बृहत्संहिता · अध्याय 60
पराशरः प्राह बृहद्रथाय
गो^लक्षणं यत् क्रियते ततो +अयम्।
मया समासः शुभ^लक्षणास् ताः
सर्वास् तथा +अप्य् आगमतो +अभिधास्ये॥
सास्र^आविल^रूक्ष^अक्ष्यो मूषक^नयनाश् न शुभदा गावः।
प्रचलच्^चिपिट^विषाणाः करटाः खर^सदृश^वर्णाश्[क्.वर्नाः] च॥
दश^सप्त^चतुर्^दन्त्यः प्रलम्ब^मुण्ड^आनना विनत^पृष्ठ्यः[क्.पृष्ठाः ऊ.पृष्ठः]।
ह्रस्व^स्थूल^ग्रीवा यव^मध्या दारित^खुराश् च॥
श्याव^अतिदीर्घ^जिह्वा गुल्फैर् अतितनुभिर् अतिबृहद्भिर् वा।
अतिककुदाः कृश^देहा न^इष्टा हीन^अधिक^अङ्ग्यश् च॥
वृषभो +अप्य् एवं स्थूल^अतिलम्ब^वृषणः शिरा^तत^क्रोडः।
स्थूल^शिरा^चित^गण्डस् त्रिस्थानं मेहते यश् च॥
मार्जार^अक्षः कपिलः करटो वा न शुभदो द्विजस्य^एव[क्.द्विजस्येष्टः]।
कृष्ण^ओष्ठ^तालु^जिह्वः श्वसनो यूथस्य घातकरः॥
स्थूल^शकृन्^मणि^शृङ्गः सित^उदरः कृष्ण^सार^वर्णश् च।
गृहजातो +अपि त्याज्यो यूथ^विनाश^आवहो वृषभः॥
श्यामक^पुष्प^चित^अङ्गो भस्म^अरुण^सन्निभो बिडाल^अक्षः।
विप्राणाम् अपि न शुभं करोति वृषभः परिगृहीतः॥
ये च^उद्धरन्ति पादान् पङ्काद् इव योजिताः कृश^ग्रीवाः।
कातर^नयना हीनाश् च पृष्ठतस् ते न भारसहाः॥
मृदु^संहत^ताम्र^ओष्ठास् तनु^स्फिजस् ताम्र^तालु^जिह्वाश् च।
ह्रस्व^तनु[क्.तनुह्रस्वो]^उच्च^श्रवणाः सुकुक्षयः स्पृष्ट[क्.स्पष्ट]^जङ्घाश् च॥
आताम्र^संहत^खुरा व्यूढ^उरस्का बृहत्^ककुद^युक्ताः।
स्निग्ध^श्लक्ष्ण^तनु^त्वग्^रोमाणस् ताम्र^तनु^शृङ्गाः॥
तनु^भू^स्पृग्^वालधयो रक्त^अन्त^विलोचना महोच्छ्वासाः।
सिंह^स्कन्धास् तन्व्^अल्प^कम्बलाः पूजिताः सुगमाः[क्.ऊ.सुगताः]॥
वाम^आवर्तैर् वामे दक्षिण^पार्श्वे च दक्षिण^आवर्तैः।
शुभदा भवन्त्य् अनडुहो जङ्घाभिश् च^एणक^निभाभिः॥
वैदूर्य[क्.वैडूर्य]^मल्लिका^बुद्बुद^ईक्षणाः स्थूल^नेत्र^पक्ष्माणः[क्.वर्माणः]।
पार्ष्णिभिर् अस्फुटित^आभिः शस्ताः सर्वे च[क्.अपि] भारसहाः॥
घ्राणोद्देशे सवलिर् मार्जार^मुखः सितश् च दक्षिणतः।
कमल^उत्पल^लाक्षा^आभः सुवालधिर् वाजि^तुल्य^जवः॥
लम्बैर् वृषणैर् मेष^उदरश् च संक्षिप्त^वंक्षण[क्.क्षणा]^क्रोडः।
ज्ञेयो भार^अध्व^सहो जवे +अश्व^तुल्यश् च शस्तफलः॥
सितवर्णः पिङ्ग^अक्षस् ताम्र^विषाण^ईक्षणो महावक्त्रः।
हंसो नाम शुभफलो यूथस्य विवर्धनः प्रोक्तः॥
भूस्पृग्वालधिर् आताम्र^विषाणो[क्.वङ्क्षणो] रक्तदृक् ककुद्मांश्[क्.ककुद्मी] च।
कल्माषश् च स्वामिनम् अचिरात् कुरुते पतिं लक्ष्म्याः॥
यो वा सितैकचरणैर्[क्.सितैकचरणो] यथेष्टवर्णश् च सो +अपि शुभफलकृत्[क्.शस्तफलः]।
मिश्रफलो +अपि ग्राह्यो यदि न^एकान्तप्रशस्तो +अस्ति॥
61 श्वलक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0