बृहत्संहिता · अध्याय 59
दिशि याम्यायां[क्.सौम्यायां] कुर्याद् अधिवासन^मण्डपं बुधः प्राग् वा।
तोरण^चतुष्टय^युतं शस्त^द्रुम^पल्लव^च्छन्नम्॥
पूर्वे भागे चित्राः स्रजः पताकाश् च मण्डपस्य^उक्ताः।
आग्नेय्यां दिशि रक्ताः कृष्णाः स्युर् याम्य^नैरृत्योः[क्.नैरृतयोः]॥
श्वेता दिश्य् अपरस्याम् वायव्यायां तु पाण्डुरा एव।
चित्राश् च^उत्तर^पार्श्वे पीताः पूर्वोत्तरे कार्याः[क्.कोणे]॥
आयुः^श्री^बल^जयदा दारु^मयी मृण्^मयी[क्.मृन्मयी] तथा प्रतिमा।
लोक^हिताय मणि^मयी सौवर्णी पुष्टिदा भवति॥
रजत^मयी कीर्ति^करी प्रजा^विवृद्धिं करोति ताम्र^मयी।
भू^लाभं तु महान्तं शैली प्रतिमा^अथ वा लिङ्गम्॥
शङ्खु^उपहता प्रतिमा प्रधान^पुरुषं कुलं च घातयति।
श्वभ्र^उपहता रोगान् उपद्रवांश् च क्षयम्[क्.अक्षयान्] कुरुते॥
मण्डप^मध्ये स्थण्डिलम् उपलिप्य^आस्तीर्य सिकतया^अथ कुशैः।
भद्रासन^कृत^शीर्ष^उपधान^पादां न्यसेत् प्रतिमाम्॥
प्लक्ष^अश्वत्थ^उदुम्बर^शिरीष^वट^सम्भवैः कषाय^जलैः।
मङ्गल्य^संज्ञिताभिः सर्व^औषधिभिः कुश^आद्याभिः॥
द्विप^वृषभ^उद्धत[क्.उद्धृत]^पर्वत^वल्मीक^सरित्^समागम^तटेषु।
पद्म^सरःसु च मृद्भिः स^पञ्चगव्यैश् च तीर्थ^जलैः॥
पूर्व^शिरस्कां स्नातां सुवर्ण^रत्न^अम्बुभिश् च स^सुगन्धैः।
नाना^तूर्य^निनादैः पुण्याहैर् वेद^निर्घोषैः॥
ऐन्द्र्यां दिशि^इन्द्र^लिङ्गा मन्त्राः प्राग्दक्षिणे +अग्नि^लिङ्गाश् च।
वक्तव्या[क्.जप्तव्या] द्विज^मुख्यैः पूज्यास् ते दक्षिणाभिश् च॥
यो देवः संस्थाप्यस् तन्^मन्त्रैश् च^अनलं द्विजो जुहुयात्।
अग्नि^निमित्तानि मया प्रोक्तानि^इन्द्र^ध्वज^उत्थाने[क्.उच्छ्राये]॥
धूम^आकुलो +अपसव्यो मुहुर् मुहुर् विफुलिङ्ग^कृन् न शुभः।
होतुः स्मृति^लोपो वा प्रसर्पणं च^अशुभं प्रोक्तम्॥
स्नाताम् अभुक्त^वस्त्रां स्व्^अलङ्कृतां पूजिताम् कुसुम^गन्धैः।
प्रतिमां स्व्^आस्तीर्णायाम् शय्यायाम् स्थापकः कुर्यात्॥
सुप्तां *स^गीत^नृत्यैर् जागरणैः[क्.सुनृत्यगीतैर् जागरकैः] सम्यग् एवम् अधिवास्य।
दैवज्ञ^सम्प्रदिष्टे काले संस्थापनं कुर्यात्॥
अभ्यर्च्य कुसुम^वस्त्र^अनुलेपनैः शङ्ख^तूर्य^निर्घोषैः।
प्रादक्षिण्येन नयेद् आयतनस्य प्रयत्नेन॥
कृत्वा बलिं प्रभूतं सम्पूज्य ब्राह्मणांश् च सभ्यांश् च।
दत्त्वा हिरण्य^शकलं विनिक्षिपेत् पिण्डिका^श्वभ्रे।
स्थापक^दैवज्ञ^द्विज^सभ्य^स्थपतीन् विशेषतो +अभ्यर्च्य।
कल्याणानां भागी भवति^इह परत्र च स्वर्गी॥
विष्णोर् भागवतान् मगांश् च सवितुः शम्भोः स^भस्म^द्विजान्
मातॄणाम् अपि मण्डल^क्रम^विदो[क्.मातृमण्डलविदो] विप्रान् विदुर् ब्रह्मणः।
शाक्यान् सर्व^हितस्य शान्त^मनसो नग्नान् जिनानां विदुर्
ये यं देवम् उपाश्रिताः स्व^विधिना तैस् तस्य कार्या क्रिया॥
उदगयने सितपक्षे शिशिर^गभस्तौ च जीव^वर्ग^स्थे।
लग्ने स्थिरे स्थिर^अंशे सौम्यैर् धी^धर्म^केन्द्र^गतैः॥
पापैर् उपचय^संस्थैर् ध्रुव^मृदु^हरि^तिष्य^वायु^देवेषु।
विकुजे दिने +अनुकूले देवानां स्थापनं शस्तम्॥
सामान्यम् इदं समासतो लोकानां हितदं मया कृतम्।
अधिवासन^सन्निवेशने सावित्रे पृथग् एव विस्तरात्॥
60 गोलक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0