भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 57

57.01

जाल^अन्तरगे भानौ यद् अणुतरं दर्शनं रजो याति।
तद् विन्द्यात् परमाणुं प्रथमं तद्धि प्रमाणानाम्॥

57.02

परमाणु^रजो बालाग्र[क्.वालाग्र]^लिक्ष^यूकं[क्.यूका] यवो +अङ्गुलं च^इति।
अष्टगुणानि यथोत्तरम् अङ्गुलम् एकं भवति संख्या[क्.मात्रा]॥

57.03

देवागार^द्वारस्य^अष्ट^अम्श^ऊनस्य यस् तृतीयो +अंशः।
तत्^पिण्डिका^प्रमाणं प्रतिमा तद्^द्विगुण^परिमाणा॥

57.04

स्वैर् अङ्गुल^प्रमाणैर् द्वादश वीस्तीर्णम्[उ.विस्तीर्णम्] आयतं च मुखम्।
नग्नजिता तु चतुर्दश दैर्घ्येण द्राविडं कथितम्॥

57.05

नासा^ललाट^चिबुक^ग्रीवाश् चतुर^अङ्गुलास् तथा कर्णौ।
द्वे अङ्गुले च हनुनी[क्.हनुके] चिबुकं च द्व्यङ्गुलं विततम्[क्.विस्तृतम्]॥

57.06

अष्ट^अङ्गुलं ललाटं विस्ताराद् द्व्य्^अङ्गुलात् परे शङ्खौ।
चतुर्^अङ्गुलौ तु शङ्खौ कर्णौ तु द्व्य्^अङ्गुलौ[क्.द्व्यङ्गुलं] पृथुलौ॥

57.07

कर्ण^उपान्तः कार्यो +अर्ध^पञ्चमे भ्रू^समेन सूत्रेण।
कर्ण^स्रोतः सुकुमारकम् च नेत्र[क्.नयन]^प्रबन्ध^समम्॥

57.08

चतुर्^अङ्गुलं वसिष्ठः कथयति नेत्रान्त^कर्णयोर् विवरम्।
अधरो +अङ्गुल^प्रमाणस् तस्य^अर्धेन^उत्त्रोष्ठश् च॥

57.09

अर्ध^अङ्गुला तु गोच्छा वक्त्रं चतुर्^अङ्गुल^आयतं कार्यम्।
विपुलं तु स^अर्धम् अङ्गुलम् *अव्यात्तं त्र्य्^अङ्गुलं[क्.अध्यात्तत्त्र्यङ्गुलं] व्यात्तम्॥

57.10

द्व्य्^अङ्गुल^तुल्यौ नासापुटौ च नासा पुटा^अग्रतो ज्ञेया।
स्याद् द्व्य्^अङ्गुलम् उच्छ्रायश् चतुर्^अङ्गुलम् अन्तरं च^अक्ष्णोः॥

57.11

द्व्य्^अङ्गुल^मितो +अक्षि^कोशो द्वे नेत्रे तत्^त्रिभागिका तारा।
दृक्^तारा पञ्च^अंशो नेत्र^विकाशो +अङ्गुलं भवति॥

57.12

पर्यन्तात् पर्यन्तं दश भ्रुवो +अर्ध^अङ्गुलं भ्रुवोर् लेखा।
भ्रू^मध्यं द्व्य्^अङ्गुलकं भूर्[उ.भ्रूर्] धैर्घ्येण^अङ्गुल^चतुष्कम्॥

57.13

कार्या तु केश^रेखा भ्रू^बन्ध^सम^अङ्गुल^अर्ध^विस्तीर्णा।
नेत्र^अन्ते करवीरकम् उपन्यसेद् अङ्गुल^प्रमितम्॥

57.14

द्वात्रिंशत् परिणाहाच् चतुर्दश^आयामतो +अङ्गुलानि शिरः।
द्वादश तु चित्र^कर्मणि दृश्यन्ते विंशतिर् अदृश्याः॥

57.15

आस्यं स^केश^निचयं षोडश दैर्घ्येण नग्निजित्[उ.नग्नजित्]^प्रोक्तम्।
ग्रीवा दश विस्तीर्णा परिणाहाद् विंशतिः स^एका॥

57.16

कण्ठाद् द्वादश हृदयं हृदयान् नाभी[क्.नाभिश्] च तत्^प्रमाणेन।
नाभी^मध्याद् मेढ्र^अन्तरं च तत्^तुल्यम् एव^उक्तम्॥

57.17

ऊरू च^अङ्गुल^मानैश् चतुर्^युता विंशतिस् तथा जङ्घे।
जानुकपिच्छे चतुर्^अङ्गुले च पादौ च तत्^तुल्यौ॥

57.18

द्वादश^दीर्घौ षट् पृथुतया च पादौ त्रिक^आयत^अङ्गुष्ठौ।
पञ्च^अङ्गुल^परिणाहौ प्रदेशिनी त्र्य्^अङ्गुलं दीर्घा॥

57.19

अष्ट^अंश^अंश^ऊनाः शेष^अङ्गुल्यः[क्.शेषाङ्गुलयः] क्रमेण कर्तव्याः।
स^चतुर्थ^भागम् अङ्गुलम् उत्सेधो +अङ्गुष्ठकस्य^उक्तः॥

57.20

अङ्गुष्ठ^नखः कथितस् चतुर्थ^भाग^ऊनम् अङ्गुलं तज्ज्ञैः।
शेष^नखानाम् अर्ध^अङ्गुलं क्रमात् किंचिद्^ऊनं वा॥

57.21

जङ्घ^अग्रे परिणाहश् चतुर्दश^उक्तस् तु विस्तरात्[क्.विस्तरः] पञ्च।
मध्ये तु सप्त विपुला परिणाहात् त्रिगुणिताः सप्त॥

57.22

अष्टौ तु जानुमध्ये वैपुल्यं त्र्य्^अष्टकं तु परिणाहः।
विपुलौ चतुर्दश^ऊरू मध्ये द्विगुणश् च तत्^परिधिः॥

57.23

कटिर् अष्टादश विपुला चत्वारिंशच् चतुर्^युता परिधौ।
अङ्गुलम् एकं नाभी[क्.नाभिर्] वेधेन तथा प्रमाणेन॥

57.24

चत्वारिंशद्^द्वि^युता नाभी^मध्येन मध्य^परिणाहः।
स्तनयोः षोडश च^अन्तरम् ऊर्ध्वं कक्ष्ये[क्.कक्षे] षड्^अङ्गुलिके॥

57.25

*अष्टाव् अंसौ द्वादश बाहू कार्यौ[क्.कार्याव् अष्टाव् अंसौ द्वादश बाहू] तथा प्रबाहू च।
बाहू षड्^विस्तीर्णौ[क्.षड्विस्तिर्णौ] प्रतिबाहू त्व् अङ्गुल^चतुष्कम्॥

57.26

षोडश बाहू मूले परिणाहाद् द्वादश^अग्र^हस्ते च।
विस्तारेण करतलं षड्^अङ्गुलं सप्त दैर्घ्येण॥

57.27

पञ्च^अङ्गुलानि मध्या प्रदेशिनी मध्य^पर्व^दल^हीना।
अनया तुल्या च^अनामिका कनिष्ठा तु पर्व^ऊना॥

57.28

पर्व^द्वयम् अङ्गुष्ठः शेष^अङ्गुल्यस्[क्.शेषाङ्गुलयस्] त्रिभिस् त्रिभिः कार्याः।
नख^परिमाणं कार्यं सर्वासाम् पर्वणो +अर्धेन॥

57.29

देश^अनुरूप^भूषण^वेषालङ्कार^मूर्तिभिः कार्या।
प्रतिमा लक्षण^युक्ता सन्निहिता वृद्धिदा भवति॥

57.30

दशरथ^तनयो रामो बलिश् च वैरोचनिः शतं विंशम्।
द्वादश^हान्या शेषाः प्रवर^सम^न्यून^परिमाणाः॥

57.31

कार्यो +अष्टभुजो भगवांश् चतुर्^भुजो द्विभुज एव वा विष्णुः।
श्रीवत्स^अङ्कित^वक्षाः कौस्तुभ^मणि^भूषित^उरस्कः॥

57.32

अतसी^कुसुम^श्यामः पीत^अम्बर^निवसनः प्रसन्न^मुखः।
कुण्डल^किरीट^धारी पीन^गल^उरःस्थल^अंस^भुजः॥

57.33

खड्ग^गदा^शर^पाणिर् दक्षिणतः शान्तिदश् चतुर्थ^करः।
वाम^करेषु च कार्मुक^खेटक^चक्राणि शङ्खश् च॥

57.34

अथ च चतुर्भुजम् इच्छति शान्तिद एको गदा^धरश् च^अन्यः।
दक्षिण^पार्श्वे त्व्[क्.ह्य्] एवं वामे शङ्खश् च चक्रं च॥

57.35

द्विभुजस्य तु शान्ति^करो दक्षिण^हस्तो +अपरश् च शङ्ख^धरः।
एवं विष्णोः प्रतिमा कर्तव्या भूतिम् इच्छद्भिः॥

57.36

बलदेवो हल^पाणिर् मद^विभ्रम^लोचनश् च कर्तव्यः।
विभ्रत्[क्.बिभ्रत्] कुण्डलम् एकं शङ्ख^इन्दु^मृणाल^गौर^तनुः[क्.वपुः]॥

57.37

एकानंशा कार्या देवी बलदेव^कृष्णयोर् मध्ये।
कटि^संस्थित^वाम^करा सरोजम् इतरेण च^उद्वहती॥

57.38

कार्या चतुर्भुजा या वाम^कराभ्यां स^पुस्तकं कमलम्।
द्वाभ्यां दक्षिण^पार्श्वे वरम् अर्थिष्व् अक्ष^सूत्रं च॥

57.39

*वामो +अथ वा^अष्ट^भुजायाः[क्.वामेष्व् अष्टभुजायाः] कमण्डलुश् चापम् अम्बुजं शास्त्रम्।
वर^शर^दर्पण^युक्ताः सव्य^भुजाः स^अक्ष^सूत्राश् च॥

57.40

शाम्बश् च गदा^हस्तः प्रद्युम्नश् चाप^भृत् सुरूपश् च।
अनयोः स्त्रियौ च कार्ये खेटक^निस्त्रिंश^धारिण्यौ॥

57.41

ब्रह्मा कमण्डलु^करश् चतुर्^मुखः पण्कज^आसन^स्थश् च।
स्कन्दः कुमार^रूपः शक्ति^धरो बर्हिकेतुश् च॥

57.42

शुक्ल^चतुर्^विषाणो द्विपो महेन्द्रस्य वज्र^पाणित्वम्।
तिर्यग् ललाट^संस्थं तृतीयम् अपि लोचनं चिह्नम्॥

57.43

शम्भोः शिरसि^इन्दुकला वृष^ध्वजो +अक्षि च तृतीयम् अपि च^ऊर्ध्वम्।
शूलं धनुः पिनाकं वाम^अर्धे वा गिरिसुता^अर्धम्॥

57.44

पद्म^अङ्कित^कर^चरणः प्रसन्न^मूर्तिः सुनीच^केशश् च।
पद्मासन^उपविष्टः पिता^इव जगतो भवति[क्.भवेत्] बुद्धः॥

57.45

आ^जानु^लम्ब^बाहुः श्रीवत्स^अङ्कः प्रशान्त^मूर्तिश् च।
दिग्^वासास् तरुणो रूपवांश् च कार्यो +अर्हतां देवः॥

57.46

नासा^ललाट^जङ्घ^ऊरु^गण्ड^वक्षांसि च^उन्नतानि रवेः।
कुर्याद् उदीच्य^वेषं गूढं पादाद् उरो यावत्॥

57.47

बिभ्राणः स्व^कर^रुहे बाहुभ्यां[क्.पाणिभ्यां] पङ्कजे मुकुट^धारी।
कुण्डल^भूषित^वदनः प्रलम्ब^हारो वियद्ग[क्ऽस् त्र्. वियङ्ग]^वृतः॥

57.48

कमल^उदर^द्युति^मुखः कञ्चुक^गुप्तः स्मित^प्रसन्न^मुखः।
रत्न^उज्ज्वल^प्रभा^मण्डलश् च कर्तुः शुभकरो +अर्कः॥

57.49

सौम्या तु हस्त^मात्रा वसुदा हस्त^द्वय^उच्छ्रिता प्रतिमा।
क्षेम^सुभिक्षाय भवेत् त्रि^चतुर्^हस्त^प्रमाणा या॥

57.50

नृप^भयम् अत्यङ्गायां हीन^अङ्गायाम् अकल्यता कर्तुः।
शात^उदर्यां क्षुद्^भयम् अर्थ^विनाशः कृश^अङ्गायाम्[क्.कृशायां च]॥

57.51

मरणं तु स^क्षतायां शस्त्र^निपातेन निर्दिशेत् कर्तुः।
वाम^अवनता पत्नीं दक्षिण^विनता हिनस्त्य् आयुः॥

57.52

अन्धत्वम् ऊर्ध्व^दृष्ट्या करोति चिन्ताम् अधोमुखी दृष्टिः।
सर्व^प्रतिमास्व् एवं शुभ^अशुभं भास्कर^उक्त^समम्॥

57.53

लिङ्गस्य वृत्त^परधिं दैर्घ्येण^आसूत्र्य तत् त्रिधा विभजेत्।
मूले तच् चतुरस्रं[क्.चतुरश्रं] मध्ये त्व् अष्टाश्रिं वृत्तम् अतः॥

57.54

चतुरस्रम्[क्.चतुरश्रम्] अवनि^खाते मध्यं कार्यं तु पिण्डिका^श्वभ्रे।
दृश्य^उच्छ्रायेण समा समन्ततः पिण्डिका[क्.पिण्डका] श्वभ्रात्॥

57.55

कृश^दीर्घं देशघ्नं पार्श्व^विहीनं पुरस्य नाशय।
यस्य क्षतं भवेद् मस्तके विनाशाय तल्^लिङ्गम्॥

57.56

मातृ^गणः कर्तव्यः स्व^नाम^देव^अनुरूप^कृत^चिह्नः।
रेवन्तो +अश्व^आरूढो मृगया^क्रीडा^आदि^परिवारः॥

57.57

दण्डी यमो महिषगो हंस^आरूढश् च पाशभृद् वरुणः।
नर^वाहनः कुबेरो वाम^किरीटी बृहत्^कुक्षिः॥
[क्.58.58अब्। प्रमथाधिपो गजमुखः प्रलम्ब^जठरः कुठारधारी स्यात्।
क्.58.58च्द्। एकविषाणो बिभ्रन् मूलककन्दं सुनीलदलकन्दम्॥]
58 वनसम्प्रवेशाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc