बृहत्संहिता · अध्याय 66
मध्व्^आभ^दन्ताः सुविभक्त^देहा
न च^*उपदिग्धा न[क्.दिग्धाश् च] कृशाः क्षमाश् च।
गात्रैः समैश् चाप^समान^वंशा
वराह^तुल्यैर् जघनैश् च भद्राः॥
वक्षो +अथ कक्षा^वलयः श्लथाश् च
लम्ब^उदरस् त्वग् बृहती गलश् च।
स्थूला च कुक्षिः सह पेचकेन
सैंही च दृग् मन्द^मतङ्गजस्य॥
मृगास् तु ह्रस्व^अधर^वाल^मेढ्रास्
तन्व्^अङ्घ्रि[क्.तन्वंह्रि]^कण्ठ^द्विज^हस्त^कर्णाः।
स्थूल^ईक्षणाश् च^इति यथा^उक्त^चिह्नैः
सङ्कीर्ण^नागा व्यतिमिश्र^चिह्नाः॥
पञ्च^उन्नतिः सप्त मृगस्य दैर्घ्यम्
अष्टौ च हस्ताः परिणाह^मानम्।
एक^द्वि^वृद्धाव् अथ मन्द^भद्रौ
सङ्कीर्न^नागो +अनियत^प्रमाणः॥
भद्रस्य वर्णो हरितो *मदश् च[क्.मदस्य]
मन्दस्य हारिद्रक^सन्निकाशः।
कृष्णो मदश् च^अभिहितो मृगस्य
सङ्कीर्ण^नागस्य मदो विमिश्रः॥
ताम्र^ओष्ठ^तालु^वदनाः कलविङ्क^नेत्राः
स्निग्ध^उन्नत^अग्र^दशनाः पृथुल^आयत^आस्याः।
चाप^उन्नत^आयत^निगूढ^निमग्न^वंशास्
तन्व्^एक^रोम^चित^कूर्म^समान^कुम्भाः॥
विस्तीर्ण^कर्ण^हनु^नाभि^ललाट^गुह्याः
कूर्म^उन्नत^द्वि^नव^विंशतिभिर् नखैश् च।
रेखा^त्रय^उपचित^वृत्त^कराः सुवाला
धन्याः सुगन्धि^मद^पुष्कर^मारुताश् च॥
दीर्घ^अङ्गुलि^रक्त^पुष्कराः सजल^अम्भोद^निनाद^बृंहिणः।
बृहद्^आयत^वृत्त^कन्धरा धन्या भूमिपतेर् मतङ्गजाः॥
निमर्द[क्.ऊ.निर्मदा]^अभ्यधिक^हीन^नख^अङ्गान्
कुब्ज^वामनक^मेष^विषाणान्।
दृश्य^कोश^फल^पुष्कर^हीनान्
श्याव^नील^शबल^असित^तालून्॥
स्वल्प^वक्त्र^रुह^मत्कुण^षण्ढान्
हस्तिनीं च गज^लक्षण^युक्ताम्।
गर्भिणी च नृपतिः परदेशं
प्रापयेद् अतिविरूप^फलास् ते॥
67 पुरुषलक्षनाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0