बृहत्संहिता · अध्याय 6
यद्य् उदय^ऋक्षाद् वक्रं करोति नवम^अष्ट^सप्तम^ऋक्षेषु।
तद्*वक्त्राम्[क्.वक्रम् ऊ.वक्त्रम्] उष्णम् उदये पीडा^करम् अग्निवार्त्तानाम्॥
द्वादश^दशम^एकादश^नक्षत्राद् वक्रिते कुजे +अश्रु^मुखम्।
दूषयति रसान् उदये करोति रोगान् अवृष्टिं च॥
व्यालं त्रयोदश^ऋक्षाच् चतुर्दशाद् वा विपच्यते +अस्तमये।
दंष्ट्रि^व्याल^मृगेभ्यः करोति पीडां सुभिक्षं च॥
रुधिर^आननम् इति वक्त्रं पञ्चदशात् षोडशाच् च विनिवृत्ते।
तत्^कालं मुख^रोगं स^भयं च सुभिक्षम् आवहति॥
असि^मुशलं सप्तदशाद् अष्टादशतो +अपि वा तद् अनुवक्रे।
दस्यु^गणेभ्यः पीदां करोत्य् अवृष्टिं स^शस्त्र^भयाम्॥
भाग्य^आर्यमा^उदिते यदि निवर्तते वैश्व^दैवते भौमः।
प्राजापत्ये +अस्तमितस् त्रीन् अपि लोकान् निपीडयति॥
श्रवण^उदितस्य वक्रं पुष्ये मूर्ध^अभिषिक्त^पीडा^कृत्।
यस्मिन्न् ऋक्षे +अभ्युदितस् तद्^दिग्^व्यूहान् जनान् हन्ति॥
मध्येन यदि मघानां गत^अगतं लोहितः करोति ततः।
पाण्ड्यो नृपो विनश्यति शस्त्र^उद्योगाद् भयम् अवृष्टिं॥
भित्त्वा *मघा[क्.मघां] विशाखां भिन्दन् भौमः करोति दुर्भिक्षम्।
मरकं करोति घोरं यदि भित्त्वा रोहिणीं याति॥
दक्षिणतो रोहिण्यास् चरन् महीजो +अर्घ^वृष्टि^निग्रह^कृत्।
धूमायन् स^शिखो वा विनिहन्यात् पारियात्र^स्थान्॥
प्राजापत्ये श्रवणे मूले *त्रिषु च^उत्तरेषु[क्.तिसृषूत्तरासु] शाक्रे च।
विचरन् घन^निवहानाम् उपघात^करः क्षमा^तनयः॥
चार^उदयाः प्रशस्ताः श्रवण^मघा^आदित्य*हस्त^मूलेषु[क्.मूलहस्तेषु]।
एकपदा^अश्वि^विशाखा^प्राजापत्येषु च कुजस्य॥
विपुल^विमल^मूर्तिः किंशुक^अशोक^वर्णः
स्फुट^रुचिर^मयूखस् तप्त^ताम्र^प्रभा^आभः।
विचरति यदि मार्गं च^उत्तरं मेदिनीजः
शुभ^कृद् अवनि^पानां हार्दिदश् च प्रजानाम्॥
7 बुधचाराध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0