भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 55

55.01

कृत्वा प्रभूतं सलिलम् आरामान् विनिवेश्य च।
देवता^आयतनं कुर्याद् यशो^धर्म^अभिवृद्धये॥

55.02

इष्टा^पूर्तेन लभ्यन्ते ये लोकास् तान् बुभूषता।
देवानाम् आलयः कार्यो द्वयम् अपि अत्र दृश्यते॥

55.03

सलिल^उद्यान^युक्तेषु कृतेष्व् अकृतेषु च।
स्थानेष्व् एतेषु सान्निध्यम् उपगच्छन्ति देवताः॥

55.04

सरःसु नलिनी^छत्र^निरस्त^रविरश्मिषु।
हंस^अंस^आक्षिप्त^कह्लार^वीथी[क्.वीची, क्ऽस् त्र्. वीथी]^विमल^वारिषु॥

55.05

हंस^कारण्डव^क्रौञ्च^चक्रवाक^विराविषु।
पर्यन्त^निचुल^च्छाया^विश्रान्त^जलचारिषु॥

55.06

क्रौञ्च^काञ्चीकलापाश् च कलहंस^कल^स्वराः[क्.स्वनाः]।
नद्यस् तोय^अंशुका यत्र शफरी^कृत^मेखलाः॥

55.07

फुल्ल^तीर^द्रुम^उत्तंसाः सङ्गम^श्रोणि^मण्डलाः।
पुलिन^अभ्युन्नत^उरस्या हंस^वासाश्[क्.हंसहासाश्] च निम्नगाः॥

55.08

वन^उपान्त^नदी^शैल^निर्झर^उपान्त^भूमिषु।
रमन्ते देवता नित्यं पुरेषु^उद्यानवत्सु च॥

55.09

भूमयो ब्राह्मणादीनां याः प्रोक्ता वास्तुकर्मणि।
ता एव तेषां शस्यन्ते देवता^आयतनेष्व् अपि॥

55.10

चतुःषष्टि^पदं कार्यं देवता^आयतनं सदा।
द्वारं च मध्यमं तस्मिन्[क्.तत्र] समदिक्स्थं प्रशस्यते॥

55.11

यो विस्तारो भवेद् यस्य द्विगुणा तत्समुन्नतिः।
उच्छ्रायाद् यस् तृतीयांशस् तेन तुल्या *कटिः स्मृता[क्.कटिर् भवेत्]॥

55.12

विस्तार^अर्धं भवेद् गर्भो भित्तयो +अन्याः समन्ततः।
गर्भ^पादेन विस्तीर्णं द्वारं द्विगुणम् उच्छ्रितम्॥

55.13

उच्छ्रायात् पाद^विस्तीर्णा शाखा तद्वद् उदुम्बरः।
विस्तार^पाद^प्रतिमं बाहुल्यं शाखयोः स्मृतम्॥

55.14

त्रि^पञ्च^सप्त^नवभिः शाखाभिस् तत् प्रशस्यते।
अधः शाखा^चतुर्भागे प्रतीहारौ निवेशयेत्॥।

55.15

शेषं मङ्गल्य^विहगैः *श्रीवृक्षैः स्वस्तिकैर्[क्.श्रीवृक्षस्वस्तिकैर्] घटैः।
मिथुनैः पत्र^वल्लीभिः प्रमथैश् च^उपशोभयेत्॥

55.16

द्वार^मान^अष्ट^भाग^ऊना प्रतिमा स्यात् सपिण्डिका।
द्वौ भागौ प्रतिमा तत्र तृतीयांशश् च पिण्डिका॥

55.17

मेरु^मन्दर^कैलास^विमानच्छन्द^नन्दनाः।
समुद्ग^पद्म^गरुड^नन्दिवर्धन^कुञ्जराः॥

55.18

गुहराजो वृषो हंसः सर्वतोभद्रको घटः।
सिंहो वृत्तश् चतुष्कोणः षोडश^अष्टाश्रयस् तथा॥

55.19

इत्य् एते विंशतिः प्रोक्ताः प्रासादाः संज्ञया मया।
यथोक्त^अनुक्रमेण^एव लक्षणानि वदाम्य् अतः॥

55.20

तत्र षडश्रिर् मेरुर् द्वादश^भौमो विचित्र^कुहरश् च।
द्वारैर् युतश् चतुर्भिर् द्वात्रिंशद्^धस्त^विस्तीर्णः॥

55.21

त्रिंशद्^धस्त^आयामो दश^भौमो मन्दरः शिखर^युक्तः।
कैलासो +अपि शिखरवान् अष्टाविंशो +अष्ट^भौमश् च॥

55.22

जाल^गवाक्षक^युक्तो विमानसंज्ञस् त्रि^सप्तक^आयामः।
नन्दन इति षड्^भौमो द्वात्रिंशः षोडश^अण्ड^युक्तः॥

55.23

वृत्तः समुद्ग^नामा पद्मः पद्म^आकृतिः शया अष्टौ[क्.शयानाष्टौ]।
शृङ्गेण^एकेन भवेद् एक^एव च भूमिका तस्य॥

55.24

गरुड^आकृतिश् च गरुडो नन्दी^इति च षट्चतुष्क^विस्तीर्णः।
कार्यस् तु[क्.च] सप्त^भौमो विभूषितो +अण्डैस् तु[क्.च] विंशत्या॥

55.25

कुञ्जर इति गज^पृष्ठः षोडशहस्तः समन्ततो मूलात्।
गुहराजः षोडशकस् त्रि^चन्द्रशाला भवेद् वलभी॥

55.26

वृष एक^भूमि^शृङ्गो द्वादशहस्तः समन्ततो वृत्तः।
हंसो हंस^आकारो घटो +अष्टहस्तः कलश^रूपः॥

55.27

द्वारैर् युतश् चतुर्भिर् बहु^शिखरो भवति सर्वतोभद्रः।
बहु^रुचिर^चन्द्रशालः षड्विंशः पञ्च^भौमश् च॥

55.28

सिंहः सिंह^आक्रान्तो द्वादशकोणो +अष्टहस्त^विस्तीर्णः।
चत्वारो +अञ्जन^रूपाः पञ्च^अण्ड^युतस् तु चतुरस्रः[क्.चतुरश्रः]॥

55.29

भूमिका^अङ्गुल^मानेन मयस्य^अष्टोत्तरं शतम्।
सार्धं हस्तत्रयं च^एव कथितं विश्वकर्मणा॥

55.30

प्राहुः स्थपतयश् च^अत्र मतम् एकं विपश्चितः।
कपोतपालि^संयुक्ता न्यूना गच्छन्ति तुल्यताम्॥

55.31

प्रासादलक्षणम् इदम् कथितं समासाद्
गर्गेण यद् विरचितं तद् इह^अस्ति सर्वम्।
मनु^आदिभिर् विरचितानि पृथूनि यानि
तत्संस्पृशन्[क्.तत्संस्मृतिं] प्रति मया^अत्र कृतो +अधिकारः॥
56 वज्रलेपलक्षणाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc