भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 53

53.01

धर्म्यं यशस्यं च वदाम्य् अतो +अहं दकार्गलं[क्.दगार्गलं] येन जल^उपलब्धिः।
पुंसां यथा^अङ्गेषु शिरास् तथ^एव क्षिताव् अपि प्रोन्नत^निम्न^संस्थाः॥

53.02

एकेन वर्णेन रसेन च^अम्भश् च्युतं नभस्तो वसुधा^विशेषात्।
नानारसत्वं बहुवर्णतां च गतं परीक्ष्यं क्षिति^तुल्यम् एव॥

53.03

पुरुहूत^अनल^यम^निरृति^वरुण^पवन^इन्दु^शङ्करा देवाः।
विज्ञातव्याः क्रमशः प्राच्य^आद्यानां दिशां पतयः॥

53.04

दिक्पतिसंज्ञा च शिरा नवमी मध्ये महाशिरानाम्नी।
एताभ्यो +अन्याः शतशो विनिःसृता नामभिः प्रथिताः॥

53.05

पातालाद् *ऊर्ध्वशिरा शुभा[क्.ऊर्ध्वशिराः शुभाश्] चतुर्दिक्षु संस्थिता याश् च।
कोणदिगुत्था न शुभाः शिरानिमित्तान्य् अतो वक्ष्ये॥

53.06

यदि वेतसो +अम्बुरहिते देशे हस्तैस् त्रिभिस् ततः पश्चात्।
सार्धे पुरुषे तोयं वहति शिरा पश्चिमा तत्र॥

53.07

चिह्नम् अपि च^अर्धपुरुषे मण्डूकः पाण्डुरो +अथ मृत् पीता।
पुटभेदकश् च तस्मिन् पाषाणो भवति तोयम् अधः॥

53.08

जम्ब्वाश् च^उदग् धस्तैस् त्रिभिः शिरा^अधो नरद्वये पूर्वा।
मृल्लोहगन्धिका पाण्डुरा च[क्.अथ] पुरुषे +अत्र मण्डूकः॥

53.09

जम्बूवृक्षस्य प्राग् वल्मीको यदि भवेत् समीपस्थः।
तस्माद् दक्षिणपार्श्वे सलिलं पुरुषद्वये स्वादु॥

53.10

अर्धपुरुषे च मत्स्यः पारावत^सन्निभश् च पाषाणः।
मृद् भवति च^अत्र नीला दीर्घं कालं च बहु तोयम्॥

53.11

पश्चाद् उदुम्बरस्य त्रिभिर् एव करैर् नरद्वये सार्धे।
पुरुषे सितो +अहिर् अश्म^अञ्जन^उपमो +अधः शिरा सुजला॥

53.12

उदग् अर्जुनस्य दृश्यो वल्मीको यदि ततो +अर्जुनाद् धस्तैः।
त्रिभिर् अम्बु भवति पुरुषैस् त्रिभिर् अर्ध^समन्वितैः पश्चात्॥

53.13

श्वेता गोधा^अर्धनरे पुरुषे मृद् धूसरा ततः कृष्णा।
पीता सिता ससिकता ततो जलं निर्दिशेद् अमितम्॥

53.14

वल्मीक^उपचितायां निर्गुण्ड्यां दक्षिणेन कथितकरैः।
पुरुषद्वये सपादे स्वादु जलं भवति च^अशोष्यम्॥

53.15

रोहित^मत्स्यो +अर्धनरे मृत् कपिला पाण्डुरा ततः परतः।
सिकता सशर्करा +अथ क्रमेण परतो भवत्य् अम्भः॥

53.16

पूर्वेण यदि बदर्या वल्मीको दृश्यते जलं पश्चात्।
पुरुषैस् त्रिभिर् आदेश्यं श्वेता गृहगोधिका^अर्धनरे॥

53.17

सपलाशा बदरी चेद् दिश्य् अपरस्यां ततो जलं भवति।
पुरुषत्रये सपादे पुरुषे +अत्र च दुण्डुभश्[क्.दुण्डुभिश्] चिह्नम्॥

53.18

विल्व[क्.बिल्व]^उदुम्बरयोगे विहाय हस्तत्रयं तु याम्येन।
पुरुषैस् त्रिभिर् अम्बु भवेत् कृष्णो +अर्धनरे च मण्डूकः॥

53.19

काकोदुम्बरिकायां वल्मीको दृश्यते शिरा तस्मिन्।
पुरुषत्रये सपादे पश्चिमदिक्स्था वहति सा च॥

53.20

आपाण्डुपीतिका मृद् गोरसवर्णश् च भवति पाषाणः।
पुरुषार्धे कुमुदनिभो दृष्टिपथं मूषको याति॥

53.21

जलपरिहीने देशे वृक्षः कम्पिल्लको यदा दृश्यः।
प्राच्यां हस्तत्रितये वहति शिरा दक्षिणा प्रथमम्॥

53.22

मृन्^नीलोत्पल^वर्णा कापोता *दृश्यते ततस्[क्.च^एव दृश्यते] तस्मिन्।
हस्ते *+अजगन्धको मत्स्यकः[क्.+अजगन्धिमत्स्यो भवति] पयो +अल्पं च सक्षारम्॥

53.23

शोणाकतरोर् अपरोत्तरे शिरा द्वौ कराव् अतिक्रम्य।
कुमुदा नाम शिरा सा पुरुषत्रयवाहिनी भवति॥

53.24

आसन्नो वल्मीको दक्षिणपार्श्वे विभीतकस्य यदि।
अध्यर्धे भवति[क्.तस्य] शिरा पुरुषे ज्ञेया दिशि प्राच्याम्॥

53.25

तस्य^एव पश्चिमायां दिशि वल्मीको यदा भवेद् धस्ते।
तत्र^उदग् भवति शिरा चतुर्भिर् अर्धाधिकैः पुरुषैः॥

53.26

श्वेतो विश्वम्भरकः प्रथमे पुरुषे तु कुङ्कुमाभो +अश्मा।
अपरस्यां दिशि च शिरा नश्यति वर्षत्रये +अतीते॥

53.27

*सकुशः सित[क्.सकुशासित] ऐशान्यां वल्मीको यत्र कोविदारस्य।
मध्ये तयोर् नरैर् अर्धपञ्चमैस् तोयम् अक्षोभ्यम्॥

53.28

प्रथमे पुरुषे भुजगः कमलोदरसन्निभो मही रक्ता।
कुरुविन्दः पाषाणश् चिह्नान्य् एतानि वाच्यानि॥

53.29

यदि भवति सप्तपर्णो वल्मीकवृतस् तदुत्तरे तोयम्।
वाच्यं पुरुषैः पञ्चभिर् अत्रापि भवन्ति चिह्नानि॥

53.30

पुरुष^अर्धे मण्डूको हरितो हरिताल^सन्निभा भूश् च।
पाषाणो +अभ्रनिकाशः सौम्या च शिरा शुभ^अम्बुवहा॥

53.31

सर्वेषां वृक्षाणाम् अधः स्थितो दर्दुरो यदा दृश्यः।
तस्माद् धस्ते तोयं चतुर्भिर् अर्ध^अधिकैः पुरुषैः॥

53.32

पुरुषे तु भवति नकुलो नीलो मृत् पीतिका ततः श्वेता।
दर्दुर^समान^रूपः पाषाणो दृश्यते च^अत्र॥

53.33

यद्य् अहिनिलयो दृश्यो दक्षिणतः संस्थितः करञ्जस्य।
हस्तद्वये तु याम्ये पुरुषत्रितये शिरा सार्धे॥

53.34

कच्छपकः पुरुष^अर्धे प्रथमं च^उद्भिद्यते शिरा पूर्वा।
उदग् अन्या स्वादुजला हरितो +अश्माधस् ततस् तोयम्॥

53.35

उत्तरतश् च मधूकाद् अहिनिलयः पश्चिमे तरोस् तोयम्।
परिहृत्य पञ्च हस्तान् अर्ध^अष्टम^पौरुषान्[क्.पौरुषे] प्रथमम्॥

53.36

अहिराजः पुरुषे +अस्मिन् धूम्रा धात्री कुलुत्थ[क्.कुलत्थ]वर्णो +अश्मा।
माहेन्द्री भवति शिरा वहति सफेनं सदा तोयम्॥

53.37

वल्मीकः स्निग्धो दक्षिणेन तिलकस्य सकुश^दूर्वश् चेत्।
पुरुषैः पञ्चभिर् अम्भो दिशि वारुण्यां शिरा पूर्वा॥

53.38

सर्प^आवासः पश्चाद् यदा कदम्बस्य दक्षिणेन जलम्।
परतो हस्तत्रितयात् षड्भिः पुरुषैस् तुरीय^ऊनैः॥

53.39

कौबेरी च^अत्र शिरा वहति जलं लोहगन्धि च^अक्षोभ्यम्।
कनक^निभो मण्डूको नरमात्रे मृत्तिका पीता॥

53.40

वल्मीकसंवृतो यदि तालो वा भवति नालिकेरो वा।
पश्चात् षड्भिर् हस्तैर् नरैश् चतुर्भिः शिरा याम्या॥

53.41

याम्येन कपित्थस्य^अहिसंश्रयश् चेद् उदग् जलं वाच्यम्।
सप्त परित्यज्य करान् खात्वा पुरुषान् जलं पञ्च॥

53.42

कर्बुरको +अहिः पुरुषे कृष्णा मृत् पुटभिद् अपि च पाषाणः।
श्वेता मृत् पश्चिमतः शिरा ततश् च^उत्तरा भवति॥

53.43

अश्मन्तकस्य वामे बदरी वा दृश्यते +अहिनिलयो वा।
षड्भिर् उदक् तस्य करैः सार्धे पुरुषत्रये तोयम्।

53.44

कूर्मः प्रथमे पुरुषे पाषाणो धूसरः ससिकता मृत्।
आदौ *च शिरा[क्.शिरा च] याम्या पूर्वोत्तरतो द्वितीया च॥

53.45

वामेन हरिद्रतरोर् वल्मीकश् *चेज् जलं भवति पूर्वे[क्.चेत् ततो जलं]।
हस्तत्रितये *सत्र्यंशैः पुम्भिः[क्.पुरुषैः सत्र्यंशैः] पञ्चभिर् भवति॥

53.46

नीलो भुजगः पुरुषे मृत् पीता मरकत^उपमश् च^अश्मा।
कृष्णा भूः प्रथमं वारुणी शिरा दक्षिणेन^अन्या॥

53.47

जलपरिहीने देशे दृश्यन्ते +अनूपजानि *चेन् निमितानि[क्.चिह्नानि]।
वीरण^दूर्वा मृदवश् च यत्र तस्मिन् जलं पुरुषे॥

53.48

भार्ङ्गी त्रिवृता दन्ती सूकरपादी च लक्ष्मणा च^एव।
नवमालिका च हस्तद्वये +अम्बु याम्ये त्रिभिः पुरुषैः॥

53.49

स्निग्धाः प्रलम्ब^शाखा वामन^विकट[क्.विट]द्रुमाः समीपजलाः।
सुषिरा जर्जर^पत्रा रूक्षाश् च जलेन सन्त्यक्ताः॥

53.50

तिलक^आम्रातक^वरुणक^भल्लातक^विल्व[क्.बिल्व]^तिन्दुक^अङ्कोलाः[क्.अङ्कोल्लाः]।
पिण्डार^शिरीष^अञ्जन^परूषका *वञ्जुलो +अतिबला[क्.वञ्जुरातिबला]॥

53.51

एते यदि सुस्निग्धा वल्मीकैः परिवृतास् ततस् तोयम्।
हस्तैस् त्रिभिर् उत्तरतश् चतुर्भिर् अर्धेन च नरेण[क्.नरस्य]॥

53.52

अतृणे सतृणा यस्मिन् सतृणे तृणवर्जिता मही यत्र।
तस्मिन् शिरा प्रदिष्टा वक्तव्यं वा धनं च^अस्मिन्॥

53.53

कण्टक्य् अकण्टकानां व्यत्यासे +अम्भस् त्रिभिः करैः पश्चात्।
खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात्॥

53.54

नदति मही गम्भीरं यस्मिंश् चरणाहता जलं तस्मिन्।
सार्धैस् त्रिभिर् मनुष्यैः कौबेरी तत्र च शिरा स्यात्॥

53.55

वृक्षस्य^एका शाखा यदि विनता भवति पाण्डुरा वा स्यात्।
विज्ञातव्यं शाखातले जलं त्रिपुरुषं खात्वा॥

53.56

फल^कुसुम^विकारो यस्य तस्य पूर्वे शिरा त्रिभिर् हस्तैः।
भवति पुरुषैश् चतुर्भिः पाषाणो +अधः क्षितिः पीता॥

53.57

यदि कण्टकारिका कण्टकैर् विना दृश्यते सितैः कुसुमैः।
तस्यास् तले +अम्बु वाच्यं त्रिभिर् नरैर् अर्धपुरुषे च॥

53.58

खर्जूरी द्विशिरस्का यत्र भवेज् जलविवर्जिते देशे।
तस्याः पश्चिमभागे निर्देश्यं त्रिपुरुषैर्[क्.त्रिपुरुषे] वारि॥

53.59

यदि भवति कर्णिकारः सितकुसुमः स्यात् पलाशवृक्षो वा।
सव्येन तत्र हस्तद्वये +अम्बु पुरुषद्वये[क्.पुरुषत्रये] भवति॥

53.60

*यस्याम् ऊष्मा[क्.ऊष्मा यस्याम्] धात्र्यां धूमो वा तत्र वारि नरयुगले[क्.नरयुग्मे]।
निर्देष्टव्या च शिरा महता तोय^प्रवाहेण॥

53.61

यस्मिन् क्षेत्रोद्देशे जातं सस्यं विनाशम् उपयाति।
स्निग्धम् अतिपाण्डुरं वा महाशिरा नरयुगे तत्र॥

53.62

मरुदेशे भवति शिरा यथा तथा^अतः परं प्रवक्ष्यामि।
ग्रीवा करभाणाम् इव भूतल^संस्थाः शिरा यान्ति॥

53.63

पूर्वोत्तरेण पीलोर् यदि वल्मीको जलं भवति पश्चात्।
उत्तरगमना च शिरा विज्ञेया पञ्चभिः पुरुषैः॥

53.64

चिह्नं दर्दुर आदौ *मृत् कपिला तत्परं[क्.मृत्कपिलातः परं] भवेद् धरिता।
भवति च पुरुषे अधो +अश्मा तस्य तले *+अम्भो विनिर्देष्यम्[क्.वारि निर्देच्यम्]॥

53.65

पीलोर् एव प्राच्यां वल्मीको +अतो +अर्धपञ्चमैर् हस्तैः।
दिशि याम्यायां तोयं वक्तव्यं सप्तभिः पुरुषैः॥

53.66

प्रथमे पुरुषे भुजगः सितासितो हस्तमात्रमूर्तिश् च।
दक्षिणतो वहति शिरा सक्षारं भूरि पानीयम्॥

53.67

उत्तरतश् च करीरस्य^अहिगृहं[क्.करीराद् अहिनिलये] दक्षिणे जलं स्वादु।
दशभिः पुरुषैर् ज्ञेयम् पुर्षे पीतो +अत्र मण्डूकः॥

53.68

रोहीतकस्य पश्चाद् अहिवासश् चेत् त्रिभिः करैर् याम्ये।
द्वादश पुरुषान् खात्वा सक्षारा पश्चिमेन शिरा॥

53.69

इन्द्रतरोर् वल्मीकः प्राग् दृश्यः पश्चिमे शिरा हस्ते।
खात्वा चतुर्दश नरान् कपिला गोधा नरे प्रथमे॥

53.70

यदि वा सुवर्ण^नाम्नस् तरोर् भवेद् वामतो भुजङ्ग^गृहम्।
हस्त^द्वये तु याम्ये पञ्चदश^नर^अवसाने +अम्बु॥

53.71

क्षारं पयो +अत्र नकुलो +अर्ध^मानवे ताम्र^सन्निभश् च^अश्मा।
रक्ता च भवति वसुधा वहति शिरा दक्षिणा तत्र॥

53.72

बदरी^रोहित^वृक्षौ सम्पृक्तौ चेद् विनापि वल्मीकम्।
हस्त^त्रये +अम्बु पश्चात् षोडशभिर् मानवैर् भवति॥

53.73

सुरसं जलम् आदौ दक्षिणा शिरा वहति च^उत्तनेण^अन्या।
पिष्टनिभः पाषाणो मृत् श्वेता वृश्चिको +अर्ध^नरे॥

53.74

सकरीरा चेद् वदरी त्रिभिः करैः पश्चिमेन तत्र^अम्भः।
अष्टादशभिः पुरुषैर् ऐशानी बहु^जला च शिरा॥

53.75

पीलु^समेता बदरी हस्त^त्रय^सम्मिते दिशि प्राच्याम्॥
विंशत्या पुरुषाणाम् अशोष्यम् अम्भो +अत्र सक्षारम्॥

53.76

ककुभ^करीराव् एकत्र संयुतौ यत्र ककुभ^विल्वौ[क्.बिल्बौ] वा।
हस्त^द्वये +अम्बु पश्चान् नरैर् भवेत् पञ्चविंशत्या॥

53.77

वल्मीक^मूर्धनि यदा दूर्वा च कुशाश् च पाण्डुराः सन्ति।
कूपो मध्ये देयो जलम् अत्र नर^एकविंशत्या॥

53.78

भूमिः कदम्बक[क्.भूमी कदम्बक, क्ऽस् त्र्. भूमीकदम्बक]^युता वल्मीके यत्र दृश्यते दूर्वा।
हस्त^द्वयेन[क्.हस्तत्रयेन] याम्ये नरैर् जलं पञ्चविंशत्या॥

53.79

वल्मीक^त्रय^मध्ये रोहीतक^पादपो यदा भवति।
नाना^वृक्षैः सहितस् त्रिभिर् जलं तत्र वक्तव्यम्॥

53.80

हस्त^चतुष्के मध्यात् षोडशभिश् च^अङ्गुलैर् उदग् वारि।
चत्वारिंशत् पुरुषान् खात्वा *+अश्मा +अधः[क्.अश्मातः] शिरा भवति॥

53.81

ग्रन्थि^प्रचुरा यस्मिन् शमी भवेद् उत्तरेण वल्मीकः।
पश्चात् पञ्च^कर^अन्ते शत^अर्ध^संख्यैर् नरैः सलिलम्॥

53.82

एकस्थाः पञ्च यदा वल्मीका मध्यमो भवेत्^श्वेतः।
तस्मिन् शिरा प्रदिष्टा नर^षष्ट्या पञ्च^वर्जितया॥

53.83

स^पलाशा यत्र शमी पश्चिमभागे +अम्बु मानवैः षष्ट्या।
अर्ध्^अनरे +अहिः प्रथमं सवालुका पीतमृत् परतः॥

53.84

वल्मीकेन परिवृतः श्वेतो रोहीतको भवेद् यस्मिन्।
पूर्वेण हस्त^मात्रे सप्तत्या मानवैर् अम्बु॥

53.85

श्वेता कण्टक^बहुला यत्र शमी दक्षिणेन तत्र पयः।
नर^पञ्चक^संयुतया सप्तत्या^अहिर् नर^अर्धे च॥

53.86

मरुदेशे यच् चिह्नं न जाङ्गले तैर् जलं विनिर्देश्यम्।
जम्बू^वेतस^*पूर्वैर्[क्.पूर्वे] ये पुरुषास् ते मरौ द्विगुणाः॥

53.87

जम्बूस् त्रिवृता मौर्वी[क्.मूर्वा] शिशुमारी सारिवा शिवा श्यामा।
वीरुधयो वाराही ज्योतिष्मती *गरुडवेगा च[क्.च गरुडवेगा]॥

53.88

सूकरिक^माषपर्णी^व्याघ्रपदाश् च^इति यद्य् अहेर् निलये।
वल्मीकाद् उत्तरतस् त्रिभिः करैस् त्रि^पुरुषे तोयम्॥

53.89

एतद् अनूपे वाच्यं जाङ्गल^भूमौ तु पञ्चभिः पुरुषैः।
एतैर् एव निमित्तैर् मरुदेशे सप्तभिः कथयेत्॥

53.90

एकनिभा यत्र मही तृण^तरु^वल्मीक^गुल्म^परिहीना।
तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र॥

53.91

यत्र स्निग्धा निम्ना सवालुका स^अनुनादिनी वा स्यात्।
तत्र अर्धपञ्चकैर्[क्.अर्धपञ्चमैर्] वारि मानवैः पञ्चभिर् यदि वा॥

53.92

स्निग्ध^तरूणां याम्ये नरैश् चतुर्भिर् जलं प्रभूतं च।
तरु^गहने +अपि हि विकृतो यस् तस्मात् तद्वद् एव वदेत्॥

53.93

नमते यत्र धरित्री स^अर्धे पुरुषे +अम्बु जाङ्गल^अनूपे।
कीटा वा यत्र विना^आलयेन बहवो +अम्बु तत्र^अपि॥

53.94

उष्णा शीता च मही शीत^उष्ण^अम्भस् त्रिभिर् नरैः स^अर्धैः।
इन्द्रधनुर् मत्स्यो वा वल्मीको वा चतुर्^हस्तात्॥

53.95

वल्मीकानां पङ्क्त्यां यद्य् एको +अभ्युच्छ्रितः शिरा तद्^अधः।
शुष्यति न रोहते वा सस्यं यस्यां च तत्र^अम्भः॥

53.96

न्यग्रोध^पलाश^उदुम्बरैः समेतैस् त्रिभिर् जलं तद्^अधः।
वट^पिप्पल^समवाये तद्वद् वाच्यं शिरा च^उदक्॥

53.97

आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवेत्[क्.भवति] कूपः।
नित्यं स करोति भयं दाहं च समानुषं प्रायः॥

53.98

नैरृत^कोणे बाल^क्षयं *च वनिता^भयं[क्.वनिताभयं] च वायव्ये।
दिक्^त्रयम् एतत् त्यक्त्वा शेषासु शुभ^आवहाः कूपाः॥

53.99

सारस्वतेन मुनिना दकार्गलं[क्.दगार्गलं] यत् क्र्तं तद् अवलोक्य।
आर्याभिः कृतम् एतद् वृत्तैर् अपि मानवं वक्ष्ये॥

53.100

स्निग्धा यतः पादप^गुल्म^वल्ल्यो
निश्छिद्र^पत्राश् च ततः शिरा^अस्ति।
पद्म^क्षुर^उशीर^कुलाः सगुण्ड्राः
काशाः कुशा वा नलिका नलो वा॥

53.101

खर्जूर^जम्बू^अर्जुन^वेतसाः स्युः
क्षीर^अन्विता वा द्रुम^गुल्म^वल्ल्यः।
छत्र^इभ^नागाः शतपत्र^नीपाः
स्युर् नक्तमालाश् च स^सिन्दुवाराः॥

53.102

विभीतको वा मदयन्तिका वा
यत्र^अस्ति तस्मिन् पुरुष^त्रये +अम्भः।
स्यात् पर्वतस्य^उपरि पर्वतो +अन्यस्
तत्र^अपि मूले पुरुष^त्रये +अम्भः॥

53.103

या मौञ्जिकैः[क्.मौञ्जकैः] काश^कुशैश् च युक्ता
नीला च मृद् यत्र सशर्करा च।
तस्यां प्रभूतं सुरसं च तोयं
कृष्ण^अथ वा यत्र च रक्तमृद् वा॥

53.104

सशर्करा ताम्र^मही कषायं
क्षारं धरित्री कपिला करोति।
आपाण्डुरायां लवणं प्रदिष्टं
मृष्टं[क्.मिष्टम्] पयो नील^वसुन्धरायाम्॥

53.105

शाक^अश्वकर्ण^अर्जुन^विल्व[क्.बिल्व]^सर्जाः
श्रीपर्ण्य्^अरिष्टा^धव^शिंशपाश् च।
छिद्रैश् च पत्रैर्[क्.पर्णैर्] द्रुम^गुल्म^वल्ल्यो
रूक्षाश् च दूरे +अम्बु निवेदयन्ति॥

53.106

सूर्य^अग्नि^भस्म^उष्ट्र^खर^अनुवर्णा
या निर्जला सा वसुधा प्रदिष्टा।
रक्त^अङ्कुराः क्षीर^युताः करीरा
रक्ता धरा चेज् जलम् अश्मनो +अधः॥

53.107

वैदूर्य^मुद्ग[क्.वैडूर्यमुड्ग]^अम्बुद^मेचक^आभा
पाक^उन्मुख^उदुम्बर^सन्निभा वा।
भङ्ग[क्.भृङ्ग]^अञ्जन^आभा कपिला^अथ वा या
ज्ञेया शिला भूरि^समीप^तोया॥

53.108

पारावत[क्.परावत]^क्षौद्र^घृत^उपमा या[क्.वा]
क्षौमस्य वस्त्रस्य च तुल्य^वर्णा।
या सोमवल्ल्याश् च समान^रूपा
साप्य् आशु तोयं कुरुते +अक्षयं च॥

53.109

ताम्रैः समेता पृषतैर् विचित्रैर्
आपाण्डु^भस्म^उष्ट्र^खर^अनुरूपा।
भृङ्ग^उपम^अङ्गुष्ठिक^पुष्पिका वा
सूर्य^अग्नि^वर्णा च शिला वितोया॥

53.110

चन्द्र^आतप^स्फटिक^मौक्तिक^हेम^रूपा
याश् च^इन्द्रनील^मणि^हिङ्गुलुक^अञ्जन^आभाः।
सूर्य^उदय^अंशु^हरिताल^निभाश् च याः स्युस्
ताः शोभना मुनिवचो +अत्र च वृत्तम् एतत्॥

53.111

एता ह्य् अभेद्याश् च शिलाः शिवाश् च
यक्षैश् च नागैश् च सदा^अभिजुष्टाः।
येषां च राष्ट्रेषु भवन्ति राज्णां
तेषाम् अवृष्टिर् न भवेत् कदा चित्॥

53.112

भेदं यदा नैति शिला तदानीं
पलाश^काष्ठैः सह तिन्दुकानाम्।
प्रज्वालयित्वा^अनलम् अग्निवर्णा
सुधा^अम्बु^सिक्ता प्रविदारम् एति॥

53.113

तोयं श्रितं[क्.शृतम्] मोक्षक^भस्मना वा
यत् सप्तकृत्वः परिषेचनं तत्।
कार्यं शर^क्षार^युतं शिलायाः
प्रस्फोटनं वह्नि^वितापितायाः॥

53.114

तक्र^काञ्जिक^सुराः सकुलत्था
योजितानि बदराणि च तस्मिन्।
सप्तरात्रम् उषितान्य् अभितप्तां
दारयन्ति हि शिलां परिषेकैः॥

53.115

नैम्बं पत्रं त्वक् च नालं तिलानां
स^अपामार्गं तिन्दुकं स्याद् गुडूची।
गोमूत्रेण स्रावितः क्षार एषां
षट्^कृत्वो +अतस् तापितो भिद्यते +अश्मा॥

53.116

आर्कं पयो हुडु^विषाण^मषी^समेतं
पारावत^आखु^शकृता च युतः प्रलेपः।
टङ्कस्य तैल^मथितस्य ततो +अस्य पानं
पश्चात्^शितस्य न शिलासु भवेद् विघातः॥

53.117

क्षारे कदल्या मथितेन युक्ते[क्.यक्ते]
दिन^उषिते पायितम् आयसं यत्।
सम्यक् शितं[क्.छितं] च^अश्मनि न^एति भङ्गं
न च^अन्यलोहेष्व् अपि तस्य कौण्ठ्यम्॥

53.118

पाली प्राग्^अपर^आयता^अम्बु सुचिरं धत्ते न याम्योत्तरा
कल्लोलैर् अवदारम् एति मरुता सा प्रायशः प्रेरितैः।
तां चेद् इच्छति सार^दारुभिर् अपां सम्पातम् आवारयेत्
पाषाण^आदिभिर् एव वा प्रतिचयं क्षुण्णं[क्.क्षुन्नं] द्विप^अश्व^आदिभिः॥

53.119

ककुभ^वट^आम्र^प्लक्ष^कदम्बैः स^निचुल^जम्बू^वेतस^नीपैः।
कुरबक[क्.कुरवक]^ताल^अशोक^मधूकैर् बकुल^विमिश्रैश् च^आवृत^तीराम्॥

53.120

द्वारं च नैर्वाहिकम् एकदेशे
कार्यं शिला^सञ्चित^वारिमार्गम्।
कोश^स्थितं निर्विवरं कपाटं
कृत्वा ततः पांशुभिर् आवपेत् तम्॥

53.121

अञ्जन^मुस्ता^उशीरैः स^राजकोशातक^आमलक^चूर्णैः।
कतकफल^समायुक्तैर् योगः कूपे प्रदातव्यः॥

53.122

कलुषं कटुकं लवणं विरसं
सलिलं यदि वा शुभगन्धि[उ.अशुभगन्धि] भवेत्।
तद् अनेन भवत्य् अमलं सुरसं
सुसुगन्धि गुणैर् अपरैश् च युतम्॥

53.123

हस्तो मघा^अनुराधा^पुष्य^धनिष्ठा^उत्तराणि रोहिण्यः।
शतभिषग् इत्य् आरम्भे कूपानां शस्यते भगणः॥

53.124

कृत्वा वरुणस्य बलिं वट^वेतस^कीलकं शिरा^स्थाने।
कुसुमैर् गन्धैर् धूपैः सम्पूज्य निधापयेत् प्रथमम्॥
[क्.54.125अब्। मेघोद्भवं प्रथमम् एव मया प्रदिष्टं ज्येष्ठाम् अतीत्य बलदेवमतादि दृष्ट्वा।
क्.54.125च्द्। भौमं दगार्गलम् इदं कथितं द्वितीयं सम्यग् वराहमिहिरेण मुनिप्रसादात्॥]
54 वृक्षायुर्वेदाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc