बृहत्संहिता · अध्याय 73
जये धरित्र्याः पुरम् एव सारं
पुरे गृहं सद्मनि च^एकदेशः।
तत्रापि शय्या शयने वरा स्त्री
रत्नोज्ज्वला राज्यसुखस्य सारः॥
रत्नानि विभूषयन्ति योषा भूष्यन्ते वनिता न रत्नकान्त्या।
चेतो विनता हरन्त्य् अरत्ना नो रत्नानि विनाङ्गना^अङ्ग^सङ्गम्[क्.सङ्गात्]॥
आकारं विनिगूहतां रिपुबलं जेतुं समुत्तिष्ठतां
तन्त्रं चिन्तयतां कृत^अकृत^शत^व्यापार^शाखा^आकुलम्।
मन्त्रि^प्रोक्त^निषेविणां[क्.निसेविणाम्, क्ऽस् त्र्. निषेविनाम्] क्षितिभुजाम् आशङ्किनां सर्वतो
धुःख^अम्भो^निधि^वर्तिनां सुख^लवः कान्ता^समालिङ्गनम्॥
श्रुतं दृष्टं स्पृष्टं स्मृतम् अपि नृणां ह्लाद^जननं
न रत्नं स्त्रीभ्यो +अन्यत् क्व चिद् अपि कृतं लोकपतिना।
तदर्थं धर्म^अर्थौ सुत^विषय^सौख्यानि च ततो
गृहे लक्ष्म्यो मान्याः सततम् अबला मान^विभवैः॥
ये +अप्य् अङ्गनानां प्रवदन्ति दोषान्
वैराग्य^मार्गेण गुणान् विहाय।
ते दुर्जना मे मनसो वितर्कः
सद्भाव^वाक्यानि न तानि तेषाम्॥
प्रब्रूत सत्यं करतो +अङ्गनानां
दोषो +अस्ति यो नाचरितो मनुष्यैः।
धार्ष्ट्येन पुम्भिः प्रमदा निरस्ता
गुणाधिकास् ता मनुना^अत्र च^उक्तम्॥
सोमस् तासाम् अदात्^शौचं गन्धर्वः[क्.गन्धर्वाः] शिक्षितां गिरम्।
अग्निश् च सर्वभक्षित्वं तस्मान् निष्कसमाः स्त्रियः॥
ब्राह्मणाः पादतो मेध्या गावो मेध्याश् च पृष्ठतः।
अज^अश्वा मुखतो मेध्याः स्त्रियो मेध्यास् तु सर्वतः॥
स्त्रियः पवित्रम् अतुलं नैता दुष्यन्ति कर्हि चित्।
मासि मासि रजो ह्य् आसां दुष्कृतान्य् अपकर्षति॥
जामयो यानि गेहानि शपन्त्य् अप्रतिपूजिताः।
तानि कृत्या^हतानि^इव विनश्यन्ति समन्ततः॥
जाया वा स्याज् जनित्री वा सम्भवः स्त्रीकृतो नृणाम्।
हे कृतघ्नाश् तयोर् निन्दां कुर्वतां वः कुतः शुभम्॥
दम्पत्योर् व्युत्क्रमे दोषः समः शास्त्रे प्रतिष्ठितः।
नरा न समवेक्षन्ते तेन^अत्र वरमङ्गनाः॥
बहिर् लोम्ना तु षण्मासान् वेष्टितः खर^चर्मणा।
दारातिक्रमणे भिक्षां देहि^इत्य् उक्त्वा विशुध्यति॥
न शतेन^अपि वर्षाणाम् अपैति मदन^आशयः।
तत्र अशक्त्या निर्वर्तन्ते नरा धैर्येण योषितः॥
अहो धार्ष्ट्यम् असाधूनां निन्दताम् अनघाः स्त्रियः।
मुष्णताम् इव चौराणां तिष्ठ चौरेति जल्पताम्॥
पुरुषश् चटुलानि[क्.चातुलानि, क्ऽस् त्र्. चटुलानि] कामिनीनां
कुरुते यानि रहो न तानि पश्चात्।
सुकृतज्ञतया^अङ्गना गतासून्
अवगूह्य प्रविशन्ति सप्तजिह्वम्॥
स्त्रीरत्न^भोगो +अस्ति नरस्य यस्य
निःस्वो +अपि *साम्प्रत्य् अवनीस्वरो[क्.स्वं प्रत्यवनीस्वरो, क्ऽस् त्र्. मां प्रत्यव] +असौ।
राज्यस्य सारो +अशनम् अङ्गनाश् च
तृष्ण^अनल^उद्दीपन^दारु शेषम्॥
कामिनीं प्रथमयौवन^अन्वितां
मन्द^वल्गु^मृदु^पीडित^स्वनाम्।
उत्स्तनीं समवलम्ब्य या रतिः
सा न धातृभवने +अस्ति मे मतिः॥
तत्र देव^मुनि^सिद्ध^चारणैर्
मान्य^मानपितृ^सेव्य^सेवनात्।
ब्रूत धातृभवने +अस्ति किं सुखं
यद् रहः समवलम्ब्य न स्त्रियम्॥
आब्रह्म^कीट^अन्तम् इदं निबद्धं
पुंस्त्रीप्रयोगेण जगत् समस्तम्।
व्रीडा^अत्र का यत्र चतुर्मुखत्वम्
ईशो +अपि लोभाद् गमितो युवत्याः॥
74 सौभाग्यकरणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0