बृहत्संहिता · अध्याय 49
अङ्गुल^शतार्धम् उत्तम ऊनः स्यात् *पञ्चविंशतिः[क्.पञ्चविंशतिं] खड्गः।
अङ्गुलमानाज् ज्ञेयो व्रणो +अशुभो विषम^पर्वस्थः॥
श्रीवृक्ष^वर्धमान^आतपत्र^शिवलिङ्ग^कुण्डल^अब्जानाम्।
सदृशा व्रणाः प्रशस्ता ध्वज^आयुध^स्वस्तिकानां च॥
कृकलास^काक^कङ्क^क्रव्याद^कबन्ध^वृश्चिक^आकृतयः।
खड्गे व्रणा न शुभदा वंशानुगताः प्रभूताश् च॥
स्फुटितो ह्रस्वः कुण्ठो वंशच्छिन्नो न दृग्^मनो +अनुगतः।
अस्वन इति चानिष्टः प्रोक्तविपर्यस्त इष्टफलः॥
क्वणितं मरणाय^उक्तं पराजयाय प्रवर्तनं कोशात्।
स्वयम् उद्गीर्णे युद्धं ज्वलिते विजयो भवति खड्गे॥
नाकारणं विवृणुयान् न विघट्टयेच् च
पश्येन् न तत्र वदनं न वदेच् च मूल्यम्।
देशं न चास्य कथयेत् प्रतिमानयेन् न
नैव स्पृशेन् नृपतिर् अप्रयतो +असियष्टिम्॥
गोजिह्वा^संस्थानो नीलोत्पल^वंश^पत्र^सदृशश् च।
करवीर^पत्र^शूल^अग्र^मण्डल^अग्राः प्रशस्ताः स्युः॥
निष्पन्नो न छेद्यो निकषैः कार्यः प्रमाणयुक्तः सः।
मूले म्रियते स्वामी जननी तस्याग्रतश् छिन्ने॥
यस्मिन् त्सरुप्रदेशे व्रणो भवेत् तद्वद् एव खड्गस्य।
वनितानाम् इव तिलको गुह्ये वाच्यो मुखे दृष्ट्वा॥
अथ वा स्पृशति यदङ्गं प्रष्टा निस्त्रिंशभृत् तदवधार्य।
कोशस्थस्य^आदेश्यो व्रणो +अस्ति शास्त्रं विदित्वेदम्॥
शिरसि स्पृष्टे प्रथमे +अङ्गुले द्वितीये ललाटसंस्पर्शे।
भ्रूमध्ये च तृतीये नेत्रे स्पृष्टे चत्रुथे च॥
*नास^औष्ठ[क्.नासोष्ठ]^कपोल^हनु^श्रवण^ग्रीव^*अंसके च[क्.अंसकेषु] पञ्चाद्याः।
उरसि द्वादशसंस्थस् त्रयोदशे कक्षयोर् ज्ञेयः॥
स्तन^हृदय^उदर^*कुक्षि^नाभौ[क्.कुक्षिनाभीषु] तु चतुर्दशादयो ज्ञेयाः।
नाभिमूले कट्यां गुह्ये च^एकोनविंशतितः॥
ऊर्वोर् द्वाविंशे स्याद् ऊर्वोर् मध्ये व्रणस् त्रयोविंशे।
जानुनि च चतुर्विंशे जङ्घायां पञ्चविंशे च॥
जङ्घामध्ये गुल्फे पार्ष्ण्यां पादे तदङ्गुलीष्व् अपि च।
षड्विंशतिकाद् यावत् त्रिंशद् इति मतेन गर्गस्य॥
पुत्रमरणं धनाप्तिर् धनहानिः सम्पदश् च बन्धश् च।
एकाद्यङ्गुलसंस्थैर् व्रणैः फलं निर्दिशेत् क्रमशः॥
सुतलाभः कलहो हस्ति^लब्धयः पुत्रमरण^धनलाभौ।
क्रमशो विनाश^वनिताप्ति^चित्तदुःखानि षट्प्रभृति॥
लब्धिर् *हानिः स्त्रीलब्धयो[क्.हानिस्त्रीलब्धयो] बधो वृद्धि^मरण^परितोषाः।
ज्ञेयाश् चतुर्दशादिषु धनहानिश् चैकविंशे स्यात्॥
वित्ताप्तिर् अनिर्वाणं धन^आगमो मृत्यु^सम्पदो +अस्वत्वम्।
ऐश्वर्य^मृत्यु^राज्यानि च क्रमात् त्रिंशद् इति यावत्॥
परतो न विशेषफलं विषमसमस्थास् तु पापशुभफलदाः।
कैश् चिद् अफलाः प्रदिष्टास् त्रिंशत्परतो +अग्रम् इति यावत्॥
करवीर^उत्पल^गज^मद^घृत^कुङ्कुम^कुन्द^चम्पक^सगन्धः।
शुभदो +अनिष्टो गोमूत्र^पङ्क^मेदः^सदृश^गन्धः॥
कूर्म^वसा^असृक्^क्षार^उपमश् च भय^दुःखदो भवति गन्धः।
वैदूर्य^कनक^विद्युत्^प्रभो जय^आरोग्य^वृद्धिकरः॥
इदम् औशनसं च शस्त्र^पानं
रुधिरेण श्रियम् इच्छतः प्रदीप्ताम्।
हविषा गुणवत्^सुत^अभिलिप्सोः
सलिलेन^अक्षयम् इच्छतश् च वित्तम्॥
वडवा^उष्ट्र^करेणु^दुग्ध^पानं
यदि पापेन समीहते +अर्थसिद्धिम्।
झष^पित्त^मृग^अश्व^बस्त^दुग्धैः
करि^हस्त^च्छिदये सताल^गर्भैः॥
आर्कं पयो हुडुविषाण^मषी^समेतं
पारावत^आखु^शकृता च *युतः[क्.युतं] प्रलेपः।
शस्त्रस्य तैलमथितस्य ततो +अस्य पानं
पश्चात्^शितस्य न शिलासु भवेद् विघातः॥
क्षारे कदल्या मथितेन युक्ते
दिन^उषिते पायितम् आयसं यत्।
सम्यक् शितं च^अश्मनि नैति भङ्गं
न च^अन्यलोहेष्व् अपि तस्य कौण्ठ्यम्॥
50 अङ्गविद्याध्याय
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0