बृहत्संहिता · अध्याय 58
कर्तुर् अनुकूल^दिवसे दैवज्ञ^विशोधिते शुभ^निमित्ते।
मङ्गल^शकुनैः प्रास्थानिकैश् च वन^सम्प्रवेशः स्यात्॥
पितृवन^मार्ग^सुरालय^वल्मीक^उद्यान^तापसाश्रम^जाः।
चैत्य^सरित्सङ्गम^सम्भवाश् च घटतोय^सिक्ताश् च॥
कुब्ज^अनुजात^वल्ली^निपीडिता वज्र^मारुत^उपहताः।
स्वपतित^हस्ति^निपीडित^शुष्क^अग्नि^प्लुष्ट^मधुनिलयाः॥
तरवो वर्जयितव्याः शुभदाः स्युः स्निग्ध^पत्र^कुसुम^फलाः।
अभिमत^वृक्षं गत्वा कुर्यात् पूजां सबलि^पुष्पाम्॥
सुरदारु^चन्दन^शमी^मधूक^तरवः शुभा द्विजातीनाम्।
क्षत्रस्य^अरिष्ट^अश्वत्थ^खदिर^बिल्वा विवृद्धिकराः॥
वैश्यानां जीवक^खदिर^सिन्धुक^स्यन्दनाश्[क्.स्पन्दनाश्] च शुभफलदाः।
तिन्दुक^केसर^सर्ज^अर्जुन^आम्र^शालाश् च शूद्राणाम्॥
लिङ्गं वा प्रतिमा वा द्रुमवत् स्थाप्या यथा दिशं यस्मात्।
तस्माच् चिह्नयितव्या दिशो द्रुमस्य^ऊर्ध्वम् अथ वा^अधः।
परमान्न^मोदक^ओदन^दधि^पलल^उल्लोपिका^आदिभिर् भक्ष्यैः।
मद्यैः कुसुमैर् धूपैर् गन्धैश् च तरुं समभ्यर्च्य॥
सुर^पितृ^पिशाच^राक्षस^भुजग^असुर^गण^विनायक^आद्यानाम्।
कृत्वा रात्रौ पूजां वृक्षं संस्पृश्य च ब्रूयात्॥
अर्चार्थम् अमुकस्य त्वं देवस्य परिकल्पितः।
नमस् ते वृक्ष पूजेयं विधिवत् सम्प्रगृह्यताम्॥
यानीह भूतानि वसन्ति तानि
बलिं गृहीत्वा विधिवत् प्रयुक्तम्।
अन्यत्र वासं परिकल्प्यन्तु
क्षमन्तु तान्य् अद्य नमो +अस्तु तेभ्यः॥
वृक्षं प्रभाते सलिलेन सिक्त्वा
पूर्वोत्तरस्यां दिशि सन्निकृत्य।
मध्वाज्य^दिग्धेन[क्.लिप्तेन] कुठारकेण
प्रदक्षिणं शेषम् अतो निहन्यात्[क्.+अभिहन्यात्]॥
पूर्वेण पूर्वोत्तरतो +अथ वा^उदक्
पतेद् यदा वृद्धिकरस् तदा स्यात्।
आग्नेयकोणात् क्रमशो +अग्निदाह^
रुग्राग[क्.क्षुद्रोग]रोगास् तुरगक्षयश् च॥
यन् न^उक्तम् अस्मिन् वन^सम्प्रवेशे
निपात^विच्छेदन^वृक्षगर्भाः।
इन्द्रध्वजे वास्तुनि च प्रदिष्टाः
पूर्वं मया ते +अत्र तथ^एव योज्याः॥
59 प्रतिमाप्रतिष्ठापनाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0