भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 75

75.01

रक्ते +अधिके स्त्री पुरुषस् तु शुक्रे नपुंसकं शोणित^शुक्रसाम्ये।
यस्माद् अतः शुक्र^विवृद्धिदानि निषेवितव्यानि रसायनानि॥

75.02

हर्म्य^पृष्ठम् उडुनाथ^रश्मयः स^उत्पलं मधु मद^अलसा प्रिया।
वल्लकी स्मरकथा रहः स्रजो वर्ग एष मदनस्य वागुरा॥

75.03

माक्षीकधातु^मधु^पारद^लोहचूर्ण^
पथ्या^शिलाजतु^*घृतानि समानि[क्.विडङ्गघृतानि] यो +अद्यात्।
सैकानि विंशतिर् अहानि जरान्वितो +अपि
सो +अशीतिको +अपि रमयत्य् अबलां युवा^इव॥

75.04

क्षीरं शृतं यः कपिकच्छु^मूलैः
पिबेत् क्षयं स्त्रीषु न सो +अभ्युपैति।
माषान् पयःसर्पिषि वा विपक्वान्
षड्ग्रासमात्रांश् च पयो +अनुपानम्[क्.अनुपानान्]॥

75.05

विदारिकायाः स्वरसेन चूर्णं मुहुर्मुहुर् भावितशोषितं च।
शृतेन दुग्धेन सशर्करेण पिबेत् स यस्य प्रमदाः प्रभूताः॥

75.06

धात्रीफलानां स्वरसेन चूर्णं
सुभावितं क्षौद्र^सित^आज्य^युक्तम्।
लीढ्वा^अनु पीत्वा च पयो +अग्निशक्त्या
कामं निकामं पुरुषो निषेवेत्॥

75.07

क्षीरेण बस्त^अण्ड युजा शृतेन
सम्प्लाव्य कामी बहुशस् तिलान् यः।
सुशोषितान् अत्ति *पयः पिबेच्[क्.पिबेत् पयश्] च
तस्य^अग्रतः किं चटकः करोति॥

75.08

माष^सूप^सहितेन सर्पिषा षष्टिकौदनम् अदन्ति ये नराः।
क्षीरम् अप्य् अनु पिबन्ति तासु ते शर्वरीषु मदनेन[क्.मदने न] शेरते॥

75.09

तिल^अश्वगन्धा^कपिकच्छु^मूलैर्
विदारिका^षष्टिक^पिष्ट^योगः।
आजेन पिष्टः पयसा घृतेन
पक्वं[क्.पक्त्वा] भवेत्^शष्कुलिकातिवृष्या॥

75.10

क्षीरेण वा गोक्षुरक^उपयोगं
विदारिका^कन्दक^भक्षणं वा।
कुर्वन् न सीदेद् यदि जीर्यते +अस्य
मन्दाग्निता चेद् इदम् अत्र चूर्णम्॥

75.11

स^अजमोद^लवणा हरीतकी शृङ्गवेर^सहिता च पिप्पली।
मद्य^तक्र^तरल^उष्णवारिभिश् चूर्णपानम् उदराग्निदीपनम्॥

75.12

अत्यम्ल^तिक्त^लवणानि कटूनि वा+अत्ति
*यः क्षारशाक^बहुलानि[क्.क्षारशाकबहुलानि] च भोजनानि।
दृक्^शुक्र^वीर्य^रहितः स करोत्य् अनेकान्
व्याजान् जरन्न् इव युवा +अप्य् अबलाम् अवाप्य॥
76 गन्धयुक्त्यध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc