भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 52

52.01

वास्तुज्ञानम् अथ^अतः कमलभवान् मुनिपरम् परायातम्।
क्रियते +अधुना मया^इदम् विदग्ध^सांवत्सर^प्रीत्यै॥

52.02

किम् अपि किल भूतम् अभवद् रुन्धानं रोदसी शरीरेण।
तद् अमरगणेन सहसा विनिगृह्य^अधोमुखं न्यस्तम्॥

52.03

यत्र च येन गृहीतं विबुधेन^अधिष्ठितः स तत्र^एव।
तद् अमरमयं विधाता वास्तुनरं कल्पयाम् आस॥

52.04

उत्तमम् अष्ट^अभ्यधिकं हस्तशतं नृप^गृहं पृथुत्वेन।
अष्ट^अष्ट^ऊनान्य् एवं पञ्च सपादानि दैर्घ्येण॥

52.05

षड्भिः षड्भिर् हीना सेनापति^सद्मनां चतुःषष्टिः।
*एवं पञ्च गृहाणि[क्.पञ्च एवं विस्तारात्] षड्भाग^समन्विता दैर्घ्यम्॥

52.06

षष्टिश् *चतुर्भिर् हीना[क्.चतुर्विहीना] वेश्मानि पञ्च सचिवस्य।
स्व^अष्टांश^युतो दैर्घ्यं तदर्धतो राज^महिषीणाम्॥

52.07

षड्भिः षड्भिश् च^एवं युवराजस्य^अपवर्जिता^अशीतिः।
त्र्यंशान्विता च दैर्घ्यं पञ्च तदर्धैस् तदनुजनानाम्॥

52.08

नृप^सचिव^अन्तरतुल्यं सामन्त^प्रवर^राजपुरुषाणाम्।
नृप^युवराज^विशेषः कञ्चुकि^वेश्या^कलाज्ञानाम्॥

52.09

अध्यक्ष^अधिकृतानां *सर्वेषां[क्.सर्वेषाम् एव] कोश^रति^तुल्यम्।
युवराज^मन्त्रि^विवरं कर्मान्त^अध्यक्ष^दूतानाम्॥

52.10

चत्वारिंशद्^ धीना चतुश्चतुर्भिस् तु पञ्च यावद् इति।
षड्^भाग^युता दैर्घ्यं दैवज्ञ^पुरोधसोर् भिषजः॥

52.11

वास्तुनि यो विस्तारः स एव च^उच्छ्राय^निश्चयः शुभदः।
शाला^एकेषु गृहेष्व् अपि विस्ताराद् द्विगुणितं दैर्घ्यम्॥

52.12

चातुर्वर्ण्य^व्यासो द्वात्रिंशत् *सा[क्.स्यात्] चतुश्चतुर्हीना।
आषोडशाद् इति परं न्यूनतरम् अतीव हीनानाम्॥

52.13

सदशांशं विप्राणां क्षत्रस्य^अष्टांश^संयुतं दैर्घ्यम्।
षड्भाग^युतं वैश्यस्य भवति शूद्रस्य पादयुतम्॥

52.14

नृप^सेनापति^गृहयोर् अन्तरमानेन कोश^रति^भवने।
सेनापति^चातुर्वर्ण्य^विवरतो राजपुरुषाणाम्॥

52.15

अथ *पारशव[क्.पारसव]^आदीनां स्वमान^संयोग^दल^समं भवनम्।
हीन^अधिकं स्वमानाद् अशुभकरं वास्तु सर्वेषाम्॥

52.16

पश्व्^आश्रमिणाम् अमितं धान्य^आयुध^वह्नि^रति^गृहाणां च।
न^इच्छन्ति शास्त्रकारा हस्तशताद् उच्छ्रितं परतः॥

52.17

सेनापति^नृपतीनां सप्तति^सहिते द्विधा^कृते व्यासे।
शाला चतुर्दश^हृते पञ्चत्रिंशद्^धृते +अलिन्दः॥

52.18

हस्त^द्वात्रिंश^आदिषु चतुश्^चतुस्^त्रि^त्रिक^त्रिकाः शालाः।
सप्त^दश^त्रितय^तिथि^त्रयोदश^कृताङ्गुल^अभ्यधिकाः॥

52.19

त्रि^त्रि^द्वि^द्वि^द्वि^समाः क्षयक्रमाद् अङ्गुलानि च^एतेषाम्।
व्येका विंशतिर् अष्टौ विंशतिर् अष्टादश त्रितयम्॥

52.20

शाला^त्रिभाग^तुल्या कर्तव्या वीथिका बहिर्भवनात्।
यद्य् अग्रतो भवति सा सोष्णीषं नाम तद्वास्तु॥

52.21

सायाश्रयम् इति पश्चात् सावष्टम्भं तु पार्श्वसंस्थितया।
सुस्थितम् इति च समन्तात्^शास्त्रज्ञैः पूजिताः सर्वाः॥

52.22

विस्तार^षोडशांशः सचतुर्^हस्तो भवेद् गृह^उच्छ्रायः।
द्वादश^भागेन^ऊनो भूमौ भूमौ समस्तानाम्॥

52.23

व्यासात् षोडशभागः सर्वेषां सद्मनां भवति भित्तिः।
पक्व^इष्टका^आकृतानां दारुकृतानां तु *न विकल्पः[क्.सविकल्पः, क्ऽस् त्र्. न विकल्पः]॥

52.24

एकादश^भाग^युतः ससप्ततिर् नृप^बलेशयोर् व्यासः।
उच्छ्रायो +अङ्गुलतुल्यो द्वारस्यार्धेन विष्कम्भः॥

52.25

विप्रादीनां व्यासात् पञ्चांशो +अष्टादश^अङ्गुल^समेतः।
साष्टांशो विष्कम्भो द्वारस्य त्रिगुण उच्छ्रायः॥

52.26

उच्छ्राय^हस्त^संख्या^परिमाणान्य् अङ्गुलानि बाहुल्यम्।
शाखाद्वये +अपि कार्यं सार्धं तत् स्याद् उदुम्बरयोः॥

52.27

उच्छ्रायात् सप्तगुणाद् अशीतिभागः पृथुत्वम् एतेषाम्।
नवगुणिते +अशीत्यंशः स्तम्भस्य दशांशहीनो +अग्रे॥

52.28

*समचतुरस्रो[क्.समचतुरश्रो] रुचको वज्रो *+अष्टास्रिर्[क्.अष्टाश्रिस्] द्विवज्रको द्विगुणः।
द्वात्रिंशता तु मध्ये प्रलीनको वृत्त इति वृत्तः॥

52.29

स्तम्भं विभज्य नवधा वहनं भागो घटो +अस्य भागो +अन्यः।
पद्मं तथा^उत्तरोष्ठं कुर्याद् भागेन भागेन॥

52.30

स्तम्भसमं बाहुल्यं भारतुलानाम् उपर्य् उपर्य् आसाम्।
भवति तुला^उपतुलानाम् ऊनं पादेन पादेन॥

52.31

अप्रतिषिद्ध^अलिन्दं समन्ततो वास्तु सर्वतोभद्रम्।
नृप^विबुध^समूहानां कार्यं द्वारैश् चतुर्भिर् अपि॥

52.32

नन्द्यावर्तम् अलिन्दैः शालाकुड्यात् प्रदक्षिण^अन्तगतैः।
द्वारं पश्चिमम् अस्मिन् विहाय शेषाणि कार्याणि॥

52.33

द्वारालिन्दो +अन्तगतः प्रदक्षिणो +अन्यः शुभस् ततश् चान्यः।
*तस्मिंश्[क्.तद्वद्] च वर्धमाने द्वारं तु न दक्षिणं कार्यम्॥

52.34

अपरो +अन्तगतो +अलिन्दः प्रागन्तगतौ तदुत्थितौ चान्यौ।
तदवधि^*विधृतश्[क्.विवृतश्, क्ऽस् त्र्. विधृत] चान्यः प्राग्द्वारं स्वस्तिके *शुभदम्[क्.+अशुभदम्, क्ऽस् त्र्. शुभम्]॥

52.35

प्राक्^पश्चिम^अवलिन्दाव् अन्तगतौ तद् अवधिस्थितौ शेषौ।
रुचके द्वारं न शुभदम् उत्तरतो +अन्यानि शस्तानि॥

52.36

श्रेष्ठं नन्द्यावर्तं सर्वेषां वर्धमान^संज्ञं च।
स्वस्तिक^रुचके मध्ये शेषं शुभदं नृप^आदीनाम्॥

52.37

उत्तरशाला^हीनं हिरण्यनाभं त्रिशालकं धन्यम्।
प्राक्शालया वियुक्तं सुक्षेत्रं वृद्धिदं वास्तु॥

52.38

याम्याहीनं चुल्ली त्रिशालकं वित्तनाशकरम् एतत्।
पक्षघ्नम् अपरया वर्जितं सुत^ध्वंस^वैर^करम्॥

52.39

सिद्धार्थम् अपरयाम्ये यमसूर्यं पश्चिमोत्तरे शाले।
दण्डाख्यम् उदक्पूर्वे वात^आख्यं प्राग्युता याम्या॥

52.40

पूर्वापरे तु शाले गृहचुल्ली दक्षिणोत्तरे काचम्।
सिद्धार्थे +अर्थावाप्तिर् यमसूर्ये गृहपतेर् मृत्युः॥

52.41

दण्डवधो दण्डाख्ये कलह^उद्वेगः सदैव वात^बाख्ये।
वित्तविनाशश् चुल्ल्यां ज्ञातिविरोधः स्मृतः काचे॥

52.42

एकाशीतिविभागे दश दश पूर्वोत्तरायता रेखाः।
अन्तस् त्रयोदश सुरा द्वात्रिंशद्^बाह्य^कोष्ठस्थाः॥

52.43

शिखि^पर्जन्य^जयन्त^इन्द्र^सूर्य^सत्या भृशो +अन्तरिक्षश् च।
*ऐशान्यादि[क्.ऐशान्याद्याः]^क्रमशो दक्षिणपूर्वे +अनिलः कोणे॥

52.44

पूषा वितथ^बृहत्क्षत^यम^गन्धर्व^आख्य^भृङ्गराज^मृगाः।
पितृ^दौवारिक^सुग्रीव^कुसुमदन्त^अम्बुपत्य्^असुराः॥

52.45

शोषो +अथ पापयक्ष्मा रोगः कोणे ततो +अहि^मुख्यौ च।
भल्लाट^सोम^भुजगास् ततो +अदितिर् दितिर् इति क्रमशः॥

52.46

मध्ये ब्रह्मा नवकोष्ठकाधिपो +अस्य^अर्यमा स्थितः प्राच्याम्।
एकान्तरात् प्रदक्षिणम् अस्मात् सविता विवस्वांश् च॥

52.47

विबुध^अधिपतिस् तस्मान् मित्रो +अन्यो राज^यक्ष्म^नामा च।
*पृथिवी[क्.पृथ्वी]धरापवत्साव् इत्य् एते ब्रह्मणः परिधौ॥

52.48

आपो नाम^ऐशाने कोणे हौताशने च सावित्रः।
जय इति च नैरृते रुद्र आनिले +अभ्यन्तरपदेषु॥

52.49

आपस् तथा^अपवत्सः पर्जन्यो +अग्निर् दितिश् च वर्गो +अयम्।
एवं कोणे कोणे पदिकाः स्युः पञ्च पञ्च सुराः॥

52.50

बाह्या द्विपदाः शेषास् ते विबुधा विंशति समाख्याताः।
शेषाश् चत्वारो +अन्ये त्रिपदा दिक्ष्व् अर्यमाद्यास् ते॥

52.51

पूर्वोत्तरदिग्^मूर्धा पुरुषो +अयम् अवाङ्^मुखो +अस्य शिरसि शिखी।
आपो मुखे स्तने +अस्यार्यमा ह्य् उरस्य् आपवत्सश् च॥

52.52

पर्जन्याद्या बाह्या दृक्श्रवण^उरःस्थलांसगा देवाः।
सत्याद्याः पञ्च भुजे हस्ते सविता *च सावित्रः[क्.ससावित्रः]॥

52.53

वितथो बृहत्क्षतयुतः पार्श्वे जठरे स्थितो विवस्वांश् च।
ऊरू जानु च जङ्घे स्फिग् इति यमाद्यैः परिगृहीताः॥

52.54

एते दक्षिणपार्श्वे स्थानेष्व् एवं च वामपार्श्वस्थाः।
मेढ्रे शक्र^जयन्तौ हृदये ब्रह्मा पिता^*अङ्घ्रिगतः[क्.अङ्ग्रिगतः]॥

52.55

अष्ट^अष्टकपदम् अथ वा कृत्वा रेखाश् च कोणगास् तिर्यक्।
ब्रह्मा चतुष्पदो +अस्मिन्न् अर्धपदा ब्रह्मकोणस्थाः॥

52.56

अष्टौ च बहिष्कोणेष्व् अर्धपदास् तद्^उभय^स्थिताः स^अर्धाः।
उक्तेभ्यो ये शेषास् ते द्विपदा विंशतिस् ते *हि[क्.च]॥

52.57

सम्पाता वंशानां मध्यानि समानि यानि च पदानाम्।
मर्माणि तानि *विन्द्यान् न तानि परिपीडयेत्[क्.विन्द्यान्न् अपरिपीडयेत्] प्राज्ञः॥

52.58

तान्य् अशुचिभाण्ड^कील^स्तम्भ^आद्यैः पीडितानि शल्यैश् च।
गृहभर्तुस् तत्तुल्ये पीडाम् अङ्गे प्रयच्छन्ति॥

52.59

कण्डूयते यद् अङ्गं *गृहभर्तुर्[क्.गृहपतिना] यत्र वा^अमराहुत्याम्।
अशुभं भवेन् निमित्तं विकृतेर् वा अग्नेः सशल्यं तत्॥

52.60

धनहानिर् दारुमये पशुपीडा रुग्भयानि चास्थिकृते।
[क्.त्wओ वेर्सेस् इन्सेर्तेद्
क्. 53.60च्द्। लोहमये शस्त्र^भयं कपालकेशेषु मृत्युः स्यात्॥
क्. 53.61अब्। अङ्गारे स्तेनभयं भस्मनि च विनिर्दिशेत् सदाग्निभयम्।
क्. 53.61च्द्। शल्यं हि मर्मसंस्थं सुवर्ण^रजत^आदृते +अत्यशुभम्॥
क्. 53.62अब्। मर्मण्यमर्मगो वा रुणद्ध्य् अर्थागमं तुषसमूहः]।
अपि नागदन्तको मर्म^संस्थितो दोषकृद् भवति॥

52.61

रोगाद् वायुं पितृतो हुताशनं शोषसूत्रम् अपि वितथात्।
मुख्याद् भृशं जयन्ताच् च भृङ्गम् अदितेश् च सुग्रीवम्॥

52.62

तत्सम्पाता नव ये तान्य् अतिमर्माणि सम्प्रदिष्टानि।
यश् च पदस्य^अष्टांशस् तत् प्रोक्तं मर्म^परिमाणम्॥

52.63

पदहस्त^संख्यया सम्मितानि वंशो +अङ्गुलानि विस्तीर्णः।
वंशव्यासो +अध्यर्धः शिराप्रमाणं विनिर्दिष्टम्॥

52.64

सुखम् इच्छन् ब्रह्माणं यत्नाद् रक्षेद् गृही *गृहान्तःस्थम्[क्.गृतान्तस्थम्]।
उच्छिष्ट^आद्य्^उपघाताद् गृहपतिर् उपतप्यते तस्मिन्॥

52.65

दक्षिणभुजेन हीने वास्तुनरे +अर्थक्षयो *+अङ्गनादादोषाः[क्.अङ्गनादोषाः]।
वामे +अर्थधान्यहानिः शिरसि गुणैर् हीयते सर्वैः॥

52.66

स्त्रीदोषाः सुतमरणं प्रेष्यत्वं च^अपि चरणवैकल्ये।
अविकल^पुरुषे वसतां मान^अर्थ^युतानि सौख्यानि॥

52.67

गृह^नगर^ग्रामेषु च सर्वत्र^एवं प्रतिष्ठिता देवाः।
तेषु च यथ^अनुरूपं वर्णा विप्रादयो वास्याः।

52.68

वासगृहाणि च विन्द्याद् विप्र^आदीनाम् उदग्दिगाद्यानि।
विशतां च यथा भवनं भवन्ति तान्य् एव दक्षिणतः॥

52.69

नव^गुण^सूत्र^विभक्तान्य् अष्ट^गुणेन^अथ वा चतुःषष्टेः।
द्वाराणि यानि तेषाम् अनल^आदीनां फल^उपनयः॥

52.70

*अनिलभयं[क्.अनलभयं] *स्त्रीजननं[क्.स्त्रीजन्म] प्रभूतधनता नरेन्द्र^वाल्लभ्यम्।
क्रोधपरता^अनृतत्वं क्रौर्यं चौर्यं च पूर्वेण॥

52.71

अल्पसुतत्वं प्रैष्यं नीचत्वं भक्ष्य^पान^सुत^वृद्धिः।
रौद्रं कृतघ्नम् अधनं सुत^वीर्य^घ्नं च याम्येन॥

52.72

सुत^पीडा रिपु^वृद्धिर् न सुत^धन^आप्तिः[क्.धनस्ताप्तिः] सुत^अर्थ^फल^सम्पत्।
धनसम्पन् नृपति^भयं धन^क्षयो रोग इत्य् अपरे॥

52.73

वध^बन्धो रिपु^वृद्धिः सुतधनलाभः[क्.धनसुतलाभः] समस्तगुणसम्पत्।
पुत्रधनाप्तिर् वैरं सुतेन दोषाः स्त्रिया नैःस्वम्॥

52.74

मार्ग^तरु^कोण^कूप^स्तम्भ^भ्रम^विद्धम् अशुब्भदं द्वारम्।
उच्छ्रायाद् द्विगुणमितां त्यक्त्वा भूमिं न दोषाय॥

52.75

रथ्या^आविद्धं द्वारं नाशाय कुमार^दोषदं तरुणा।
पङ्कद्वारे शोको व्ययो +अम्बुनिःस्राविणि[क्.अम्बुनि श्राविणि] प्रोक्तः॥

52.76

कूपेन^अपस्मारो भवति विनाशश् च देवता^आविद्धे।
स्तम्भेन स्त्रीदोषाः कुलनाशो ब्राह्मणाभिमुखे[क्.ब्राह्मणो +अभिमुखे]॥

52.77

उन्मादः स्वयम् उद्घाटिते +अथ पिहिते स्वयं कुलविनाशः।
मानाधिके नृप^भयं दस्युभयं *व्यसनम् एव नीचे च[क्.व्यसनदं नीचम्]॥

52.78

द्वारं द्वारस्य^उपरि यत् तन् न शिवाय सङ्कटं यच् च।
आव्यात्तं क्षुद्भयदं कुब्जं कुलनाशनं भवति॥

52.79

पीडाकरम् अतिपीडितम् अन्तर्विनतं भवेद् अभावाय।
बाह्यविनते प्रवासो दिग्भ्रान्ते दस्युभिः पीडा॥

52.80

मूलद्वारं नान्यैर् द्वारैर् अभिसन्दधीत रूप^ऋद्ध्या।
घट^फल^पत्र^प्रमथा^आदिभिश् च तन्^मङ्गलैश् चिनुयात्॥

52.81

ऐशान्यादिषु कोणेषु संस्थिता बाह्यतो गृहस्यैताः।
चरकी विदारिनामा^अथ पूतना राक्षसी च^इति॥

52.82

पुरभवनग्रामाणां ये कोणास् तेषु निवसतां दोषाः।
श्वपचादयो +अन्त्यजात्यास् तेष्व् एव विवृद्धिम् आयान्ति॥

52.83

याम्यादिष्व् अशुभफला जातास् तरवः प्रदक्षिणेनैते।
उदगादिषु प्रशस्ताः प्लक्ष^वट^उदुम्बर^अश्वत्था[क्.उदुम्बराश्वत्थाः]॥

52.84

आसन्नाः कण्ठकिनो रिपुभयदाः क्षीरिणो +अर्थनाशाय।
फलिनः प्रजाक्षयकरा दारूण्य् अपि वर्जयेद् एषाम्॥

52.85

छिन्द्याद् यदि न तरूंश् तान् तदन्तरे पूजितान् वपेद् अन्यत्[क्.अन्यान्]।
पुन्नाग^अशोक^अरिष्ट^बकुल^पनसान् शमी^शालौ॥

52.86

शस्तौषधिद्रुमलता मधुरा सुगन्धा
स्निग्धा समा न सुषिरा च मही नराणाम्।
अप्यध्वनि श्रमविनोदम् उपागतानां
धत्ते श्रियं किम् उत शाश्वतमन्दिरेषु॥

52.87

सचिवालये +अर्थनाशो धूर्तगृहे सुतवधः समीपस्थे।
उद्वेगो देवकुले चतुष्पदे[क्.ऊ.चतुष्पथे] भवति चाकीर्तिः॥

52.88

चैत्ये भयं ग्रहकृतं वल्मीकश्वभ्रसङ्कुले विपदः।
गर्तायां तु पिपासा कूर्म^आकारे धनविनाशः॥

52.89

उदगादिप्लवम् इष्टं विप्रादीनां प्रदक्षिणेनैव।
विप्रः सर्वत्र वसेद् अनुवर्णम् अथ^इष्टम् अन्येषाम्॥

52.90

गृहमध्ये हस्तमितं खात्वा परिपूरितं पुनः श्वभ्रम्।
यद्य् ऊनम् अनिष्टं तत् समे समं धन्यम् अधिकं यत्॥

52.91

श्वभ्रम् अथ वा^अम्बुपूर्णं पदशतम् इत्वा^आगतस्य यदि न^ऊनम्।
तद् धन्यं यच् च भवेत् पलान्य् अपाम् आढकं चतुःषष्टिः॥

52.92

आमे वा मृत्पात्रे श्वभ्रस्थे दीपवर्तिर् अभ्यधिकम्।
ज्वलति दिशि यस्य शस्ता सा भूमिस् तस्य वर्णस्य॥

52.93

श्वभ्रोषितं न कुसुमं यस्य[क्.यस्मिन्] प्रम्लायते +अनुवर्णसमम्।
तत्तस्य भवति शुभदं यस्य च यस्मिन् मनो रमते॥

52.94

सित^रक्त^पीत^कृष्णा विप्रादीनां प्रशस्यते भूमिः।
गन्धश् च भवति यस्यां[क्.यस्या] घृतरुधिरान्नाद्यमद्यसमः॥

52.95

कुश^युक्ता शर^बहुला दूर्वा^काश^आवृता क्रेमेण मही।
*ह्य् अनुवर्णं[क्.अनुवर्णम्] वृद्धिकरी मधुर^कषाय^अम्ल^कटुका च॥

52.96

कृष्टां प्ररूढबीजां गो +अध्युषितां ब्राह्मणैः प्रशस्तां च।
गत्वा महीं गृहपतिः काले साम्वत्सरोद्दिष्टे॥

52.97

भक्ष्यैर् नानाकारैर् दध्य्^अक्षत^सुरभि^कुसुम^धूपैश् च।
दैवतपूजां कृत्वा स्थपतीन् अभ्यर्च्य विप्रांश् च॥

52.98

विप्रः स्पृष्ट्वा शीर्षं वक्षश् च क्षत्रियो विशाश् च^ऊरू।
शूद्रः पादौ स्पृष्ट्वा कुर्याद् रेखां गृहारम्भे॥

52.99

अङ्गुष्ठकेन कुर्यान् मध्याङ्गुल्या +अथ वा प्रदेशिन्या।
कनकमणिरजतमुक्ताद् अधिक^फल^कुसुम^अक्षतैश् च शुभम्॥

52.100

शस्त्रेण शस्त्र^मृत्युर् बन्धो लोहेन भस्मना^अग्निभयम्।
तस्कर^भयं तृणेन च काष्ठ^उल्लिखिता च राजभयम्॥

52.101

वक्रा पादालिखिता शत्रुभयक्लेशदा विरूपा च।
चर्माङ्गारास्थिकृता दन्तेन च भर्तुर्[क्.कर्तुर्] अशिवाय॥

52.102

वैरम् अपसव्यलिखिता प्रदक्षिणं सम्पदो विनिर्देश्याः।
वाचः परुषा निष्ठीवितं क्षुतं चाशुभं कथितम्॥

52.103

अर्धनिचितं कृतं वा प्रविशन् स्थपतिर् गृहे निमित्तानि।
अवलोकयेद् गृहपतिः क्व संस्थितः स्पृशति किं चाङ्गम्॥

52.104

रविदीप्ते यदि शकुनिस् तस्मिन् काले विरौति परुषरवम्[क्.परुषरवः]।
संस्पृष्टाङ्गसमानं तस्मिन् देशे +अस्थि निर्देश्यम्॥

52.105

शकुन^समये +अथ्वा +अन्ये हस्त्य्^अश्व^श्वादयो +अनुवाशन्ते।
तत्प्रभवम् अस्थि तस्मिंस् तदङ्गसम्भूतम् एव^इति॥

52.106

सूत्रे प्रसार्यमाणे गर्दभ^रावो +अस्थिशल्यम् आचष्टे।
श्व^शृगाल^लङ्घिते वा सूत्रे शल्यं विनिर्देश्यम्॥

52.107

दिशि शान्तायां शकुनिर्[क्.शकुनो] मधुरविरावी यदा तदा वाच्यः।
अर्थस् तस्मिन् स्थाने गृहेश्वराधिष्ठिते +अङ्गे वा॥

52.108

सूत्रच्छेदे मृत्युः कीले च^अवाङ्मुखे महगः[क्.महान् रोगः]।
गृहनाथस्थपतीनां स्मृति^लोपे मृत्युर् आदेश्यः॥

52.109

स्कन्धाच् च्युते शिरोरुक् कुलोपसर्गो +अपवर्जिते कुम्भे।
भग्ने +अपि च कर्मिवधश् च्युते कराद् गृहपतेर् मृत्युः॥

52.110

दक्षिणपूर्वे कोणे कृत्वा पूजां शिलां न्यसेत् प्रथमम्[क्.प्रथमाम्]।
शेषाः प्रदक्षिणेन स्तम्भाश् च^एवं समुत्थाप्य[क्.समुत्थाप्याः]॥

52.111

छत्र^स्रग्^अम्बर^युतः कृत^धूप^विलेपनः समुत्थाप्यः।
स्तम्भस् तथ^एव कार्यो द्वार^उच्छ्रायः प्रयत्नेन॥

52.112

विहग^आदिभिर् अवलीनैर् आकम्पित^पतित^दुःस्थितैश् च तथा[क्.फलम्]।
शक्रध्वज^*सदृशफलं तद् एव तस्मिन्[क्.सदृशं तस्मिंश् च शुभं] विनिर्दिष्टम्॥

52.113

प्रागुत्तर^उन्नते धनसुतक्षयः सुतवधश् च दुर्गन्धे।
वक्रे बन्धुविनाशो न सन्ति गर्भाश् च दिन्^मूढे॥

52.114

इच्छेद् यदि गृह^वृद्धिं ततः समन्ताद् विवर्धयेत् तुल्यम्।
एक^उद्देशे दोषः प्राग् अथ वा +अप्य् उत्तरे कुर्यात्॥

52.115

प्राग् भवति मित्रवैरं मृत्युभयं दक्षिणेन यदि वृद्धिः।
अर्थविनाशः पश्चाद् उदग्^विवृद्धिर्[क्.उदग्^विवृद्धौ] मनस्तापः॥

52.116

ऐशान्यां देवगृहं महानसं यदि च^अपि कार्यम् आग्नेय्याम्।
नैरृत्यां भाण्ड^उपस्करो +अर्थधान्यानि मारुत्याम्॥

52.117

प्राच्यादिस्थे सलिले सुतहानिः शिखि^भयं रिपुभयं च।
स्त्रीकलहः स्त्रीदौष्ट्यं नैःस्व्यं वित्तात्मज^विवृद्धिः॥

52.118

खग^निलय^भग्न^संशुष्क^दग्ध^देवालय^श्मशान^स्थान्।
क्षीरतरु^धव^विभीतक^निम्ब^अरणि^*वर्जितान् छिन्द्यात्[क्.वर्जितांश् च्छिन्द्यात्]॥

52.119

रात्रौ कृतबलिपूजं प्रदक्षिणं छेदयेद् दिवा वृक्षम्।
धन्यम् उदक्प्राक्पततं न ग्राह्यो +अतो +अन्यथा पतितः॥

52.120

छेदो यद्य् अविकारी ततः शुभं दारु तद्^गृहौपयिकम्।
पीते तु मण्डले निर्दिशेत् तरोर् मध्यगां गोधाम्॥

52.121

मञ्जिष्ठाभे भेको नीले सर्पस् तथा+अरुणे सरटः।
मुद्गाभे +अश्मा कपिले तु मूषको +अम्भश् च खड्गाभे॥

52.122

धान्य^गो^गुरु^हुताश^सुराणां न स्वपेद् उपरि नाप्य् अनुवंशम्।
न^उत्तरापरशिरा न च नग्नो नैव चार्द्रचरणः श्रियम् इच्छन्॥

52.123

भूरिपुष्प^विकरं[क्.निकरं] सतोरणं तोयपूर्णकलश^उपशोभितम्।
धूपगन्ध^बलिपूजितामरं ब्राह्मणध्वनियुतं विशेद् गृहम्॥
53 दकार्गलाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc