भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 72

72.01

निचितं तु[क्ऽस् त्र्. नु] हंस^पक्षैः कृकवाकु^मयूर^सारसानां वा।
दौकूल्येन[क्.दौकूलेन] नवेन तु समन्ततश् छादितं शुक्लम्॥

72.02

मुक्ताफलैर् उपचितं प्रलम्ब^माला^आविलं स्फटिक^मूलम्।
षड्^ढस्त^शुद्धहैमं नव^पर्व^नग^एक^दण्डं तु॥

72.03

दण्ड^अर्ध^विस्तृतं तत् समावृतं रत्न^भूषितम्[क्.रत्नविभूषितम्, क्ऽस् त्र्. रत्नभूषितम्] उदग्रम्।
नृपतेस् तद्^आतपत्रं कल्याण^परं विजयदं च॥

72.04

युवराज^नृपति^पत्न्योः सेनापति^दण्डनायकानां च।
दण्डो +अर्ध^पञ्च^हस्तः समपञ्च^*कृतो +अर्ध[क्.कृतार्ध]विस्तारः॥

72.05

अन्येषाम् उष्णघ्नं प्रसादपट्टैर् विभूषित^शिरस्कम्।
व्यालम्बि^रत्नमालं छत्रं कार्यं तु[क्.च] मायूरम्॥

72.06

अन्येषां तु नराणां शीत^आतप^वारणं तु चतुरस्रम्[क्.चतुरश्रम्]।
समवृत्त^दण्ड^युक्तं छत्रं कार्यं तु विप्राणाम्॥
73 स्त्रीप्रशम्साध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc