बृहत्संहिता · अध्याय 71
देवैश् चमर्यः किल वाल^हेतोः
सृष्टा हिमक्ष्माधर^कन्दरेषु।
आपीत^वर्णाश् च भवन्ति तासां
कृष्णाश् च लाङ्गूल^भवाः सिताश् च॥
स्नेहो मृदुत्वं बहु^वालता[क्.वालता च]
वैशद्यम् अल्प^अस्थि^निबन्धनत्वम्।
शौक्ल्यं च तासां[क्.तेषां] गुण^सम्पद् उक्ता
विद्ध^अल्प^लुप्तानि न शोभनानि॥
अध्यर्ध^हस्त^प्रमितो +अस्य दण्डो
हस्तो +अथ वा^अरत्नि^समो +अथ वा^अन्यः।
काष्ठात्^शुभात् काञ्चन^रूप्य^गुप्ताद्
रत्नैश् *च सर्वैश्[क्.विचित्रैश्] च हिताय राज्ञाम्॥
यष्ट्य्^आतपत्र^अङ्कुश^वेत्र^चाप^वितान^कुन्त^ध्वज^चामराणाम्।
व्यापीत^तन्त्री^मधु^कृष्ण^वर्णा वर्ण^क्रमेण^एव हिताय दण्डाः॥
मातृ^भू^धन^कुल^क्षयावहा
रोग^मृत्यु^जननाश् च पर्वभिः।
द्व्य्^आदिभिर् द्विक^विवर्धितैः क्रमात्
द्वादश^अन्त^विरतैः समैः फलम्॥
यात्रा^प्रसिद्धिर् द्विषतां विनाशो
लाभाः प्रभूता[क्.प्रभूतो] वसुधा^गमश् च।
वृद्धिः पशूनाम् अभिवञ्छित^आप्तिस्
त्र्य्^आद्येष्व् अयुग्मेषु तद्^ईश्वराणाम्॥
72 छत्रलक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0