बृहत्संहिता · अध्याय 63
स्फुटिक^रजत^वर्णो नील^राजी^विचित्रः
कलश^सदृश^मूर्तिश् चारु^वंशश् च कूर्मः।
अरुण^सम^वपुर् वा सर्षप^आकार^चित्रः
सकल^नृप^महत्त्वं मन्दिरस्थः करोति॥
अञ्जन^भृङ्ग^श्याम^तनुर् वा बिन्दु^विचित्रो +अव्यङ्ग^शरीरः।
सर्प^शिरा वा स्थूलगलो यः सो +अपि नृपाणां राष्ट्र^विवृद्ध्यै॥
वैडूर्य^त्विट् स्थूल^कण्ठस् त्रिकोणो
गूढ^च्छिद्रश् च^ऊरु[क्.ऊ.चारु]^वंशश् च शस्तः।
क्रीडावाप्यां तोयपूर्णे मणौ वा
कार्यः कूर्मो मङ्गल^अर्थं नरेन्द्रैः॥
64 छागलक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0