बृहत्संहिता · अध्याय 50
दैवज्ञेन शुभ^अशुभं दिग्^उदित^स्थान^आहृतान् ईक्षता
वाच्यं प्रष्टृ^निज^अपर^अङ्ग^घटनां च^आलोक्य कालं धिया।
सर्वज्ञो हि चर^अचर^आत्मकतया^असौ सर्वदर्शो विभुश्
चेष्टा^व्याहृतिभिः शुभ^अशुभ^फलं सन्दर्शयत्य् अर्थिनाम्॥
स्थानं पुष्प^सुहासि^भूरि^फलभृत्^सुस्निग्ध^कृत्ति^च्छद^
असत्पक्षि^च्युत^शस्तसंज्ञित^तरु^च्छाय^उपगूढं समम्।
देव^ऋषि^द्विज^साधु^सिद्ध^निलयं सत्पुष्प^सस्य^उक्षितम्
सत्स्वादु^उदक^निर्मलत्व^जनित^आह्लादं च *सच्छाद्वलम्[क्.सच्छाड्वलम्]॥
छिन्न^भिन्न^कृमि^खात^कण्टकि^प्लुष्ट^रूक्ष^कुटिलैर् न सत् कुजैः।
क्रूर^पक्षि^युत^निन्द्यनामभिः शुष्क^शीर्ण^बहु^पर्ण^*चर्मभिः[क्.वर्मभिः]॥
श्मशान^शून्यायतनं चतुष्पथं
तथा^+अमनोज्ञं विषमं सद^ऊषरम्।
अवस्कर^अङ्गार^कपाल^भस्मभिश्
चितं तुषैः शुष्कतृणैर् नशोभनम्॥
प्रव्रजित^नग्न^नापित^रिपु^बन्धन^*सौनिकैस्[क्.सूनिकैस्] तथा श्वपचैः।
कितव^यति^पीडितैर् युतम् आयुध^माध्वीक^विक्रयैर् न शुभम्॥
प्राग्^उत्तर^ईशाश् च दिशः प्रशस्ताः
प्रष्टुर् न वाय्व्^अम्बु^यमाग्नि^रक्षः।
पूर्वाह्नकाले +अस्ति शुभं न रात्रौ
सन्ध्याद्वये प्रश्नकृतो +अपराह्णे॥
यात्राविधाने हि शुभ^अशुभं यत्
प्रोक्तं निमित्तं तद् इहापि वाच्यम्।
दृष्ट्वा पुरो वा जनताहृतं वा
प्रष्टुः स्थितं पाणितले +अथ वस्त्रे॥
अथ^अङ्गान्य् ऊरू^ओष्ठ^स्तन^वृषण^पादं च दशना
भुजौ हस्तौ गण्डौ कच^गल^नख^अङ्गुष्ठम् अपि यत्।
स^शङ्खं *कक्ष^अंसं श्रवण[क्.कषांसश्रवण]^गुद^सन्धि^इति पुरुषे
स्त्रियां भ्रू^नासा^स्फिग्^वलि^कटि^सुलेखा^अङ्गुलिचयम्॥
जिह्वा ग्रीवा पिण्डिके पार्ष्णियुग्मं
जङ्घे नाभिः कर्णपाली कृकाटी।
वक्त्रं पृष्ठं जत्रु^जानु^अस्थि^पार्श्वं
हृत्^तालु^अक्षी मेहन^उरस्^त्रिकं च॥
नपुंसक^आख्यं च शिरो ललाटम् आश्व् आद्य^संज्ञैर् अपरैश् चिरेण।
सिद्धिर् भवेज् जातु नपुंसकैर् नो रूक्ष^क्षतैर् भग्न^कृशैश् च पूर्वैः॥
स्पृष्टे वा चालिते वा^अपि पाद^अङ्गुष्ठे +अक्षि^रुग् भवेत्।
अङ्गुल्यां दुहितुः शोकं शिरोघाते नृपाद् भयम्॥
विप्रयोगम् उरसि स्वगात्रतः कर्पटाहृतिर् अनर्थदा भवेत्।
स्यात् प्रियाप्तिर् अभिगृह्य कर्पटं पृच्छतश् चरणपादयोजितुः॥
पाद^अङ्गुष्ठेन विलिखेद् भूमिं क्षेत्र^उत्थचिन्तया।
हस्तेन पादौ कण्डूयेत् तस्य *दासीमयी[क्.दासीमया] च सा॥
ताल^भूर्ज^पट^दर्शने +अंशुकं चिन्तयेत् कच^तुष^अस्थि^भस्मगम्।
व्याधिर् आश्रयति रज्जु^जालकं वल्कलं च समवेक्ष्य बन्धनम्॥
पिप्पली^मरिच^शुण्ठि^वारिदै रोध्र^कुष्ठ^वसन^अम्बु^जीरकैः।
गन्ध^मांसि^शतपुष्पया वदेत् पृच्छतस् तगरकेण *चिन्तयेत्[क्.चिन्तनम्]॥
स्त्री^पुरुष^दोष^पीडित^सर्व^*अर्थ[क्.अध्व]^सुत^अर्थ^धान्य^तनयानाम्।
द्विचतुष्पद^क्षितीनां विनाशतः कीर्तितैर् दृष्टैः॥
न्यग्रोध^मधुक^तिन्दुक^जम्बू^प्लक्ष^आम्र^*बदर[क्.बदरि]^जातिफलैः।
धन^कनक^पुरुष^लोह^अंशुक^रूप्य^*औदुम्बर^आप्तिर्[क्.उदुम्बराप्तिर्] अपि करगैः॥
धान्य^परिपूर्ण^पात्रं कुम्भः पूर्णः कुटुम्ब^वृद्धिकरौ।
गज^गो^शुनां पुरीषं धन^युवति^सुहृद्^विनाशकरम्॥
पशु^हस्ति^महिष^पङ्कज^रजत^व्याघ्रैर् लभेत सन्दृष्टैः।
अवि^धन^निवसन^मलयज^कौशेय^आभरण^सङ्घातम्॥
पृच्छा वृद्ध^श्रावक^सुपरिव्राड्^दर्शने नृभिर् विहिता।
मित्र^द्यूतार्थ^भवा गणिका^नृप^सूतिका^अर्थकृता॥
शाक्य^उपाध्याय^*अर्हत्[क्.आर्हत]^*निर्ग्रन्थि[क्.निर्ग्रन्थ]^निमित्त^निगम^कैवर्तैः।
चौर^चमूपति^वणिजां दासी^योध^आपणस्थ^वध्यानाम्॥
तापसे शौण्डिके दृष्टे प्रोषितं पशुपालनम्।
हृद्गतं *प्रच्छकस्य[क्.पृच्छकस्य] स्याद् उञ्छवृटौ विपन्नता॥
इच्छामि प्रष्टुं भण पश्यत्व् आर्यः समादिश^इत्य् उक्ते॥
संयोग^कुटुम्ब^उत्था लाभ^ऐश्वर्य^उद्गता चिन्ता॥
निर्दिश^इति गदिते *जय^अध्वजा[क्.जयाध्वगा]
प्रत्यवेक्ष्य मम चिन्तितं वद।
आशु सर्वजनमध्यगं त्वया
दृश्यताम् इति च बन्धु^चौरजा॥
अन्तःस्थे +अङ्गे स्वजन उदितो बाह्यजे बाह्य *एव[क्.एवम्]
पाद^अङ्गुष्ठ^अङ्गुलिकलनया दासदासीजनः स्यात्।
जङ्घे प्रेष्यो भवति भगिनी नाभितो हृत्स्वभार्या
पाण्यङ्गुष्ठ^अङ्गुलिचय^कृतस्पर्शने पुत्रकन्ये॥
मातरं जठरे मूर्ध्नि गुरुं दक्षिणवामकौ।
बाहू भ्राता^अथ तत्पत्नी स्पृष्ट्वा^एवं चौरम् आदिशेत्॥
अन्तर्^अङ्गम् अवमुच्य बाह्य^ग^स्पर्शनं यदि करोति पृच्छकः।
श्लेष्म^मूत्र^शकृतस् *त्यजन्त्य् अथो[क्.त्यजन्नधः] पातयेत् कर^तल^स्थ^वस्तु चेत्॥
भृशम् अवनामित^अङ्ग^परिमोटनतो +अप्य् अथ वा
जन^धृत^रिक्त^भाण्डम् अवलोक्य च चौरजनम्।
हृत^पतित^क्षत^अस्मृत^विनष्ट^भग्न^गत^
उन्मुषित^मृत^आद्य्^अनिष्ट^रवतो लभते न हृतम्॥
निगदितम् इदं यत्^तत् सर्वं तुष^अस्थि^विष^आदिकैः
सह मृतिकरं पीडा^अर्तानां समं रुदित^*क्षतैः[क्.क्षुतैः]।
अवयवम् अपि स्पृष्ट्वा^अन्तःस्थं दृढं मरुद् आहरेद्
अतिबहु तदा भुक्त्वा^अन्नं संस्थितः सुहितो वदेत्॥
ललाटस्पर्शनात्^शूकदर्शनात्^शालिजौदनम्।
उरःस्पर्शात् षष्टिक^*आख्यं[क्.अन्नम्] ग्रीवा^स्पर्शे च यावकम्॥
कुक्षि^कुच^जठर^जानु^स्पर्शे माषाः पयस्^तिल^यवाग्वः।
*आस्वादयते[क्.आस्वादयतश्] च^ओष्ठौ लिहते मधुरं रसं ज्ञेयम्॥
*विसृक्के[क्.विस्पृक्के] स्फोटयेज् जिह्वाम् आम्ले वक्त्रं विकूणयेत्।
*कटुके +अथ कषाये +अथ[क्.कटुतिक्तकषायोष्णैर्] हिक्केत् ष्ठीवेच् च सैन्धवे॥
श्लेष्मत्यागे शुष्क^तिक्तं तद् अल्पं
श्रुत्वा क्रव्यादं वा प्रेक्ष्य वा मांसमिश्रम्।
भ्रू^गण्ड^ओष्ठ^स्पर्शने शाकुनं तद्^
भुक्तं तेन^इत्य् उक्तम् एतन् निमित्तम्॥
मूर्ध^गल^केश^हनु^शङ्ख^कर्ण^जङ्घं वस्तिं च स्पृष्ट्वा।
गज^महिष^मेष^शूकर^गो^शश^मृग^*महिष[क्.ओमित्तेद्]^मांसयुग् भुक्तम्॥
दृष्टे श्रुते +अप्य् अशकुने गोधा^मत्स्य^आमिषं वदेद् भुक्तम्।
गर्भिण्या गर्भस्य च निपतनम् एवं प्रकल्पयेत् प्रश्ने॥
पुं^स्त्री^नपुंसक^आख्ये दृष्टे +अनुमिते पुरःस्थिते स्पृष्टे।
तज्जन्म भवति पान^अन्न^पुष्प^फल^दर्शने च शुभम्॥
अङ्गुष्ठेन भ्रू^उदरं वा^अङ्गुलिं वा
स्पृष्ट्वा पृच्छेद् गर्भ^चिन्ता तदा स्यात्।
मध्व्^आज्याद्यैर् हेम^रत्न^प्रवालैर्
अग्रस्थैर् वा मातृ^धात्र्य्^आत्मजैश् च॥
गर्भयुता जठरे करगे स्याद्
दुष्ट^निमित्त^वशात् तदुदासः।
कर्षति तज्जठरं यदि पीठ^
उत्पीडनतण् करगे च करे +अपि॥
घ्राणाया दक्षिणे द्वारे स्पृष्टे मासोत्तरं वदेत्।
वामे *+अब्दौ[क्.द्वौ] कर्ण एवं मा द्विचतुर्घ्नः श्रुतिस्तने॥
वेणीमूले त्रीन् सुतान् कन्यके द्वे
कर्णे पुत्रान् पञ्च हस्ते त्रयं च।
अङ्गुष्ठान्ते पञ्चकं चानुपूर्व्या
पाद^अङ्गुष्ठे पार्ष्णियुग्मे +अपि कन्याम्॥
सव्य^असव्य^ऊरुसम्स्पर्शे सूते कन्या^सुत^द्वयम्।
स्पृष्टे ललाट^मध्य^अन्ते चतुस्^त्रि^तनया भवेत्॥
शिरो^ललाट^भ्रू^कर्ण^गण्डं हनु^रदा गलम्
सव्य^अपसव्य^स्कन्धश् च हस्तौ चिबुक^नालकम्॥
उरः कुचं दक्षिणम् अप्य् असव्यं
हृत्^पार्श्वम् एवं जठरं कटिश् च।
स्फिक्^पायु^सन्धि^ऊरुयुगं च जानू
जङ्घे +अथ पादाव् इति कृत्तिका^आदौ॥
इति निगदितम् एतद् गात्र^संस्पर्श^लक्ष्म
प्रकटम् अभिमताप्त्यै वीक्ष्य शास्त्राणि सम्यक्।
विपुलमतिर् उदारो वेत्ति यः सर्वम् एतन्
नरपतिजनताभिः पूज्यते +असौ सदैव॥
51 पिटकलक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0