भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 51

51.01

सित^रक्त^पीत^कृष्णा विप्रादीनां क्रमेण पिटका ये।
ते क्रमशः प्रोक्तफला वर्णानां *न^अग्रजातानाम्[क्.अग्रजादीनाम्]॥

51.02

सुस्निग्ध^व्यक्त^शोभाः शिरसि धनचयं मूर्ध्नि सौभाग्यम् आराद्
दौर्भाग्यं भ्रूयुगोत्थाः प्रियजन^घटनाम् आशु दुःशीलतां च।
तन्मध्योत्थाश् च शोकं नयनपुटगता नेत्रयोर् इष्टदृष्टिं
प्रव्रज्यां शङ्खदेशे +अश्रुजलनिपतन^*स्थानगा रान्ति चिन्ताम्[क्.स्थानगाश् च अतिचिन्ताम्]॥

51.03

घ्राणा^गण्डे वसनसुतदाश् च^ओष्ठयोर् अन्नलाभं
कुर्युस् तद्वच् चिबुकतलगा भूरि वित्तं ललाटे।
हन्वोर् एवं गलकृतपदा भूषणान्य् अन्नपाने
श्रोत्रे *षड्भूतण[क्.ऊ.तद्भूषण]गणम् अपि ज्ञानम् आत्मस्वरूपम्॥

51.04

शिरः^सन्धि^ग्रीवा^हृदय^कुच^पार्श्व^उरसि गता
अयोघातं घातं सुत^तनय^लाभं शुचम् अपि।
प्रियप्राप्तिं स्कन्धे +अप्य् अटनम् अथ भिक्षार्थम् असकृद्
विनाशं कक्षोत्था विदधति धनानां *बहुमुखम्[क्.बहुसुखम्]॥

51.05

दुःख^शत्रुनिचयस्य *विनाशं[क्.विघातं] पृष्ठ^बाहु^युगजा रचयन्ति।
संयमं च मणिबन्धन^जाता भूषण^आद्यम् उपबाहु^युग्^उत्थाः॥

51.06

धनाप्तिं सौभाग्यं शुचम् अपि कर^अङ्गुल्य्^उदरगाः
सुपानान्नं नाभौ तदध इह चौरैर् धनहृतिम्।
धनं धान्यं बस्तौ युवतिम् अथ मेढ्रे सुतनयान्
धनं सौभाग्यं वा गुद^वृषणजाता विदधति॥

51.07

ऊर्वोर् यान^अङ्गना^लाभं जान्वोः शत्रुजनात् क्षतिम्।
शस्त्रेण जङ्घयोर् गुल्फे +अध्व^बन्ध^क्लेशदायिनः॥

51.08

स्फिक्^पार्ष्णि^पाद^जाता धननाश^अगम्यगमनम् अध्वानम्॥
बन्धनम् अङ्गुलिनिचये +अङ्गुष्ठे च ज्ञातिलोकतः पूजाम्॥

51.09

उत्पात^गण्ड^पिटका दक्षिणतो वामतस् त्व् अभीघाताः।
धन्या भवन्ति पुंसां तद्^विपरीताश् *च[क्.तु] नारीणाम्॥

51.10

इति पिटकविभागः प्रोक्त आमूर्धतो +अयं
व्रण^तिलक^विभागो +अप्य् एवम् एव प्रकल्प्यः।
भवति मशक^लक्ष्म^आवर्तजन्म^अपि तद्वन्
निगदितफलकारि प्राणिनां देह^संस्थम्॥
52 वास्तुविद्या

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc