बृहत्संहिता · अध्याय 68
ताराग्रहैर् बलयुतैः स्व^क्षेत्र^स्व^उच्चगैश् चतुष्टयगैः।
पञ्च पुरुषाः प्रशस्ता जायन्ते तान् अहं वक्ष्ये॥
जीवेन भवति हंसः सौरेण शशः कुजेन रुचकश् च।
भद्रो बुधेन बलिना मालव्यो दैत्य^पूज्येन॥
सत्त्वम् अहीनं सूर्यात्^शारीरं मानसं च चन्द्र^बलात्।
यद् राशि^भेद^युक्ताव् एतौ तल् लक्षणः स पुमान्॥
तद्^धातु^महाभूत^प्रकृति^द्युति^वर्ण^सत्त्व^रूप^आद्यैः।
अबल^रवि^इन्दु^युतैस् तैः सङ्कीर्णा लक्षणैः पुरुषाः॥
भौमात् सत्त्वं गुरुता बुधात् सुरेज्यात् स्वरः सितात् स्नेहः।
वर्णः सौराद् एषां गुण^दोषैः साध्व्^असाधुत्वम्॥
सङ्कीर्णाः स्युर् न नृपा दशासु तेषां भवन्ति सुख^भाजः।
रिपु^गृह^नीच^उच्च^च्युत^सत्^पाप^निरीक्षणैर् भेदाः[क्.भेदः]॥
षण्^णवतिर् अङ्गुलानां व्यायामो दीर्घता च हंसस्य।
शश^रुचक^भद्र^मालव्य^संज्ञितास् त्र्य्^अङ्गुल^विवृद्ध्या॥
यः सात्त्विकस् तस्य दया स्थिरत्वं
सत्त्व^आर्जवं ब्राह्मण^देव^भक्तिः।
रजो^अधिकः काव्य^कला^क्रतु^स्त्री^
संसक्त^चित्तः पुरुषो +अतिशूरः॥
तमो^अधिको वञ्चयिता परेषां
मूर्खो +अलसः क्रोध^परो +अति^निद्रः।
मिश्रैर् गुणैः सत्त्व^रजस्^तमोभिर्
मिश्रास् तु ते सप्त सह प्रभेदैः॥
मालव्यो *नाग^नासः सम^भुज[क्.नागनाससमभुज]^युगलो जानु^सम्प्राप्त^हस्तो
मांसैः पूर्ण^अङ्ग^सन्धिः सम^रुचिर^तनुर् मध्य^भागे कृशश् च।
पञ्च^अष्टौ च^ऊर्ध्वम् आस्यं श्रुति^विवरम् अपि त्र्य्^अङ्गुल^ऊनं च तिर्यग्
दीप्त^अक्षं सत्^कपोलं सम^सित^दशनं न^अतिमांस^अधरोष्ठम्॥
मालवान् स भरुकच्छ^सुराष्ट्रान्
लाट^सिन्धु^विषय^प्रभृतींश् च।
विक्रम^आर्जित^धनो +अवति राजा
पारियात्र^निलयान्[क्.निलयः] कृत^बुद्धिः॥
सप्तति^वर्षो मालव्यो +अयं त्यक्ष्यति सम्यक् प्राणांस् तीर्थे।
लक्षणम् एतत् सम्यक् प्रोक्तं शेष^नराणां च^अतो वक्ष्ये॥
उपचित^समवृत्त^लम्ब^बाहुर्
भुज^युगल^प्रमितः समुच्छ्रयो +अस्य।
मृदु^तनु^घन^रोम^नद्ध^गण्डो
भवति नरः खलु लक्षणेन भद्रः॥
त्वक्^शुक्र^सारः पृथु^पीन^वक्षाः
सत्त्व^अधिको व्याघ्र^मुखः स्थिरश् च।
क्षम^अन्वितो धर्म^परः कृत^ज्ञो
गजेन्द्र^गामी बहु^शास्त्र^वेत्ता॥
प्राज्ञो वपुष्मान् सु^ललाट^शङ्खः
कलास्व् अभिज्ञो धृतिमान् सु^कुक्षिः।
सरोज^गर्भ^द्युति^पाणि^पादो
योगी सुनासः सम^संहत^भ्रूः॥
नव^अम्बु^सिक्त^अवनि^पत्र^कुङ्कुम^
द्विपेन्द्र^दान^अगुरु^तुल्य^गन्धता।
शिरो^रुहाश् च^एकज^कृष्ण^कुञ्चितास्
तुरङ्ग^नाग^उपम^गुह्य^गूढता[क्.गूढगुह्यता]॥
हल^मुशल^गदा^असि^शङ्ख^चक्र^
द्विप^मकर^अब्ज^रथ^अङ्कित^अङ्घ्रि[क्.अन्ह्रि]^हस्तः।
विभवम् अपि जनो +अस्य बोभुजी^इति
क्षमति हि न स्वजनं स्व^तन्त्र^बुद्धिः॥
अङ्गुलानि नवतिश् च षड्^ऊनान्य्
उच्छ्रयेण तुलया^अपि हि भारः।
मध्य^देश^नृपतिर् यदि पुष्टाश्
त्र्य्^आदयो +अस्य सकल^अवनि^नाथः॥
भुक्त्वा सम्यग्^वसुधां शौर्येण^उपार्जिताम् अशीत्य्^अब्दः।
तीर्थे प्राणांस् त्यक्त्वा भद्रो देव^आलयं याति॥
ईषद्^दन्तुरकस् तनु^द्विज^नखः कोश^ईक्षणः शीघ्रगो
विद्या^धातु^वणिक्^क्रियासु निरतः सम्पूर्ण^गण्डः शठः।
सेनानीः प्रिय^मैथुनः पर^जन^स्त्री^सक्त^चित्तश् चलः
शूरो मातृहितो वन^अचल^नदी^दुर्गेषु सक्तः शशः॥
दीर्घो +अङ्गुलानां शतम् अष्ट^हीनं
साशङ्क^चेष्टः पर^रन्ध्रविच् च।
सारो +अस्य मज्जा निभृत^प्रचारः
शशो ह्य् अतो[क्.अयं] न^अतिगुरुः प्रदिष्टः॥
मध्ये कृशः खेटक^खड्ग^वीणा
पर्यङ्क^माला^मुरज^अनुरूपाः।
शूल^उपमाश् च^ऊर्ध्व^गताश् च रेखाः
शशस्य पाद^उपगताः करे वा॥
प्रात्यन्तिको माण्डलिको +अथ वा^अयं
स्फिक्^स्राव^शूल^अभिभव^अर्त^मूर्तिः।
एवं शशः सप्तति^हायनो +अयं
वैवस्वतस्य^आलयम् अभ्युपैति॥
रक्तं पीन^कपोलम् उन्नत^नसं वक्त्रं सुवर्ण^उपमं
वृत्तं च^अस्य शिरो +अक्षिणी मधु^निभे सर्वे च रक्ता नखाः।
स्रग्^दाम^अङ्कुश^शङ्ख^मत्स्य^युगल^क्रत्व्^अङ्ग^कुम्भ^अम्बुजैश्
चिह्नैर् हंस^कल^स्वनः सु^चरणो हंसः प्रसन्न^इन्द्रियः॥
रतिर् अम्भसि शुक्र^सारता द्वि^गुणा च^अष्ट^शतैः पलैर् मितिः।
परिमाणम् अथ^अस्य षड्^युता नवतिः सम्परिकीर्तिता बुधैः॥
भुनक्ति हंसः खस^शूरसेनान् गान्धार^गङ्गा^यामुना^अन्तरालम्।
शतं दश^ऊनं शरदां नृपत्वं कृत्वा वन^अन्ते समुपैति मृत्युम्॥
सु^भ्रू^केशो रक्त^श्यामः कम्बु^ग्रीवो व्यादीर्घ^आस्यः।
शूरः क्रूरः श्रेष्ठो मन्त्री चौर^स्वामी व्यायामी च॥
यन्मात्रम् आस्यं रुचकस्य दीर्घं
मध्य^प्रदेशे चतुरस्रता[क्.चतुरश्रता] सा।
तनु^च्छविः शोणित^मांस^सारो
हन्ता द्विषां साहस^सिद्ध^कार्यः॥
खट्वाङ्ग^वीणा^वृष^चाप^वज्र^
शक्ति^इन्द्र^शूल^अङ्कित^पाणि^पादः।
भक्तो गुरु^ब्राह्मण^देवतानां
शत^अङ्गुलः स्यात् *तु सहस्र^मानः[क्.तुलया सहस्रम्]॥
मन्त्र^अभिचार^कुशलः कृश^जानु^जङ्घो
विन्ध्यं ससह्यगिरिम् उज्जयिनीं च भुक्त्वा।
सम्प्राप्य सप्तति^समा रुचको नरेन्द्रः
शस्त्रेण मृत्युम् उपयात्य् अथ वा +अनलेन॥
पञ्च^अपरे वामनको जघन्यः
कुब्जो +अथ वा मण्डलको +अथ साची[क्.समी]।
पूर्व^उक्त^भूप^अनुचरा भवन्ति
सङ्कीर्ण^संज्ञः[क्.संज्ञाः] शृणु लक्षणैस् तान्॥
सम्पूर्ण^अङ्गो वामनो भग्न^पृष्ठः
किञ्चिच् च^ऊरू^मध्य^कक्ष्य[क्.कक्ष]^अन्तरेषु।
ख्यातो राज्ञां ह्य् एष भद्र^अनुजीवी
स्फीटो राजा[क्.दाता] वासुदेवस्य भक्तः॥
मालव्य^सेवी तु जघन्य^नामा
खण्डेन्दु^तुल्य^श्रवणः सु^सन्धिः।
शुक्रेण सारः पिशुनः कविश् च
रूक्ष^च्छविः स्थूल^कर^अङ्गुलीकः॥
क्रूरो धनी स्थूल^मतिः प्रतीतस्
ताम्र^च्छविः स्यात् परिहास^शीलः।
उरो^अङ्घ्रि[क्.अन्ह्रि]^हस्तेष्व् असि^शक्ति^पाश^
परश्वध^*अङ्कः स[क्.अङ्कश् च] जघन्य^नामा॥
कुब्जो नाम्ना यः स शुद्धो ह्य् अधस्तात्
क्षीणः किञ् चित् पूर्व^काये नतश् च।
हंस^आसेवी नास्तिको +अर्थैर् उपेतो
विद्वान् शूरः सूचकः स्यात् कृत^ज्ञः॥
कलास्व् अभिज्ञः कलह^प्रियश् च
प्रभूत^भृत्यः प्रमदा^जितश् च।
सम्पूज्य लोकं प्रजहात्य् अकस्मात्
कुब्जो +अयम् उक्तः सतत^उद्यतश् च॥
*मण्डलकक्षणम् अतो[क्.मण्डलकनामधेयो. ऊ.मण्डलकलक्षणम् अतो] रुचक^अनुचरो +अभिचारवित् कुशलः।
कृत्या^वेताल[क्.वैताल]^आदिषु कर्मसु विद्यासु च^अनुरतः॥
वृद्ध^आकारः खर^*परुष^मूर्धजश्[क्.रूक्षमूर्धजश्] च शत्रु^नाशने कुशलः।
द्विज^देव^यज्ञ^योग^प्रसक्त^धीः स्त्री^जितो मतिमान्॥
साची^इति[क्.सामीति] यः सो +अतिविरूप^देहः
शश^अनुगामी खलु दुर्भगश् च।
दाता महारम्भ^समाप्त^कार्यो
गुणैः शशस्य^एव भवेत् समानः॥
68.40अ[क्.ओमित्तेद्] पुरुष^लक्षणम् उक्तम् इदम् मया
68.40ब्[क्.ओमित्तेद्] मुनि^मतानि निरीक्ष्य समासतः।
68.40च्[क्.ओमित्तेद्] इदम् अधीत्य नरो नृप^सम्मतो
68.40द्[क्.ओमित्तेद्] भवति सर्वजनस्य च वल्लभः॥
69 कन्यालक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0