बृहत्संहिता · अध्याय 65
दीर्घ^ग्रीवा^अक्षिकूटस् त्रिक^हृदय^पृथुस् ताम्र^तालु^ओष्ठ^जिह्वः
सूक्ष्म^त्वक्^केश^वालः सुशफ^गति^मुखो ह्रस्व^कर्ण^ओष्ठ^पुच्छः।
जङ्घा^जानु^ऊरु^वृत्तः सम^सित^दशनश् चारु^संस्थान^रूपो
वाजी सर्व^अङ्ग^शुद्धो भवति नरपतेः शत्रु^नाशाय नित्यम्॥
अश्रुपात^हनु^गण्ड^हृद्[क्.हृड्]^गल^प्रोथ^शङ्ख^कटि^बस्ति^जानुनि।
मुष्क^नाभि^ककुदे तथा गुदे सव्य^कुक्षि^चरणे तथा[क्.चरणेषु च] शुभाः[उ.अशुभाः]॥
ये प्रपाण^गल^कर्ण^संस्थिताः
पृष्ठ^मध्य^नयन^उपरि स्थिताः।
ओष्ठ^सक्थि^भुज^कुक्षि^पार्श्वगास्
ते ललाट^सहिताः सुशोभनाः॥
तेषां प्रपाण एको ललाट^केशेषु च ध्रुव^आवर्ताः।
रन्ध्र^उपरन्ध्र^मूर्धनि वक्षसि च^इति स्मृतौ द्वौ द्वौ॥
षष्भिर् दन्तैः सित^आभैर् भवति हय^शिशुस् तैः कशायैर् द्विवर्षैः
सन्दंशैर् मध्यम^अन्त्यैः पति[क्.ऊ.पतित]समुदितैस् त्र्यब्धि[क्.त्र्यब्द]^पञ्च^अब्दिक^अश्वः।
सन्दंश^अनुक्रमेण त्रिक^परिगणिताः कालिका पीत^शुक्लाः
काचा मक्षीक[क्.माक्षीक]^शङ्ख^अवट^चलनम् अतो दन्तपातं च विद्धि॥
66 हस्तिलक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0