्ताः
श्री^सर्ज^भागौ नख^गुग्गुलू च।
कर्पूर^बोधो मधु^पिण्डितो +अयं
कोपच्छदो नाम नरेन्द्रधूपः॥

76.12

त्वग्^उशीर^पत्र^भागैः सूक्ष्मैला^अर्धेन संयुतैश् चूर्णः।
पुटवासः[क्.पटवासः] प्रवरो +अयं मृग^कर्पूर^प्रबोधेन॥

76.13

घन^बालक^शैलेयक^कर्पूर^उशीर^नागपुष्पाणि।
व्याघ्रनख^स्पृक्का^अगुरु^*दमनक[उ.मदनक]^नख^तगर^धान्यानि॥

76.14

कर्पूर[क्ऽस् त्र्. कर्चूर]^चोल[क्.चोर]^मलयैः स्वेच्छापरिवर्तितैश् चतुर्भिर् अतः।
एकद्वित्रिचतुर्भिर् भागैर् गन्धार्णवो भवति॥

76.15

अत्युल्बणगन्ध^त्वाद् एकांशो नित्यम् एव धान्यानाम्।
कर्पूरस्य तदूनो नैतौ द्वित्र्यादिभिर् देयौ॥

76.16

श्री^सर्ज^गुड^नखैस् ते धूपयितव्याः क्रमान् न पिण्डस्थैः।
बोधः कस्तूरिकया देयः कर्पूर^संयुतया॥

76.17

अत्र सहस्र^चतुष्टयम् अन्यानि च सप्तति^सहस्राणि।
लक्षं शतानि सप्त विंशति^युक्तानि गन्धानाम्॥

76.18

एकैकम् एकभागं द्वि^त्रि^चतुर्^भागिकैर् युतं द्रव्यैः।
षड्^गन्ध^करं तद्वद् द्वि^त्रि^चतुर्^भागिकं कुरुते॥

76.19

द्रव्य^चतुष्टय^योगाद् गन्ध^चतुर्विंशतिर् यथा^एकस्य।
एवं शेषाणाम् अपि षण्णवतिः सर्वपिण्डो +अत्र॥

76.20

षोडशके द्रव्यगणे चतुर्विकल्पेन भिद्यमानानाम्।
अष्टादश जायन्ते शतानि सहितानि विंशत्या॥

76.21

षण्णवति^भेदभिन्नश् चतुर्^विकल्पो गणो यतस् तस्मात्।
षण्णनवति^गुणः कार्यः सा सङ्ख्या भवति गन्धानाम्॥

76.22

पूर्वेण पूर्वेण गतेन युक्तं
स्थानं विनान्त्यं प्रवदन्ति सङ्ख्याम्।
इच्छाविकल्पैः क्रमशो +अभिनीय
नीते निवृत्तिः पुनर् अन्यनीतिः॥

76.23

द्वि^त्रि^इन्द्रिय^अष्टभागैर् अगुरुः पत्रं तुरुष्क^शैलेयौ
विषय^अष्ट^पक्ष^दहनाः प्रियङ्गु^मुस्ता^रसाः केशः॥

76.24

स्पृक्का^त्वक्^तगराणां मांस्याश् च कृत^एक^सप्त^षड्^भागाः।
सप्त^ऋतु^वेद^चन्द्रैर् मलय^नख^श्रीक^कुन्दुरुकाः॥

76.25

षोडशके कच्छपुटे यथा तथा *मिश्रिते चतुर्द्रव्ये[क्.मिश्रितैश् चतुर्द्रव्यैः]।
ये +अत्र^अष्टादश भागास् ते +अस्मिन् गन्धादयो योगाः॥

76.26

नख^तगर^तुरुष्क^युता जाती^कर्पूर^मृग^कृत^उब्दोधाः[उ.उद्बोधाः]।
गुड^नख^धूप्या गन्धाः कर्तव्याः सर्वतोभद्राः॥

76.27

जातीफल^मृग^कर्पूर^बोधितैः स^सहकार^मधु^सिक्तैः।
बहवो +अत्र पारिजाताश् चतुर्भिर् इच्छापरिगृहीतैः॥

76.28

सर्ज^रस^श्रीवासक^समन्विता ये +अत्र सर्व^धूपास्[क्.सर्वयोगास्] तैः।
श्री^सर्ज^रस^वियुक्तैः स्नानानि सबालक[क्.सवालक]त्वग्भिः॥

76.29

रोध्र^उशीर^नत^अगुरु^*मुस्ता^पत्र[क्.मुस्ता]^प्रियङ्गु^वन^पथ्याः।
नवकोष्ठात् कच्छपुटाद् द्रव्यत्रितयं समुद्धृत्य॥

76.30

चन्दन^तुरुष्क^भागौ शुक्त्य्^अर्धं पादिका तु शतपुष्पा।
कटु^हिङ्गुल^गुड^धूप्याः केसरगन्धाश् चतुरशीतिः॥

76.31

सप्ताहं गोमूत्रे हरीतकी^चूर्ण^संयुते क्षिप्त्वा।
गन्धोदके च भूयो विनिक्षिपेद् दन्तकाष्ठानि॥

76.32

एला^त्वक्^पत्र^अञ्जन^मधु^मरिचैर् नागपुष्प^कुष्ठैश् च।
गन्धाम्भः कर्तव्यं किञ् चित् कालं स्थितान्य् अस्मिन्॥

76.33

जातीफल^पत्र^एला^कर्पूरैः कृत^यम^एक^शिखि^भागैः।
अवचूर्नितानि भानोर् मरीचिभिः शोषणीयानि॥

76.34

वर्ण^प्रसादं वदनस्य कान्तिं
वैशद्यम् आस्यस्य सुगन्धितां च।
संसेवितुः श्रोत्रसुखां च वाचं
कुर्वन्ति काष्ठान्य् असकृद्भवानाम्॥

76.35

कामं प्रदीपयति रूपम् अभिव्यनक्ति
सौभाग्यम् आवहति वक्त्र^सुगन्धितां च।
ऊर्जं करोति कफजांश् च निहन्ति रोगांस्
ताम्बूलम् एवम् अपरांश् च गुणान् करोति॥

76.36

युक्तेन चूर्णेन करोति रागं
राग^क्षयं पूगफल^अतिरिक्तम्।
चूर्ण^अधिकं वक्त्र^विगन्ध^कारि
पत्र^अधिकं साधु करोति गन्धम्॥

76.37

पत्र^अधिकं निशि हितं सफलं दिवा च
प्रोक्तान्य् अथाकरणम् अस्य विडम्बनैव।
कक्कोल^पूग^लवलीफल^पारिजातैर्
आमोदितं मदमुदा मुदितं करोति॥
77 स्त्रीपुंससमायोगाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc