बृहत्संहिता · अध्याय 64
छाग^शुभ^अशुभ^लक्षणम् अभिधास्ये नव^दश^अष्ट^दन्तास् ते।
धन्याः स्थाप्या वेश्मनि सन्त्याज्याः सप्त^दन्ता ये॥
दक्षिण^पार्श्वे मण्डलम् असितं शुक्लस्य शुभफलं भवति।
ऋष्य^निभ^कृष्ण^लोहित^वर्णानां श्वेतम् अति[क्.अपि]शुभदम्॥
स्तनवद् अवलम्बते यः कण्ठे +अजानां मणिः स विज्ञेयः।
एकमणिः शुभफल^कृद् धन्यतमा द्वि^त्र^मणयो[क्.द्वित्रिमणयो] ये॥
मुण्डाः सर्वे शुभदाः सर्व^सिताः सर्व^कृष्ण^देहाश् च।
अर्ध^असिताः सित^अर्धा धन्याः कपिल^अर्ध^कृष्णाश् च॥
विचरति यूथस्य^अग्रे प्रथमं च^अम्भो +अवगाहते यो +अजः।
स शुभः सित^मूर्धा वा मूर्धनि वा कृत्तिका[क्.टिक्किका] यस्य॥
स^पृषत^कण्ठ^शिरा वा तिल^पिष्ट^निभश् च ताम्रदृक् शस्तः।
कृष्ण^चरणः सितो वा कृष्णो वा श्वेत^चरणो यः॥
यः कृष्ण^अण्डः श्वेतो मध्ये कृष्णेन भवति पट्टेन।
यो वा चरति सशब्दं मन्दं च स शोभनश् छागः॥
ऋष्य^शिरोरुह^पादो यो वा प्राक् पाण्डुरो +अपरे नीलः।
स भवति शुभकृच् छागः श्लोकश् च^अप्य् अत्र गर्ग^उक्तः॥
कुट्टकः कुटिलश् च^एव जटिलो वामनस् तथा।
ते चत्वारः श्रियः पुत्रा न^अलक्ष्मीके वसन्ति ते॥
अथ^अप्रशस्ताः खर^तुल्य^नादाः
प्रदीप्त^पुच्छाः कुनखा विवर्णाः।
निकृत्त^कर्णा द्विप^मस्तकाश् च
भवन्ति ये च^असित^तालु^जिह्वाः॥
वर्णैः प्रशस्तैर् मणिभिः प्रयुक्ता[क्.च युक्ता]
मुण्डाश् च ये ताम्र^विलोचनाश् च।
ते पूजिता वेश्मनि[क्.वेश्मसु] मानवानां
सौख्यानि कुर्वन्ति यशः श्रियं च॥
65 अश्वलक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0