भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 54

54.01

प्रान्त^च्छाया^विनिर्मुक्ता न मनोज्ञा जलाशयाः।
यस्माद् अतो जल^प्रान्तेष्व् आरामान् विनिवेशयेत्॥

54.02

मृद्वी भूः सर्ववृक्षाणां हिता तस्याम् तिलान् वपेत्।
पुष्पितांस् तांश् च मृद्नीयात्[क्.गृह्णीयात्] कर्म^एतत् प्रथमं भुवः[क्.भुवि]॥

54.03

अरिष्ट^अशोक^पुन्नाग^शिरीषाः सप्रियङ्गवः।
मङ्गल्याः पूर्वम् आरामे रोपणीया गृहेषु वा॥

54.04

पनस^अशोक^कदली^जम्बू^लकुच^दाडिमाः।
द्राक्षा^पालीवताश् च^एव बीजपूर^अतिमुक्तकाः॥

54.05

एते द्रुमाः काण्डरोप्या[क्.काण्डारोप्या] गोमयेन प्रलेपिताः।
मूलोच्छेदे +अथ वा स्कन्धे रोपणीयाः *परं ततः[क्.प्रयत्नतः]॥

54.06

अजातशाखान् शिशिरे जातशाखान् हिमागमे।
वर्षागमे च सुस्कन्धान् *यथादिक्स्थान् प्ररोपयेत्[क्.यथादिक् प्रतिरोपयेत्]॥

54.07

घृत^उशीर^तिल^क्षौद्र^विडङ्ग^क्षीर^गोमयैः।
आमूल^स्कन्ध^लिप्तानां संक्रामण^विरोपणम्॥

54.08

शुचिर् भूत्वा तरोः पूजां कृत्वा स्नान^अनुलेपनैः।
रोपयेद् रोपितश् च^एव पत्रैस् तैर् एव जायते॥

54.09

सायं प्रातश् च घर्म^ऋतौ[क्.घर्मान्ते] शीतकाले दिन^अन्तरे।
वर्षासु च भुवः शोषे सेक्तव्या रोपिता द्रुमाः॥

54.10

जम्बू^वेतस^वानीर^कदम्ब^उदुम्बर^अर्जुनाः।
बीजपूरक^मृद्वीका^लकुचाश् च सदाडिमाः॥

54.11

वञ्जुलो नक्तमालश् च तिलकः पनसस् तथा।
तिमिरो +अम्रातकश् च^इति[क्.च^एव] षोडश^अनूपजाः स्मृताः॥

54.12

उत्तमं विंशतिर् हस्ता मध्यमं षोडशान्तरम्।
स्थानात् स्थानान्तरं कार्यं वृक्षाणां द्वादश^अवरम्॥

54.13

अभ्यासजातास् तरवः सम्स्पृशन्तः परस्परम्।
मिश्रैर् मूलैश् च न फलं सम्यग् यच्छन्ति पीडिताः॥

54.14

शीत^वात^आतपै रोगो जायते पाण्डु^पत्रता।
अवृद्धिश् च प्रवालानां[उ.प्रबालानाम्] शाखाशोषो रसस्रुतिः॥

54.15

चिकित्सितम् अथ^एतेषां शस्त्रेण^आदौ विशोधनम्।
विडङ्ग^घृत^पङ्क^अक्तान् सेचयेत् क्षीरवारिणा॥

54.16

फल^नाशे कुलत्थैश् च माषैर् मुद्गैस् तिलैर् यवैः।
शृत^शीत^पयः^सेकः फल^पुष्प^समृद्धये[क्.अभिवृद्धये]॥

54.17

अविका^अज^शकृच्^चूर्णस्य^आढके द्वे तिल^आढकम्।
सक्तु^प्रस्थो जल^द्रोणो गोमांस^तुलया सह॥

54.18

सप्त^रात्र^उषितैर् एतैः सेकः कार्यो वनस्पतेः।
वल्मी^गुल्म^लतानां च फल^पुष्पाय सर्वदा॥

54.19

वासराणि दश दुग्ध^भावितं
बीजम् आज्य^युत^हस्त^योजितम्।
गोमयेन बहुशो विरूक्षितं
क्रौड^मार्ग^पिशितैश् च धूपितम्॥

54.20

मांस[क्.मत्स्य]^सूकर^वसा^समन्वितं रोपितं च परिकर्मित^अवनौ।
क्षीर^संयुत^जल^अवसेचितं जायते कुसुम^युक्तम् एव तत्॥

54.21

तिन्तिडी^इत्य् अपि करोति वल्लरीं व्रीहि^माष^तिल^चूर्ण^सक्तुभिः।
पूतिमांस^सहितैश् च सेचिता धूपिता च सततं हरिद्रया॥

54.22

कपित्थ^वल्ली^करणाय मूलान्य्
आस्फोत^धात्री^धव^वासिकानाम्।
पलाशिनी वेतस^सूर्यबल्ली[क्.ऊ.वल्ली]
श्याम^अतिमुक्तैः सहित^अष्टमूली॥

54.23

क्षीरे शृते च^अप्य् अनया सुशीते
ताला[क्.नाला] शतं स्थाप्य कपित्थबीजम्।
दिने दिने शोषितम् अर्कपादैर्
मासं विधिस् त्व् एष ततो +अधिरोप्यम्॥

54.24

हस्त^आयतं तद्द्विगुणं गभीरं
खात्वा^अवटं प्रोक्त^जल^अवपूर्णम्।
शुष्कं प्रदग्धं मधु^सर्पिषा तत्
प्रलेपयेद् भस्म^समन्वितन[क्.ऊ.समन्वितेन]॥

54.25

चूर्णीकृतैर् माष^तिलैर् यवैश् च
प्रपूरयेद् मृत्तिकया^अन्तरस्थैः।
मत्स्यामिष^अम्भस्[क्.अम्भः]^सहितं च हन्याद्
यावद् घनत्वं समुपागतं तत्॥

54.26

उप्तं च बीजं चतुर्^अङ्गुल^अधो
मत्स्य^अम्भसा मांस^जलैश् च सिक्तम्।
वल्ली भवत्य् आशु शुभ^प्रवाला
विस्मापनी मण्डपम् आवृणोति॥

54.27

शतशो +अङ्कोल[क्.अङ्कोल्ल]^सम्भूत^फल^कल्केन भावितम्।
एतत् तैलेन वा बीजं श्लैष्मातक[क्.ऊ.श्लेष्मातक]^फलेन वा॥

54.28

वापितं करक^उन्मिश्र^मृदि तत्क्षण^जन्मकम्।
फल^भार^अन्विता शाखा भवति^इति किम् अद्भुतम्॥

54.29

श्लेष्मातकस्य बीजानि निष्कुली^कृत्य भावयेत् प्राज्ञः।
अङ्कोल[क्.अङ्कोल्ल]^विज्जला^अद्भिश् छायायां सप्तकृत्व[क्.सप्तकृत्व्]^एवम्॥

54.30

माहिष^गोमय^घृष्टान्य् अस्य करीषे च तानि निक्षिप्य।
करका^जल^मृद्^योगे न्युप्तान्य् अह्ना फल^कराणि॥

54.31

ध्रुव^मृदु^मूल^विशाखा गुरुभं श्रवणस् तथा^अश्विनी हस्तः[क्.हस्तं]।
उक्तानि दिव्य^दृग्भिः पादप^संरोपणे भानि॥
55 प्रासादलक्षणाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc