भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 67

67.01

उन्मान^मान^गति^संहति^सार^वर्ण^
स्नेह^स्वर^प्रकृति^सत्त्वम् अनूकं आदौ।
क्षेत्रं मृजां च विधिवत् कुशलो +अवलोक्य
सामुद्रविद् वदति यातम् अनागतं वा[क्.च]॥

67.02

अस्वेदनौ मृदुतलौ कमल^उदर^आभौ
श्लिष्ट^अङ्गुली रुचिर^ताम्र^नखौ सुपार्ष्णी।
उष्णौ शिरा^विरहितौ सुनिगूढ^गुल्फौ
कूर्म^उन्नतौ च चरणौ मनुजेश्वरस्य॥

67.03

शूर्प^आकार^विरूक्ष^पाण्डुर^नखौ वक्रौ शिरा^सन्ततौ
संशुष्कौ विरल^अङ्गुली च चरणौ दारिद्र्य^दुःख^प्रदौ।
मार्गाय^उत्कटकौ कषाय^सदृशौ वंशस्य विच्छेददौ[क्.विच्छित्तिदौ]
ब्रह्मघ्नौ परिपक्व^मृद्^द्युति^तलौ पीताव् *अगम्या^रतौ[क्.अगम्यरतौ]॥

67.04

प्रविरल^तनु^रोम^वृत्त^जङ्घा
द्विरद^कर^प्रतिमैर् वर^ऊरुभिश् च।
उपचित^सम^जानवश् च भूपा
धन^रहिताः श्व^शृगाल^तुल्य^जङ्घाः॥

67.05

रोम^एक^एकं कूपके पार्थिवानां
द्वे द्वे ज्ञेये पण्डित^श्रोत्रियाणाम्।
त्र्य्^आद्यैर् निःस्वा मानवा दुःख^भाजः
केशाश् च^एवं निन्दिताः पूजिताश् च॥

67.06

निर्मांस^जानुर् म्रियते प्रवासे
सौभाग्यम् अल्पैर् विकटैर् दरिद्राः।
स्त्री^निर्जिताश् च^एव[क्.च^अपि] भवन्ति निम्नै
राज्यं समांसैश् च महद्भिर् आयुः॥

67.07

लिङ्गे +अल्पे धनवान् अपत्य^रहितः स्थूले *+अपि हीनो[क्.विहीनो] धनैर्
मेढ्रे वामनते सुत^अर्थ^रहितो वक्रे +अन्यथा पुत्रवान्।
दारिद्र्यं विनते त्व् अधो +अल्प^तनयो लिङ्गे शिरा^सन्तते
स्थूल^ग्रन्थि^युते सुखी मृदु करोत्य् अन्तं प्रमेह^आदिभिः॥

67.08

कोश^निगूढैर् भूपा दीर्घैर् भग्नैश् च वित्त^परिहीनाः।
ऋजु^वृत्त^शेफसो लघु^शिराल^शिश्नाश् च धनवन्तः॥

67.09

जल^मृत्युर् एक^वृषणो विषमैः स्त्री^चञ्चलः समैः क्षितिपः।
ह्रस्व^आयुश् च^उद्बद्धैः प्रलम्ब^वृषणस्य शतम् आयुः॥

67.10

रक्तैर् आढ्या मणिभिर् निर्द्रव्याः पाण्डुरैश् च मलिनैश् च।
सुखिनः स^शब्द^मूत्रा निःस्वा निःशब्द^धाराश् च॥

67.11

द्वि^त्रि^चतुर्^धाराभिः प्रदक्षिण^आवर्त^वलित^मूत्राभिः।
पृथिवी^पतयो ज्ञेया विकीर्ण^मूत्राश् च धन^हीनाः॥

67.12

एक^एव मूत्र^धारा वलिता *रूप^प्रदा न सुत^दात्री[क्.रूपप्रधानसुतदात्री]।
स्निग्ध^उन्नत^सम^मणयो धन^वनिता^रत्न^भोक्तारः।

67.13

मणिभिश् च मध्य^निम्नैः कन्या^पितरो भवन्ति निःस्वाश् च।
बहु^पशु^भाजो मध्य^उन्नतैश् च न^अत्युल्बणैर् धनिनः॥

67.14

परिशुष्क^बस्ति^शीर्षैर् धन^रहिता दुर्भगाश् च विज्ञेयाः।
कुसुम^सम^गन्ध^शुक्रा विज्ञातव्या मही^पालाः॥

67.15

मधु^गन्धे बहुवित्ता मत्स्य^सगन्धे बहून्य् अपत्यानि।
तनु^शुक्रः स्त्री^जनको मांस^सगन्धो महाभोगी॥

67.16

मदिरा^गन्धे यज्वा क्षार^सगन्धे च रेतसि दरिद्रः।
शीघ्रं मैथुन^गामी दीर्घ^आयुर् अतो +अन्यथा^अल्पायुः॥

67.17

निःस्वो +अतिस्थूल^स्फिक् समांसल^स्फिक् सुख^अन्वितो भवति।
व्याघ्रान्तो +अध्यर्ध^स्फिग् मण्डूक^स्फिग् नर^अधिपतिः॥

67.18

सिंह^कटिर् मनुजेन्द्रः कपि^करभ^कटिर् धनैः परित्यक्तः।
सम^जठरा भोगयुता घट^पिठर^निभ^उदरा निःस्वाः॥

67.19

अविकल^पार्श्वा धनिनो निम्नैर् वक्रैश् च भोग^सन्त्यक्ताः।
सम^कुक्षा भोगाढ्या निम्नाभिर् भोग^परिहीनाः॥

67.20

उन्नत^कुक्षाः क्षितिपाः कुटिलाः स्युर् मानवा विषम^कुक्षाः।
सर्प^उदरा दरिद्रा भवन्ति बह्व्^आशिनश् च^एव॥

67.21

परिमण्डल^उन्नताभिर् विस्तीर्णाभिश् च नाभिभिः सुखिनः।
अल्पा[क्.स्वल्पा] त्व् अदृश्य^निम्ना नाभिः क्लेश^आवहा भवति॥

67.22

वलि^मध्य^गता विषमा *शूलाद् बाधां[क्.शूलाबाधं] करोति नैस्व्यं[क्.नैःस्व्यं] च।
शाठ्यं वाम^आवर्ता करोति मेधां प्रदक्षिणतः॥

67.23

पार्श्व^आयता चिर^आयुषम् उपरिष्टाच् च^ईश्वरं गव^आढ्यम् अधः।
शतपत्र^कर्णिका^आभा नाभिर् मनुजेश्वरं कुरुते॥

67.24

शस्त्र^अन्तं स्त्री^भोगिनम् आचार्यं बहु^सुतं यथासंख्यम्।
एक^द्वि^त्रि^चतुर्भिर् वलिभिर् विन्द्याद् नृपं त्व् अवलिम्॥

67.25

विषम^वलयो मनुष्या भवन्त्य् अगम्या^अभिगामिनः पापाः।
ऋजु^वलयः सुख^भाजः परदार^द्वेषिणश् च^एव॥

67.26

मांसल^मृदुभिः पार्श्वैः प्रदक्षिण^आवर्त^रोमभिर् भूपाः।
विपरीतैर् निर्द्रव्याः सुख^परिहीनाः पर^प्रेष्याः॥

67.27

सुभगा भवन्त्य् अनुद्वद्ध[क्.अनुबद्ध]^चूचुका निर्धना विषम^दीर्घैः।
पीन^उपचित^निमग्नैः क्षिति^पतयश् चूचुकैः सुखिनः॥

67.28

हृदयं समुन्नतं पृथु न वेपनं मांसलं च नृपतीनाम्।
अधनानां विपरीतं खर^रोम^चितं शिरालं च॥

67.29

सम^वक्षसो +अर्थवन्तः पीनैः *शूरा ह्य्[क्.शूरास् त्व्] अकिञ्चनास् तनुभिः।
विषमं वक्षो येषां ते निःस्वाः शस्त्र^निधनाश् च॥

67.30

विषमैर् विषमो जत्रुभिर् अर्थ^विहीनो +अस्थि^सन्धि^परिणद्धैः।
उन्नत^जत्रुर् भोगी[क्.भागी] निम्नैर् निःस्वो +अर्थवान् पीनैः॥

67.31

चिपिट^ग्रीवो निःस्वः शुष्का सशिरा च यस्य वा ग्रीवा।
महिष^ग्रीवः शूरः शस्त्र^अन्तो वृष^सम^ग्रीवः॥

67.32

कम्बु^ग्रीवो राजा प्रलम्ब^कण्ठः प्रभक्षणो भवति।
पृष्ठम् अभग्नम् अरोमशम् अर्थवताम् अशुभदम् अतो +अन्यत्॥

67.33

अस्वेदन^पीन^उन्नत^सुगन्ध[क्.सुगन्धि]^सम^रोम^सङ्कुलाः कक्षाः।
विज्ञातव्या धनिनाम् अतो +अन्यथा^अर्थैर् विहीनानाम्॥

67.34

निर्मांसौ रोमचितौ भग्नाव् अल्पौ च निर्धनस्य^अंसौ।
विपुलाव् अव्युच्छिन्नौ सुश्लिष्टौ सौख्य^वीर्यवताम्॥

67.35

करि^कर^सदृशौ वृत्ताव् आ^जान्व्^अवलम्बिनौ समौ पीनौ।
बाहू पृथिवी^ईशानाम् अधनानां[क्.अधमानां] रोमशौ ह्रस्वौ॥

67.36

हस्त^अङ्गुलयो दीर्घाश् चिर^आयुषाम् अवलिताश् च सुभगानाम्।
मेधाविनाम् च सूक्ष्माश् चिपिटाः पर^कर्म^निरतानाम्॥

67.37

स्थूलाभिर् धन^रहिता बहिर्^नताभिश् च शस्त्र^निर्याणाः।
कपि^सदृश^करा धनिनो व्याघ्र^उपम^पाणयः पापाः॥

67.38

मणि^बन्धनैर् निगूढैर् दृढैश् च सु^श्लिष्ट^सन्धिभिर् भूपाः।
हीनैर् हस्त^च्छेदः श्लथैः सशब्दैश् च निर्द्रव्याः॥

67.39

पितृ^वित्तेन विहीना भवन्ति निम्नेन करतलेन नराः।
संवृत^निम्नैर् धनिनः प्रोत्तान^कराश् च दातारः॥

67.40

विषमैर् विषमा निःस्वाश् च करतलैर् ईश्वराश्[क्.ईश्वरास्] तु लाक्षाभैः।
पीतैर् अगम्य^वनिता^अभिगामिनो निर्धना रूक्षैः॥

67.41

तुष^सदृश^नखाः क्लीबाश् चिपिटैः स्फुटितैश् च वित्त^सन्त्यक्ताः।
कु^नख^विवर्णैः पर^तर्कुकाश् च ताम्रैश् चमूपतयः॥

67.42

अङ्गुष्ठ^यवैर् आढ्याः सुतवन्तो +अङ्गुष्ठ^*मूलजैश् च यवैः[क्.मूलगैश् च यवः]।
दीर्घ^अङ्गुलि^पर्वाणः सुभगा दीर्घ^आयुषश् च^एव॥

67.43

स्निग्धा निम्ना रेखा धनिनां तद्^व्यत्ययेन निःस्वानाम्।
विरल^अङ्गुलयो निःस्वा धन^सञ्चयिनो घन^अङ्गुलयः॥

67.44

तिस्रो रेखा मणि^बन्धन^उत्थिताः कर^तल^उपगा नृपतेः।
मीन^युग^अङ्कित^पाणिर् नित्यं सत्र^प्रदो भवति॥

67.45

वज्र^आकारा धनिनां विद्या^भाजां च मीन^पुच्छ^निभाः।
शङ्ख^आतपत्र^शिविका^गज^अश्व^पद्म^उपमा नृपतेः॥

67.46

कलश^मृणाल^पताका^अङ्कुश^उपमाभिर् भवन्ति निधिपालाः।
दाम^निभाभिश् च^आढ्याः स्वस्तिक^रूपाभिर् ऐश्वर्यम्॥

67.47

चक्र^असि^परशु^तोमर^शक्ति^धनुः^कुन्त^सन्निभा रेखाः।
कुर्वन्ति चमूनाथं यज्वानम् उलूखल^आकाराः॥

67.48

मकर^ध्वज^कोष्ठागार^सन्निभाभिर् महाधन^उपेताः।
वेदी^निभेन च^एव^अग्निहोत्रिणो ब्रह्मतीर्थेन॥

67.49

वापी^देवकुल^आद्यैर् धर्मं कुरुवन्ति च त्रि^कोणाभिः।
अङ्गुष्ठ^मूल^रेखाः पुत्राः स्युर् दारिकाः सूक्ष्माः॥

67.50

रेखाः प्रदेशिनि^गताः[क्.गाः] शतायुषं कल्पनीयम् ऊनाभिः।
छिन्नाभिर् द्रुम^पतनं बहु^रेखा^अरेखिणो निःस्वाः॥

67.51

अतिकृश^दीर्घैश् चिबुकैर् निर्द्रव्या मांसलैर् धन^उपेताः।
विम्ब[क्.बिम्ब]^उपमैर् अवक्रैर् अधरैर् भूपास् तनुभिर् अस्वाः॥

67.52

ओष्ठैः स्फुटित^विखण्डित^विवर्ण^रूक्षैश् च धन^परित्यक्ताः।
स्निग्धा घनाश् च दशनाः सुतीक्ष्ण^दंष्ट्राः समाश् च शुभाः॥

67.53

जिह्वा रक्ता दीर्घा श्लक्ष्णा सुसमा च भोगिनो[क्.भोगिनां] ज्ञेया।
श्वेता कृष्णा परुषा निर्द्रव्याणां तथा तालु॥

67.54

वक्त्रं सौम्यं संवृतम् अमलं श्लक्ष्णं समं च भूपानाम्।
विपरीतं क्लेश^भुजां महामुखं दुर्भगाणां च॥

67.55

स्त्री^मुखम् अनपत्यानां शाठ्यवतां मण्डलं परिज्ञेयम्।
दीर्घं निर्द्रव्याणां भीरु^मुखाः पाप^कर्माणः॥

67.56

चतुरस्रं[क्.चतुरश्रं] धूर्तानां निम्नं वक्रं[क्.वक्त्रं] च तनय^रहितानाम्।
कृपणानाम् अतिह्रस्वं सम्पूर्णं भोगिनां कान्तम्॥

67.57

अस्फुटित^अग्रं स्निग्धं श्मश्रु शुभं मृदु च सन्नतं च^एव।
रक्तैः परुषैश् चौराः श्मश्रुभिर् अल्पैश् च विज्ञेयाः॥

67.58

निर्मांसैः कर्णैः पाप^मृत्यवश् चर्पटैः सुबहुभोगाः।
कृपणाश् च ह्रस्व^कर्णाः शङ्कु^श्रवणाश् चमूपतयः[क्.च भूपतयः]॥

67.59

रोमश^कर्णा दीर्घ^आयुषश् च[क्.तु] धन^भागिनो विपुल^कर्णाः।
क्रूराः शिरा^अवनद्धैर् व्यालम्बैर् मांसलैः सुखिनः॥

67.60

भोगी त्व् अनिम्न^गण्डो मन्त्री सम्पूर्ण^मांस^गण्डो यः।
सुखभाक् शुक^सम^नासश् चिर^जीवी शुष्क^नासश् च॥

67.61

छिन्न^अनुरूपया^अगम्य^गामिनो दीर्घया तु सौभाग्यम्।
आकुञ्चितया चौरः स्त्री^मृत्युः स्याच् चिपिट^नासः॥

67.62

धनिनो +अग्र^वक्र^नासा दक्षिण^विनताः[क्.वक्राः] प्रभक्षणाः क्रूराः।
ऋज्वी स्व्^अल्प^च्छिद्रा सुपुटा नासा सभाग्यानाम्॥

67.63

धनिनां क्षुतं सकृद् द्वि^त्रि^पिण्डितं ह्लादि स^अनुनादं च।
दीर्घ^आयुषां प्रमुक्तं विज्ञेयं संहतं च^एव॥

67.64

पद्म^दल^आभैर् धनिनो रक्त^अन्त^विलोचनाः[क्.विलोचनाः] श्रियः भाजः।
मधु^पिङ्गलैर् महार्था मार्जार^विलोचनैः पापाः॥

67.65

हरिण^अक्षा मण्डल^लोचनाश् च जिह्मैश् च लोचनैश् चौराः।
क्रूराः केकर^नेत्रा गज^सदृश^*विलोचनाश् चमूपतयः[क्.दृशश् च भूपतयः]॥

67.66

ऐश्वर्यम् गम्भीरैर् नीलोत्पल^कान्तिभिश् च विद्वांसः।
अतिकृष्ण^तारकाणाम् अक्ष्णाम् उत्पाटनं भवति॥

67.67

मन्त्रित्वं स्थूल^दृशां *श्याव^अक्षाणां [क्.श्यावाक्षाणां च]^भवति सौभाग्यम्।
दीना दृग् निःस्वानां स्निग्धा विपुल^अर्थ^भोगवताम्॥

67.68

अभ्युन्नताभिर् अल्प^आयुषो विशाल^उन्नताभिर् अतिसुखिनः।
विषम^भ्रुवो दरिद्रा बालेन्दु^नत^भ्रुवः स^धनाः॥

67.69

दीर्घा^असंसक्ताभिर् धनिनः खण्डाभिर् अर्थ^परिहीनाः।
मध्य^विनत^भ्रुवो ये ते सक्ताः स्त्रीष्व् अगम्यासु॥

67.70

उन्नत^विपुलैः शङ्खैर् धनिनो[क्.धन्या] निम्नैः सुत^अर्थ^सन्त्यक्ताः।
विषम^ललाटा विधना धनवन्तो +अर्धेन्दु^सदृशेन॥

67.71

शुक्ति^विशालैर् आचार्यता शिरा^सन्ततैर् अधर्म^रताः।
उन्नत^शिराभिर् आढ्याः स्वस्तिकवत् संस्थिताभिश् च॥

67.72

निम्न^ललाटा वध^बन्ध^भागिनः क्रूर^कर्म^निरताश् च।
अभ्युन्नतैश् चमूपाः[क्.भूपाः] कृपणाः स्युः संवृत[क्.सङ्कट]^ललाटाः॥

67.73

रुदितम् अदीनम् अनश्रु स्निग्धं च शुभ^आवहं मनुष्याणाम्।
रूक्षं दीनं प्रचुर^अश्रु च^एव न शुभ^प्रदं पुंसाम्॥

67.74

हसितं शुभदम् अकम्पं स^निमीलित^लोचनं तु पापस्य।
दुष्टस्य[क्.हृष्टस्य] हसितम् असकृत् स^उन्मादस्य^असकृत् प्रान्ते॥

67.75

तिस्रो रेखाः शत^जीविनां ललाट^आयताः स्थिता यदि ताः।
चतसृभिर् अवनीशत्वं नवतिश् च^आयुः स^पञ्च^अब्दा॥

67.76

विच्छिन्नाभिश् च^अगम्य^गामिनो नवतिर् अप्य् अरेखेण।
केश^अन्त^उपगताभी रेखाभिर् अशीति^वर्ष^आयुः॥

67.77

पञ्चभिर् आयुः सप्ततिर् एक^अग्र^अवस्थिताभिर् अपि षष्टिः।
बहु^रेखेण शत^अर्धं चत्वारिंशच् च वक्राभिः॥

67.78

*भ्रू^लग्नाभिस् त्रिंशद्[क्.त्रिम्शभ्रूलग्नाभिर्]^विंशतिकश् च^एव वाम^वक्राभिः।
क्षुद्राभिः स्व्^अल्प^आयुर् न्यूनाभिश् च^अन्तरे कल्प्यम्॥

67.79

परिमण्डलैर् गव^आढ्याश् छत्र^आकारैः शिरोभिर् अवनीशाः।
चिपिटैः पितृ^मातृ^घ्नाः करोटि^शिरसां चिरान् मृत्युः॥

67.80

घट^मूर्धा^अध्वान^रुचिर् द्वि^मस्तकः पापकृद् धनैस् त्यक्तः।
निम्नं तु शिरो महतां बहु^निम्नम् अन्^अर्थदं भवति॥

67.81

एक^एक^भवैः स्निग्धैः कृष्णैर् आकुञ्चितैर् अभिन्न^अग्रैः।
मृदुभिर् न च^अतिबहुभिः केशैः सुख^भाग् नरेन्द्रो वा॥

67.82

बहु^मूल^विषम^कपिलाः स्थूल^स्फुटित^अग्र^परुष^ह्रस्वाश् च।
अतिकुटिलाश् च^अतिघनाश् च मूर्धजा वित्त^हीनानाम्॥

67.83

यद् यद् गात्रं रूक्षं मांस^विहीनं शिर^अवनद्धं च।
तत् तद् अनिष्टं प्रोक्तं विपरीतम् अतः शुभं सर्वम्॥

67.84

त्रिषु विपुलो गम्भीरस् त्रिष्व् एव षड्^उन्नतश् चतुर्^ह्रस्वः।
सप्तसु रक्तो राजा पञ्चसु दीर्घश् च सूक्ष्मश् च॥

67.85

नाभी[क्.नाभिः] स्वरः सत्त्वम् इति प्रशस्तं[क्.प्रदिष्टं]
गम्भीरम् एतत् त्रितयं नराणाम्।
उरो ललाटं वदनं च पुंसां
विस्तीर्णम् एतत् त्रितयं प्रशस्तम्॥

67.86

वक्षो +अथ कक्षा नख^नासिका^आस्यं
कृकाटिका च^इति षड्^उन्नतानि।
ह्रस्वानि चत्वारि च लिङ्ग^पृष्ठं
ग्रीवा च जङ्घे च हित^प्रदानि॥

67.87

नेत्रान्त^पाद^कर^ताल्व्^अधरोष्ठ^जिह्वा
रक्ता नखाश् च खलु सप्त सुख^आवहानि।
सूक्ष्माणि पञ्च दशन^अङ्गुलि^पर्व^केशाः
साकं त्वचा *कररुहा न च[क्.कररुहाश् च न] दुःखितानाम्॥

67.88

हनु^लोचन^बाहु^नासिकाः स्तनयोर् अन्तरम् अत्र पञ्चमम्।
इति दीर्घम् इदं तु पञ्चकं न भवत्य् एव नृणाम् अभूभृताम्॥

67.89

छाया शुभ^अशुभ^फलानि निवेदयन्ती
लक्ष्या मनुष्य^पशु^पक्षिषु लक्षणज्ञैः।
तेजोगुणान् बहिर् अपि प्रविकाशयन्ती
दीप^प्रभा स्फटिक^रत्न^घट^स्थिता^इव॥

67.90

स्निग्ध^द्विज^त्वग्^नख^रोम^केशाश्[क्.केश]
छाया सुगन्धा च मही^समुत्था।
तुष्ट्य्^अर्थ^लाभ^अभ्युदयान् करोति
धर्मस्य च^अहन्य् अहनि प्रवृत्तिम्॥

67.91

स्निग्धा सित^अच्छ^हरिता नयन^अभिरामा
सौभाग्य^मार्दव^सुख^अभ्युदयान् करोति।
सर्व^अर्थ^सिद्धि^जननी जननी^इव च^आप्या
छाया फलं तनु^भृतां शुभम् आदधाति॥

67.92

चण्डा^अधृष्या पद्म^हेम^अग्नि^वर्णा
युक्ता तेजो^विक्रमैः सप्रतापैः।
आग्नेयि^इति प्राणिनां स्याज् जयाय
क्षिप्रं सिद्धिं वाञ्छित^अर्थस्य दत्ते[क्.धत्ते]॥

67.93

मलिन^परुष^कृष्णा पाप^गन्धा^अनिल^उत्था
जनयति वध^बन्ध^व्याध्य्^अनर्थ^अर्थ^नाशान्।
स्फटिक^सदृश^रूपा भाग्य^युक्ता^आत्युदारा
निधिर् इव गगन^उत्था श्रेयसां स्व्^अच्छ^वर्णा॥

67.94

छायाः क्रमेण कु^जल^अग्न्य्^अनिल^अम्बर^उत्थाः
के चिद् वदन्ति दश ताश् च यथा^अनुपूर्व्या।
सूर्य^अब्जनाभ^पुरुहूत^यम^उडुपानां
तुल्यास् तु लक्षण^फलैर् इति तत् समासः॥

67.95

करि^वृष^रथौघ^भेरी^मृदङ्ग^सिंह^अभ्र[क्.अब्द]^निःस्वना भूपाः।
गर्दभ^जर्जर^रूक्ष^स्वराश् च धन^सौख्य^सन्त्यक्ताः॥

67.96

सप्त भवन्ति च सारा मेदो^मज्जा^त्वग्^अस्थि^शुक्राणि।
रुधिरं मांसं च^इति प्राण^भृतां तत् समास^फलम्॥

67.97

ताल्व्^ओष्ठ^दन्तपाली^जिह्वा^नेत्रान्त^पायु^कर^चरणैः।
रक्ते[क्.रक्तैः] तु रक्त^सारा बहु^सुख^वनिता^अर्थ^पुत्र^युताः॥

67.98

स्निग्ध^त्वक्का धनिनो मृदुभिः सुभगा विचक्षणास् तनुभिः।
मज्जा^मेदः^साराः सुशरीराः पुत्र^वित्त^युताः[क्.युक्ताः]॥

67.99

स्थूल^अस्थिर् अस्थि^सारो बलवान् विद्या^अन्तगः सुरूपश् च।
बहु^गुरु^शुक्राः सुभगा विद्वांसो रूपवन्तश् च॥

67.100

उपचित^देहो विद्वान् धनी सुरूपश् च मांस^सारो यः।
सङ्घाता इति च सुश्लिष्ट^सन्धिता सुख^भुजो ज्ञेया॥

67.101

स्नेहः पञ्चसु लक्ष्यो वाग्^जिह्वा^दन्त^नेत्र^नख^संस्थः।
सुत^धन^सौभाग्य^युताः स्निग्धैस् तैर् निर्धना रूक्षैः॥

67.102

द्युतिमान् वर्ण^स्निग्धः[क्.वर्णः स्निग्धः] क्षितिपानाम् मध्यमः सुत^अर्थवताम्।
रूक्षो धन^हीनानां शुद्धः शुभदो न सङ्कीर्णः॥

67.103

साध्यम् अनूकं वक्त्राद् गो^वृष^शार्दूल^सिंह^गरुड^मुखाः।
अप्रतिहत^प्रतापा जित^रिपवो मानव^इन्द्राश् च॥

67.104

वानर^महिष^वराह^अज^तुल्य^वदनाः श्रुत[क्.सुत]^अर्थ^सुख^भाजः।
गर्दभ^करभ^प्रतिमैर् मुखैः शरीरैश् च निःस्व^सुखाः॥

67.105

अष्ट^शतं षण्^णवतिः[क्.षणवतिः] परिमाणं चतुर्^अशीतिर् इति पुंसाम्।
उत्तम^सम^हीनानाम् अङ्गुल^सङ्ख्या स्व^मानेन॥

67.106

भार^अर्ध^तनुः सुख^भाक् तुलितो +अतो दुःख^भाग् भवत्य् ऊनः।
भारो +अतिवाढ्यानाम् अध्यर्धः सर्व^धरणीशः॥

67.107

विंशति^वर्षा नारी पुरुषः खलु पञ्च^विंशतिभिर् अब्दैः।
अर्हति मान^उन्मानं जीवित^भागे चतुर्थे वा॥

67.108

भू^जल^शिख्य्^अनिल^अम्बर^सुर^नर^रक्षः पिशाचक^तिरश्चाम्।
सत्त्वेन भवति पुरुषो लक्षणम् एतद् भवति तेषाम्[क्.एषाम्]॥

67.109

मही^स्वभावः शुभ^पुष्प^गन्धः
सम्भोगवान् सु^श्वसनः स्थिरश् च।
तोय^स्वभावो बहु^तोयपायी
प्रिय^अभिभाषी[क्.अभिलाषी] रस^भाजनश्[क्.भोजनश्] च॥

67.110

अग्नि^प्रकृत्या चपलो +अति^तीक्ष्णश्
चण्डः क्षुध^आलुर् बहु^भोजनश् च।
वायोः स्वभावेन चलः कृशश् च
क्षिप्रं च कोपस्य वशं प्रयाति॥

67.111

ख^प्रकृतिर् निपुणो विवृत^आस्यः
शब्द^गतेः कुशलः सु^शिरा^अङ्गः।
त्याग^युतः[क्.त्यागयुतो] पुरुषो मृदु^कोपः
स्नेह^रतश् च भवेत् सुर^सत्त्वः॥

67.112

मर्त्य^सत्त्व^संयुतो गीत^भूषण^प्रियः।
संविभाग^शीलवान् नित्यम् एव मानवः॥

67.113

तीक्ष्ण^प्रकोपः खल^चेष्टितश् च
पापश् च सत्त्वेन निशा^चराणाम्।
पिशाच^सत्त्वश् चपलो मलाक्तो
बहु^प्रलापी च समुल्बण^अङ्गः॥

67.114

भीरुः क्षुधा^आलुर् बहु^भुक् च यः स्याद्
ज्ञेयश् च[क्.स] सत्त्वेन नरस् तिरश्चाम्।
एवं नराणां प्रकृतिः प्रदिष्टा
यल् लक्षण^ज्ञाः प्रवदन्ति सत्त्वम्॥

67.115

शार्दूल^हंस^समद^द्विप^गोपतीनां
तुल्या भवन्ति गतिभिः शिखिनां च भूपाः।
येषां च शब्द^रहितं स्तिमितं च यातं
ते +अपि^इश्वरा द्रुत^परिप्लुतगा दरिद्राः॥

67.116

श्रान्तस्य यानम् अशनं च बुभुक्षितस्य
पानं तृषा^परिगतस्य भयेषु रक्षा।
एतानि यस्य पुरुषस्य भवन्ति काले
धन्यं वदन्ति खलु तं नर^लक्षणज्ञाः॥
[क्.68.117अब्। पुरुष^लक्षणम् उक्तम् इदं मया मुनि^मतान्य् अवलोक्य समासतः।
क्.68.117च्द्। इदम् अधीत्य नरो नृप^सम्मतो भवति सर्व^जनस्य च वल्लभः॥]
68 पञ्चमनुष्यविभागाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc