भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 74

74.01

जात्यं मनोभव^सुखं सुभगस्य सर्वम्
आभास^मात्रम् इतरस्य मनोवियोगात्।
चित्तेन भावयति दूरगता^अपि यं स्त्री
गर्भं बिभर्ति सदृशं पुरुषस्य तस्य॥

74.02

भङ्क्त्वा काण्डं पादपस्य^उप्तम् उर्व्यां
बीजं वा^अस्यां न^अन्यताम् एति यद्वत्।
एवं ह्य् आत्मा जायते स्त्रीषु भूयः
कश् चित् तस्मिन् क्षेत्रयोगाद् विशेषः॥

74.03

आत्मा सह^एति मनसा मन इन्द्रियेण
स्वार्थेन च^इन्द्रियम् इति क्रम एष शीघ्रः।
योगो +अयम् एव मनसः किम् अगम्यम् अस्ति
यस्मिन् मनो व्रजति तत्र गतो +अयम् आत्मा॥

74.04

आत्मा^अयम् आत्मनि गतो हृदये +अतिसूक्ष्मो
ग्राह्यो +अचलेन मनसा सतत^अभियोगात्।
यो यं विचिन्तयति याति स तन्मयत्वं
यस्माद् अतः सुभगम् एव गता युवत्यः॥

74.05

दाक्षिण्यम् एकं सुभगत्व^हेतुर् विद्वेषणं तद्^विपरीत^चेष्टा।
मन्त्र^ओषध^आद्यैः कुहक^प्रयोगैर् भवन्ति दोषा बहवो न शर्म॥

74.06

वाल्लभ्यम् आयाति विहाय मानं दौर्भाग्यम् आपादयते +अभिमानः।
कृच्छ्रेण संसाधयते +अभिमानी कार्याण्य् अयत्नेन वदन् प्रियाणि॥

74.07

तेजो न तद् यत् प्रिय^साहसत्वं वाक्यं न च^अनिष्टम् असत्प्रणीतम्।
कार्यस्य गत्व?^अन्तम् अनुद्धता ये तेजस्विनस् ते न विकत्थना ये॥

74.08

यः सार्वजन्यं सुभगत्वम् इच्छेद् गुणान् स सर्वस्य वदेत् परोक्षम्[क्.परोक्षे]।
प्राप्नोति दोषान् असतो +अप्य् अनेकान् परस्य यो दोषकथां करोति॥

74.09

सर्व^उपकार^अनुगतस्य लोकः सर्व^उपकार^अनुगतो नरस्य।
कृत्वा^उपकारं द्विषतां विपत्सु या कीर्तिर् अल्पेन न सा शुभेन॥

74.10

तृणैर् इवाग्निः सुतरां विवृद्धिम् आछाद्यमानो +अपि गुणो +अभ्युपैति।
स केवलं दुर्जनभावम् एति हन्तुं गुणान् वाञ्छति यः परस्य॥
75 कान्दर्पिकाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc