बृहत्संहिता · अध्याय 69
स्निग्ध^उन्नत^अग्र^तनु^ताम्र^नखौ कुमार्याः
पादौ सम^उपचित^चारु^निगूढ^गुल्फौ।
श्लिष्ट^अङ्गुली कमल^कान्ति^तलौ च यस्यास्
ताम् उद्वहेद् यदि भुवो +अधिपतित्वम् इच्छेत्॥
मत्स्य^अङ्कुश^अब्ज^यव^वज्र^हल^असि^चिह्न^
अवस्वेदनौ मृदु^तलौ चरणौ प्रशस्तौ।
जङ्घे च रोम^रहिते विशिरे सुवृत्ते
जानु^द्वयं समम् अनुल्बण^सन्धिदेशम्॥
ऊरू घनौ करिकर^प्रतिमाव् अरोमाव्
अश्वत्थ^पत्र^सदृशं विपुलं च गुह्यम्।
श्रोणी^ललाटम् उरु^कूर्म^समुन्नतं च
गूढो मणिश् च विपुलां श्रियम् आदधाति॥
विस्तीर्ण^मांस^उपचितो नितम्बः
गुरुश् च धत्ते रशना[क्.रसना]^कलापम्।
नाभिर् गभीरा[क्.गम्भीरा] विपुल^अङ्गानां
प्रदक्षिण^आवर्त^गता *च शस्ता[क्.प्रशस्ता]॥
मध्यं स्त्रियास् त्रि^वलि^नाथम् अरोमशं च
वृत्तौ घनाव् अविषमौ कठिनाव् उरस्यौ।
रोम^प्रवर्जितम्[क्.अपवर्जितम्] उरो मृदु च^अङ्गनानां
ग्रीवा च कम्बु^निचित^अर्थ^सुखानि दत्ते[क्.धत्ते]॥
बन्धुजीव^कुसुम^उपमो +अधरो
मांसलो रुचिर^बिम्ब^रूप^भृत्।
कुन्द^कुड्मल^निभाः समा द्विजा
योषितां पतिसुख^अमित^अर्थदाः॥
दाक्षिण्य^युक्तम् अशठं परपुष्ट^हंस^
वल्गु प्रभाषितम् अदीनम् अनल्प^सौख्यम्।
नासा समा सम^पुटा रुचिरा प्रशस्ता
दृग्^नील^नीरज^दल^द्युति^हारिणी च॥
नो सङ्गते न^अतिपृथू न लम्बे शस्ते भ्रुवौ बाल^शशाङ्क^वक्रे।
अर्धेन्दु^संस्थानम् अरोमशं च शस्तं ललाटं न नतं न तुङ्गम्॥
कर्ण^युग्मम् अपि युक्त^मांसलं शस्यते म्र्दु *समाहितम् समम्[क्.समं समाहितम्]।
स्निग्ध^नील^मृदु^कुञ्चित^एकजा मूर्धजाः सुख^कराः समं शिरः॥
भृङ्गार^आसन^वाजि^कुञ्जर^रथ^श्रीवृक्ष^यूप^इषुभिर्
माला^कुण्डल^चामर^अङ्कुश^यवैः शैलैर् ध्वजैस् तोरणैः।
मत्स्य^स्वस्तिक^वेदिका^व्यजनकैः शङ्ख^आतपत्र^अम्बुजैः
पादे पाणि^तले +अथ वा[क्.अपि वा] युवतयो गच्छन्ति राज्ञी^पदम्॥
निगूढ^मणिबन्धनौ तरुण^पद्म^गर्भ^उपमौ
करौ नृपति^*योषितस्[क्.योषितां] तनु^विकृष्ट^पर्व^अङ्गुली।
न निम्नम् अति न^उन्नतं कर^तलं सु^रेखा^अन्वितं
करोत्य् अविधवां चिरं सुत^सुख^अर्थ^सम्भोगिनीम्॥
मध्य^अङ्गुलिं या मणिबन्धन^उत्था
रेखा गता पाणि^तले +अङ्गनायाः।
ऊर्ध्व^स्थिता पाद^तले +अथ वा या
पुंसो +अथ वा राज्य^सुखाय सा स्यात्॥
कनिष्ठिका^मूल^भवा गता या
प्रदेशिनी^मध्यमिक^अन्तरालम्।
करोति रेखा परम^आयुषः सा
प्रमाणम् ऊना तु तद् ऊनम् आयुः॥
अङ्गुष्ट^मूले प्रसवस्य रेखाः
पुत्रा बृहत्यः प्रमदास् तु तन्व्यः।
अच्छिन्न^मध्या[क्.दीर्घा] बृहद्^आयुषस्[क्.बृहदायुषां] ताः
स्वल्प^आयुषां छिन्न^लघु^प्रमाणाः॥
इति^इदम् उक्तं शुभम् अङ्गनानाम्
अतो विपर्यस्तम् अनिष्टम् उक्तम्।
विशेषतो +अनिष्ट^फलानि यानि
समासतस् तान्य् अनुकीर्तयामि॥
कनिष्ठिका वा तद्^अनन्तरा वा
महीं न यस्याः श्पृशति स्त्रियाः स्यात्।
गता^अथ वा^अङ्गुष्ठम् अतीत्य यस्याः
प्रदेशिनी सा कुलटा +अतिपापा॥
उद्बद्धाभ्याम् पिण्डिकाभ्याम् शिराले
शुष्के जङ्घे लोमशे[क्.ऊ.रोमशे] च^अतिमांसे
वाम^आवर्तं निम्नम् अल्पं च गुह्यं
कुम्भ^आकारं च^उदरं दुःखितानाम्॥
ह्रस्वया^अतिनिःस्वता दीर्घया कुल^क्षयः।
ग्रीवया पृथु^उत्थया योषितः प्रचण्डता॥
नेत्रे यस्याः केकरे पिङ्गले वा
सा दुःशीला श्याव^लोल^ईक्षणा च।
कूपौ यस्या गण्डयोश् च स्मितेषु
निःसन्दिग्धं बन्धकीं तां वदन्ति॥
प्रविलम्बिनि देवरं ललाटे
श्वशुरं हन्त्य् उदरे स्फिजोः पतिं च।
अतिरोम^चय^अन्वित^उत्तर^ओष्ठी
न शुभा भर्तुर् अतीव या च दीर्घा॥
स्तनौ सरोमौ मलिन^उल्बणौ च
क्लेशं दधाते विषमौ च कर्णौ।
स्थूलाः कराला विषमाश् च दन्ताः
क्लेशाय चौर्याय च कृष्ण^मांसाः॥
क्रव्याद^रूपैर् वृक^काक^कङ्क^
सरीसृप^उलूक^समान^चिह्नैः
शुष्कैः शिरालैर् विषमैश् च हस्तैर्
भवन्ति नार्यः सुख^वित्त^हीनाः॥
या तु^उत्तरोष्ठेन समुन्नतेन
रूक्ष^अग्र^केशी कलह^प्रिया सा।
प्रायो विरूपासु भवन्ति दोषा
यत्र^आकृतिस् तत्र गुणा वसन्ति॥
पादौ सगुल्फौ प्रथमं प्रदिष्टौ जङ्घे द्वितीयं तु स^जानु^चक्रे।
मेढ्र^ऊरु^मुष्कं च ततस् तृतीयं नाभिः कटिश् च^एव[क्.च इति] चतुर्थम् आहुः॥
उदरं कथयन्ति पञ्चमं हृदयं षष्ठम् अतस् स्तन^अन्वितम्।
अथ सप्तमम् अंसजत्रुणी कथयन्त्य् अष्टमम् ओष्ठ^कन्धरे॥
नवमं नयने च स^भ्रुणी स^ललाटं दशमं शिरस् तथा।
अशुभेष्व् अशुभं दशाफलं चरण^आद्येषु शुभेषु शोभनम्॥
70 वस्त्रच्छेदलक्षणाध्यायः
70.01अब्[क्.71.6अब्]। प्रभूत^वस्त्रदा^अश्विनी भरण्य् अथ^अपहारिणी।
70.01च्द्[क्.71.6च्द्]। प्रदह्यते +अग्निदैवते प्रजेस्वरे +अर्थ^सिद्धयः॥
70.02अब्[क्.71.7अब्]। मृगे तु मूषकाद् भयं व्यसुत्वम् एव शाङ्करे।
70.02च्द्[क्.71.7च्द्]। पुनर्वसौ शुभ^आगमस् तद्^अग्रभे धनैर् युतिः॥
70.03अब्[क्.71.8अब्]। भुजङ्ग^भे विलुप्यते मघासु मृत्युम् आदिशेत्।
70.03च्द्[क्.71.8च्द्]। भग^आह्वये नृपाद् भयं धन^आगमाय च^उत्तरा॥
70.04अब्[क्.71.9अब्]। करेण कर्म^सिद्धयः शुभ^आगमस् तु चित्रया।
70.04च्द्[क्.71.9च्द्]। शुभं च भोज्यम् आनिले द्वि^दैवते जन^प्रियः॥
70.05अब्[क्.71.10अब्]। सुहूद्युतिश्[क्.ऊ.सुहृद्युतिश्] च मित्रभे तद्^अग्र^भे[क्.पुरन्दरे] +अम्बर^क्षयः।
70.05च्द्[क्.71.10च्द्]। जल^प्लुतिश् च नैरृते रुजो जलाधि^दैवते॥
70.06अब्[क्.71.11अब्]। मिष्टम् अन्नम् अपि वैश्व^दैवते वैष्णवे भवति नेत्र^रोगता।
70.06च्द्[क्.71.11च्द्]। धान्य^लब्धिर्[क्.लब्धिम्] अपि[क्.अथ] वासवे[क्.विश्वदैवते] विदुर् वारुणे विष^कृतं महद्भयम्॥
70.07अ[क्.71.12अ] भद्रपदासु भयं सलिल^उत्थं
70.07ब्[क्.71.12ब्] तत् परतश् च भवेत् सुत^लब्धिः।
70.07च्[क्.71.12च्] रत्न^युतिं कथयन्ति च पौष्णे
70.07द्[क्.71.12द्] यो +अभिनव^अम्बरम् इच्छति भोक्तुम्॥
[क्.71.13अब्। विप्र^मताद् अथ भूपति^दत्तं यच् च विवाह^विधाव् अभिलब्धम्।
क्.71.13च्द्। तेषु गुणै रहितेष्व् अपि भोक्तुं नूतनम् अम्बरमिष्टफलं स्यात्॥]
70.08अब्[क्.71.14अब्]। भोक्तुं नव^अम्बरं शस्तम् ऋक्षे +अपि गुण^वर्जिते।
70.08च्द्[क्.71.14च्द्]। विवाहे राज^सम्माने ब्रह्मणाणां च सम्मते॥
70.09अब्[क्.71.1अब्]। वस्त्रस्य कोणेषु वसन्ति देवा नराश् च पाशान्त^दशान्त^मध्ये।
70.09च्द्[क्.71.1च्द्]। शेषास् त्रयश् च^अत्र निशाचरांशास् तथ^एव शय्या^आसन^पादुकासु॥
70.10अब्[क्.71.2अब्]। लिप्ते मषी^गोमय^कर्दम^आद्यैश् छिन्ने प्रदग्धे स्फुटिते च विन्द्यात्।
70.10च्द्[क्.71.2च्द्]। पुष्टं नवे +अल्प^अल्पतरं च भुक्ते पापं शुभं च^अधिकम् उत्तरीये॥
70.11अब्[क्.71.3अब्]। रुग्^राक्षस^अंशेस्व् अथ वा +अपि मृत्युः पुञ्^जन्म^तेजश् च मनुष्य^भागे।
70.11च्द्[क्.71.3च्द्]। भागे +अमराणाम् अथ भोग^वृद्धिः प्रान्तेषु सर्वत्र वदन्त्य् अनिष्टम्॥
70.12अब्[क्.71.4अब्]। कङ्क^प्लव^उलूक^कपोत^काक^क्रव्याद^गोमायु^खर^उष्ट्र^सर्पैः।
70.12च्द्[क्.71.4च्द्]। छेद^आकृतिर् दैवत^भागगा^अपि पुंसां भयं मृत्यु^समं करोति॥
70.13अब्[क्.71.5अब्]। छत्र^ध्वज^स्वस्तिक^वर्धमान^श्रीवृक्ष^कुम्भ^अम्बुज^तोरण^आद्यैः।
70.13च्द्[क्.71.5च्द्]। छेद^आकृतिर् नैरृत^भागगा^अपि पुंसां विधत्ते न चिरेण लक्ष्मीम्॥
71 चामरलक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0