भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 56

56.01

आमं तिन्दुकम् आमं कपित्थकं पुष्पम् अपि च शाल्मल्याः।
बीजानि शल्लकीनां धन्वन^वल्को वचा च^इति॥

56.02

एतैः सलिलद्रोणः क्वाथयितव्यो +अष्टभागशेषश् च।
अवतार्यो +अस्य च कल्को द्रव्यैर् एतैः समनुयोज्यः॥

56.03

श्रीवासक^रस^गुग्गुलु^भल्लातक^कुन्दुरूक^सर्जरसैः।
अतसी^बिल्वैश् च युतः कल्को +अयं वज्रलेप^आख्यः॥

56.04

प्रासाद^हर्म्य^वलभी^लिङ्ग^प्रतिमासु कुड्य^कूपेषु।
सन्तप्तो दातव्यो वर्ष^सहस्रायुत^स्थायी॥

56.05

लाक्षा^कुन्दुरु^गुग्गुलु^गृहधूम^कपित्थ^बिल्व^मध्यानि।
नाग*फल^निम्ब[क्.बलाफल]^तिन्दुक^मदन^फल^मधूक^मञ्जिष्ठाः॥

56.06

सर्जरस^रस^आमलकानि च^इति कल्कः कृतो द्वितीयो +अयम्।
वज्राख्यः प्रथमगुणैर् अयम् अपि तेष्व् एव कार्येषु॥

56.07

गो^महिष^अज^विषाणैः खररोम्णा महिषचर्म^गव्यैश् च।
निम्ब^कपित्थ^रसैः सह वज्रतलो[क्.वज्रतरो] नाम कल्को +अन्यः॥

56.08

अष्टौ सीसक^भागाः कांसस्य द्वौ तु रीतिका^भागः।
मय^कथितो योगो +अयं विज्ञेयो वज्रसङ्घातः॥
57 प्रतिमालक्षणाध्यायः।

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc