बृहत्संहिता · अध्याय 5
अमृत^आस्वाद^विशेषाच् च्छिन्नम् अपि शिरः किल^असुरस्य^इदम्।
प्राणैर् अपरित्यक्तं ग्रहतां यातं वदन्त्य् एके॥
इन्दु^अर्क^मण्डल^आकृतिर् असितत्वात् किल न दृश्यते गगने।
अन्यत्र पर्व^कालाद् वर^प्रदानात् कमलयोनेः॥
मुख^पुच्छ^विभक्त^अङ्गं भुजङ्गम् आकारम् उपदिशन्त्य् अन्ये।
कथयन्त्य् अमूर्तम् अपरे तमो^मयं सैंहिकेय^आख्याख्यम्॥
यदि मूर्तो भविचारी शिरो +अथ वा भवति मण्डली राहुः।
भगण^अर्धेन^*अन्तरितौ[क्.अन्तरितो] गृह्णाति कथं नियत^चारः॥
अनियत^चारः खलु चेद् उपलब्धिः संख्यया कथं तस्य।
पुच्छ^आनन^अभिधानो +अन्तरेण कस्मान् न गृह्णाति॥
अथ तु भुजगेन्द्र^रूपः पुच्छेन मुखेन वा स गृह्णाति।
मुख^पुच्छ^अन्तर^संस्थं स्थगयति कस्मान् न भगण^अर्धम्॥
राहु^द्वयं यदि स्याद् ग्रस्ते +अस्तमिते +अथ वा^उदिते चन्द्रे।
तत्समगतिना^अन्येन ग्रस्तः सूर्यो +अपि दृश्यते॥
भू^च्छायां स्व^ग्रहणे भास्करम् अर्क^ग्रहे प्रविशति^इन्दुः।
प्रग्रहणम् अतः पश्चान् न^इन्दोर् भानोश् च पूर्व^अर्धात्॥
वृक्षस्य स्वच्छाया यथा^*एकपार्श्वे[क्.एकपार्श्वेन] भवति *दीर्घचया[क्.दीर्घा च]।
निशि निशि तद्वद् भूमेर् आवरण^वशाद् दिनेशस्य॥
सूर्यात् सप्तम^राशौ यदि च^उदग्^दक्षिणेन न^अतिगतः।
चन्द्रः पूर्व^अभिमुखश् छायाम् और्वीम् तदा विशति॥
चन्द्रो +अधःस्थः स्थगयति रविम् अम्बुदवत् समागतः पश्चात्।
प्रतिदेशम् अतश् चित्रं दृष्टि^वशाद् भास्कर^ग्रहणम्॥
आवरणं महद् इन्दोः कुण्ठ^विषाणस् ततो +अर्ध^संच्छन्नः।
स्वल्पम् रवेर् यतो +अतस् तीक्ष्ण^विषाणो रविर् भवति॥
एवम् उपराग^कारणम् उक्तम् इदं दिव्य^दृग्भिर् आचार्यैः।
राहुर् अकारणम् अस्मिन्न् इत्य् उक्तः शास्त्र^सद्भावः॥
यो +असौ^असुरो राहुस् तस्य वरो ब्रह्मणा +अयम् आज्ञप्तः।
आप्यायनम् उपरागे दत्त^हुतांशेन ते भविता॥
तस्मिन् काले सान्निध्यम् अस्य तेन^उपचर्यते राहुः।
याम्योत्तरा शशिगतिर् गणिते +अप्य् उपचर्यते तेन॥
न कथं चिद् अपि निमित्तैर् ग्रहणं विज्ञायते निमित्तानि।
अन्यस्मिन्न् अपि काले भवन्त्य् अथ^उत्पात^रूपाणि॥
पञ्चग्रह^संयोगान् न किल ग्रहणस्य सम्भवो भवति।
तैलं च जले +अष्टम्यां न विचिन्त्यम् इदं विपश्चिद्भिः॥
अवनत्या +अर्के ग्रासो दिग्^ज्ञेया वलनया^अवनत्या च।
तिथ्य्^अवसानाद् वेला करणे कथितानि तानि मया॥
षण्मास^उत्तर^वृद्ध्या पर्वेशाः सप्त देवताः क्रमशः।
ब्रह्म^शशि^इन्द्र^कुबेरा वरुण^अग्नि^यमाश् च विज्ञेयाः॥
ब्राह्मे द्विज^पशु^*वृद्धिः क्षेम^आरोग्याणि[क्.वृद्धिक्षेमारोग्याणि] सस्य^सम्पत्^च।
तद्वत् सौम्ये तस्मिन् पीडा विदुषाम् अवृष्टिश् च॥
ऐन्द्रे भूप^विरोधः शारद^सस्य^क्षयो न च क्षेमम्।
कौबेरे +अर्थ^पतीनाम् अर्थ^विनाशः सुभिक्षं च॥
वारुणम् अवनीश^अशुभम् अन्येषां क्षेम^सस्य^वृद्धि^करम्।
आग्नेयं मित्र^आख्यं सस्य^आरोग्य^अभय^अम्बु^करम्॥
याम्यं करोत्य् अवृष्टिं दुर्भिक्षं संक्षयं च सस्यानाम्।
यद् अतः परं तद् अशुभं क्षुत्^मार^अवृष्टिदं पर्व॥
वेलाहीने पर्वणि गर्भ^विपत्तिश् च शस्त्र^कोपश् च।
अतिवेले कुसुम^फल^क्षयो भयं सस्य^नाशश् च॥
हीन^अतिरिक्त^काले फलम् उक्तं पूर्व^शास्त्र^दृष्टत्वात्।
स्फुट^गणित^विदः कालः कथञ् चिद् अपि न^अन्यथा भवति॥
यद्य् एकस्मिन् मासे ग्रहणं रवि^सोमयोस् तदा क्षितिपाः।
स्वबल^क्षोभैः संक्षयम् आयान्त्य् अतिशस्त्र^कोपश् च॥
ग्रस्ताव् उदित^अस्तमितौ शारद^धान्य^अवनीश्वर^क्षयदौ।
सर्व^ग्रस्तौ दुर्भिक्ष^मरकदौ पाप^सन्दृष्टौ॥
अर्ध^उदित^उपरक्तो नैकृतिकान् हन्ति सर्वयज्ञांश् च।
अग्न्य्^उपजीवि^गुण^अधिक^विप्र^आश्रमिणो *युगे +अभ्युदितः[क्.अयुगाभ्युदितः]॥
कर्षक^*पाखण्डि[क्.पाषण्डि]^वणिक्^क्षत्रिय^बल^नायकान् *द्वितीयांशे[क्.द्वितीये +अंशे]।
कारुक^शूद्र^म्लेच्छान् ख^तृतीयाम्शे समन्त्रिजनान्॥
मध्य^अह्ने नरपति^मध्यदेशहा शोभनश् च धान्य^अर्घः।
तृणभुग्^अमात्य^अन्तःपुर^वैश्यघ्नः पञ्चमे खांशे।
स्त्री^शूद्रान् षष्ठे +अंशे दस्यु^प्रत्यन्तहा^अस्तमय^काले।
यस्मिन् खांशे मोक्षस् तत्^प्रोक्तानां शिवं भवति॥
द्विज^नृपतीन् उदगयने विट्^शूद्रान् दक्षिणायने हन्ति।
राहुर् उदग्^आदिदृष्टः प्रदक्षिणं हन्ति विप्र^आदीन्॥
म्लेच्छान् विदिक्स्थितो यायिनश् च हन्याद् धुताश^सक्तांश् च।
सलिल^चर^दन्ति^घाती याम्येन^उदग् गवाम् अशुभः॥
पूर्वेण सलिल^पूर्णां करोति वसुधां समागतो दैत्यः।
पश्चात् कर्षक^सेवक^बीज^विनाशाय निर्दिष्टः॥
पाञ्चाल^कलिङ्ग^शूरसेनाः काम्बोज^उड्र^किरात^शस्त्र^वार्त्ताः।
जीवन्ति च ये हुताश^वृत्त्या ते पीडाम् उपयान्ति मेष^संस्थे॥
गोपाः पशवो +अथ गोमिनो मनुजा ये च महत्त्वम् आगताः।
पीडाम् उपयान्ति भास्करे ग्रस्ते शीत^करे +अथ वा वृषे॥
मिथुने प्रवर^अङ्गना नृपा नृप^मात्रा बलिनः कला^विदः।
यमुना^तटजाः सबाह्लिका मत्स्याः सुह्म^जनैः समन्विताः॥
आभीरान्^शबरान् सपह्लवान् मल्लान् मत्स्य^कुरूञ् छकान् अपि।
पाञ्चालान् विकलांश् च पीडयत्य् अन्नं च^अपि निहन्ति कर्कटे॥
सिंहे पुलिन्द^गण^मेकल^सत्त्व^युक्तान् राज^उपमान् नरपतीन् वन^गोचरांश् च।
षष्ठे तु सस्य^कवि^लेखक^गेय^सक्तान् हन्त्य् अश्मक^त्रिपुर^शालि^युतांश् च देशान्॥
तुलाधरे +अवन्त्य्^अपरान्त्य^साधून् वणिग्^दशार्णान् *मरुकच्छपांश्[क्.भरुकच्छपांश्] च।
अलिन्य् अथ^उदुम्बर^मद्र^चोलान् द्रुमान् सयौधेय^विष^आयुधीयान्॥
धन्विन्य् अमात्य^वर^वाजि^विदेह^मल्लान् पाञ्चाल^वैद्य^वणिजो विषम^आयुधज्ञान्।
हन्यान् मृगे तु झष^मन्त्रि^कुलानि नीचान् मन्त्र^औषधीषु कुशलान् स्थविर^आयुधीयान्॥
कुम्भे +अन्तर्गिरिजान् सपश्चिम^जनान् भार^उद्वहांस् तस्करान् आभीरान् दरद^आर्य^सिंह^पुरकान् हन्यात् तथा बर्बरान्।(छेच्केद्)
मीने सागरकूल^सागर^जल^द्रव्याणि *वन्यान्[क्.मान्यान्] जनान् प्राज्ञान् वार्युपजीविनश् च भफलं कूर्म^उपदेशाद् वदेत्॥
सव्य^अपसव्य^लेह^ग्रसन^निरोध^अवमर्दन^आरोहाः।
आघ्रातं मध्यतमस् तमो +अन्त्य इति ते दश ग्रासाः॥
सव्यगते तमसि जगज्^जलप्लुतं भवति मुदितम् अभयं च।
अपसव्ये नरपति^तस्कर^अवमर्दैः प्रजानाशः॥
*जिह्व^उपलेढि[क्.जिह्वेवलेढि] परितस् तिमिर^नुदो मण्डलं यदि स लेहः।
प्रमुदित^समस्त^भूता प्रभूत^तोया च तत्र मही॥
ग्रसनम् इति यदा त्र्यंशः पादो वा गृह्यते +अथ वा^अप्य् अर्धम्।
स्फीत^नृप^वित्त^हानिः पीडा च स्फीत^देशानाम्॥
पर्यन्तेषु गृहीत्वा मध्ये पिण्डीकृतं तमस् तिष्ठेत्।
स निरोधो विज्ञेयः प्रमोद^कृत् सर्वभूतानाम्॥
अवमर्दनम् इति निःशेषम् एव सञ्छाद्य यदि चिरं तिष्ठेत्।
हन्यात् प्रधान^भूपान् *प्रधान^देशांश्[क्.प्रधानदेशान् प्रधानभूपांश्] च तिमिर^मयः॥
वृत्ते ग्रहे यदि तमस् तत्क्षणम् आवृत्य दृश्यते भूयः।
आरोहणम् इत्य् अन्योन्य^मर्दनैर् भय^करं राज्ञाम्॥
दर्पण इव^एकदेशे *सबाष्प[क्.सवाष्प]^निःश्वास^मारुत^उपहतः।
दृश्येत^आघ्रातं तत् सुवृष्टि^वृद्ध्य्^आवहं जगतः॥
मध्ये तमः प्रविष्टं वितमस्कं मण्डलं च यदि परितः
तन्^मध्यदेश^नाशं करोति कुक्ष्य्^आमय^भयं च॥
पर्यन्तेषु^अतिबहुलं स्वल्पं मध्ये तमस् तमोन्त्य^आख्ये।
सस्यानाम् ईति^भयं भयम् अस्मिंस् तस्कराणां च॥
श्वेते क्षेम^सुभिक्षं ब्राह्मण^पीडां च निर्दिशेद् राहौ।
अग्नि^भयम् अनल^वर्णे पीडा च हुताशवृत्तीनाम्॥
हरिते रोग^*उल्बणता[क्.उल्वणता] सस्यानाम् ईतिभिश् च विध्वंसः।
कपिले शीघ्रग^सत्त्व^म्लेच्छ^ध्वंसो +अथ दुर्भिक्षम्॥
अरुण^किरण^अनुरूपे दुर्भिक्ष^अवृष्टयो विहग^पीडा।
आधूम्रे क्षेम^सुभिक्षम् आदिशेत् मन्दवृष्टिं च॥
कापोत^अरुण^कपिल^श्यावाभे क्षुद्^भयं विनिर्देश्यम्।
कापोतः शूद्राणां व्याधि^करः कृष्ण^वर्णश् च॥
विमलक^मणि^पीत^आभो वैश्य^ध्वंसी भवेत् सुभिक्षाय।
स^अर्चिष्मत्य् अग्नि^भयं गैरिक^रूपे तु युद्धानि॥
दूर्वाकाण्ड^श्यामे हारिद्रे वा^अपि निर्दिशेत् मरकम्।
अशनि^भय^सम्प्रदायी *पाटल[क्.पाटलि]^कुसुम^उपमो राहुः॥
पांशु^विलोहित^रूपः क्षत्र^ध्वंसाय भवति वृष्टेश् च।
बाल^रवि^कमल^सुरचाप^रूप^भृत् शस्त्र^कोपाय॥
पश्यन् ग्रस्तं सौम्यो घृत^मधु^तैल^क्षयाय राज्णां च।
भौमः समर^विमर्दं शिखि^कोपं तस्कर^भयं च॥
शुक्रः सस्य^विमर्दं नाना^क्लेशांश् च जनयति धरित्र्याम्।
रविजः करोत्य् अवृष्टिं दुर्भिक्षं तस्कर^भयं च॥
यद् अशुभम् अवलोकनाभिर् उक्तं ग्रहजनितं ग्रहणे प्रमोक्षणे वा।
सुरपतिगुरुणा^अवलोकिते तत्^शमम् उपयाति जलैर् इव^अग्निर् इद्धः॥
ग्रस्ते क्रमान् निमित्तैः पुनर् ग्रहो मास^षट्क^परिवृद्ध्या।
पवन^उल्कापात^रजः क्षितिकम्प^तमो^अशनि^निपातैः॥
आवन्तिका जनपदाः कावेरी^नर्मदा^तट^आश्रयिणः।
दृप्ताश् च मनुजपतयः पीड्यन्ते क्षितिसुते ग्रस्ते॥
अन्तर्वेदीं सरयूं नेपालं पूर्वसागरं शोणम्।
स्त्री^नृप^योध^कुमारान् सह विद्वद्भिर् बुधो हन्ति॥
ग्रहण^उपगते जीवे विद्वन्^नृप^मन्त्रि^गज^हय^ध्वंसः।
सिन्धु^तट^वासिनाम् अप्य् उदग्^दिशं संश्रितानां च॥
भृगुतनये राहुगते *दाशेरक[क्.दसेरकाः]कैकयाः सयौधेयाः।
आर्यावर्त्ताः शिबयः स्त्री^सचिव^गणाश् च पीड्यन्ते॥
सौरे मरु^भव^पुष्कर*सौराष्ट्रिक[क्.सौराष्ट्रा]^धातवो +अर्बुद^अन्त्यजनाः।
गोमन्त^पारियात्र^आश्रिताश्[क्ऽस् त्र्. गोमन्तः पारियात्रा] च नाशं व्रजन्त्य् आशु॥
कार्त्तिक्याम् अनल^उपजीवि^मगधान् प्राच्य^अधिपान् कोशलान्
कल्माषान् अथ शूरसेन^सहितान् काशीश् च सन्तापयेत्।
*हन्याद्[क्.हन्याद् च] आशु कलिङ्गदेश^नृपतिं स^अमात्य^भृत्यं तमो
दृष्टं क्षत्रिय^तापदं जनयति क्षेमं सुभिक्ष^अन्वितम्॥
काश्मीरकान् कौशलकान् सपुण्ड्रान् मृगांश् च हन्याद् अपरान्तकांश् च।
ये सोमपास् तांश् च निहन्त्य् सौम्ये सुवृष्टि^कृत् क्षेम^सुभिक्ष^कृत्^च॥
पौषे द्विज^क्षत्र^जन^उपरोधः ससैन्धव^आख्याः कुकुरा विदेहाः।
ध्वंसं व्रजन्त्य् अत्र च मन्द^वृष्टिं भयं च विन्द्याद् असुभिक्ष^युतम्॥
माघे तु मातृ^पितृ^भक्त^वसिष्ठ^गोत्रान्
स्वाध्याय^धर्म^निरतान् करिणस् तुरङ्गान्।
वङ्ग^अङ्ग^काशि^मनुजांश् च दुनोति राहुर्
वृष्टिं च कर्षकजन^*अभिमतां[क्.अनुमतां] करोति॥
पीडा^करं फाल्गुनमासि पर्व *वङ्ग^अश्मक^अवन्तिक[क्.वन्तक]^मेकलानाम्।
*नृत्यज्ञ[क्.नृत्तज्ञ]^सस्य^प्रवर^अङ्गनानां धनुष्कर^क्षत्र^तपस्विनां च॥
*चैत्र्यां[क्.चैत्रे] तु चित्रकर^लेख^गेय^सक्तान्
रूपोपजीवि^निगमज्ञ^हिरण्य^पण्यान्।
पौण्ड्र^औड्र^कैकय^जनान् अथ च^अश्मकांश् च
तापः स्पृशत्य् अमरपो +अत्र विचित्र^वर्षी॥
वैशाख^*मासे[क्.मासि] ग्रहणे विनाशम् आयान्ति कर्पास^तिलाः स^मुद्गाः।
इक्ष्वाकु^यौधेय^शकाः कलिङ्गाः *सोप^प्लवाः[क्.सोपद्रवाः] किन्तु सुभिक्षम् अस्मिन्॥
ज्येष्ठे[क्.ज्यैष्ठे] नरेन्द्र^द्विज^राजपत्न्यः सस्यानि वृष्टिश् च महागणाश् च।
प्रध्वंसम् आयान्ति नराश् च सौम्याः साल्वैः समेताश् च निषाद^सङ्घाः॥
आषाढ^पर्वण्य् उदपान^वप्र^नदी^प्रवाहान् फल^मूल^वार्त्तान्।
गान्धार^काश्मीर^पुलिन्द^चीनान् हतान् वदेद् मण्डल^वर्षम् अस्मिन्॥
काश्मीरान् सपुलिन्द^चीन^यवनान् हन्यात् कुरुक्षेत्रजान्
गान्धारान् अपि मध्यदेश^सहितान् वृष्टो ग्रहः श्रावणे।
काम्बोज^एकशफांश् च शारदम् अपि त्यक्त्वा यथोक्तान् इमान्
अन्यत्र प्रचुर^अन्न^हृष्ट^मनुजैर् धात्रीं करोत्य् आवृताम्॥
कलिङ्ग^वङ्गान् मगधान् सुराष्ट्रान्
म्लेच्छान् सुवीरान् *दरद^अश्मकांश्[क्.दरदाञ् छकांश्] च।
स्त्रीणां च गर्भान् असुरो निहन्ति
सुभिक्ष^कृद् भाद्रपदे +अभ्युपेतः॥
काम्बोज^चीन^यवनान् सह शल्यहृद्भिर्
*बाह्लीक[क्.वाल्हीक]^सिन्धुतट^वासिजनांश् च हन्यात्।
*आनर्त्त[क्.आनर्त]^पौण्ड्र^भिषजश् च तथा किरातान्
दृष्टो +असुरो +अश्वयुजि भूरि^सुभिक्ष^कृच् च॥
हनु^कुक्षि^पायु^भेदा द्विर् द्विः सञ्छर्दनं च जरणं च।
मध्य^अन्तयोश् च विदरणम् इति दश शशि^सूर्ययोर् मोक्षाः॥
आग्नेय्याम् अपगमनं दक्षिण^हनुभेद^संज्ञितं शशिनः।
सस्य^विमर्दो मुख^रुग् नृप^पीडा स्यात् सुवृष्टिश् च॥
पूर्वोत्तरेण वामो हनु^भेदो नृप^कुमार^भयदायी।
मुखरोगं शस्त्र^भयं तस्मिन् विन्द्यात् सुभिक्षं च॥
दक्षिण^कुक्षि^विभेदो दक्षिण^पार्श्वेन यदि भवेन् मोक्षः।
पीडा नृप^पुत्राणाम् अभियोज्या दक्षिणा रिपवः॥
वामस् तु कुक्षि^भेदो यद्य् उत्तरमार्ग^संस्थितो राहुः।
स्त्रीणां गर्भ^विपत्तिः सस्यानि च तत्र मध्यानि॥
नैरृत^वायव्य^स्थौ दक्षिण^वामौ तु पायु^भेदौ द्वौ।
गुह्य^रुग् अल्पा वृष्टिर् द्वयोस् तु राज्ञी^क्षयो वामे॥
पूर्वेण प्रग्रहणं कृत्वा प्राग् एव च^अपसर्पेत ।
सञ्छर्दनम् इति तत् क्षेम^सस्य^हार्दिप्रदं जगतः॥
प्राक् प्रग्रहणं यस्मिन् पश्चाद् अपसर्पणं तु तज् जरणम्।
क्षुत्^शस्त्र^भय^*उद्विग्ना न[क्.उद्विग्नाः क्व] शरणम् उपयान्ति तत्र जनाः॥
मध्ये यदि प्रकाशः प्रथमं तन् मध्य^विदरणं नाम।
अन्तःकोप^करं स्यात् सुभिक्षदं न^अतिवृष्टि^करम्॥
पर्यन्तेषु विमलता बहुलं मध्ये तमो *+अन्त्य[क्.अन्त]^दरण^आख्यः।
मध्याख्यदेश^नाशः शारद^सस्य^क्षयश् च^अस्मिन्॥
एते सर्वे मोक्षा वक्तव्या भास्करे +अपि किन्त्व् अत्र।
पूर्वा दिक् शशिनि यथा तथा रवौ पश्चिमा कल्प्या॥
मुक्ते सप्ताहान्तः पांशु^निपातो +अन्न^संक्षयं कुरुते।
नीहारो रोग^भयं भूकम्पः प्रवर^नृप^मृत्युम्॥
उल्का मन्त्रि^विनाशं नानावर्णा घनाश् च भयम् अतुलम्।
स्तनितं गर्भ^विनाशं विद्युन्^नृप^दंष्ट्रि^परिपीडाम्॥
परिवेषो रुक्^पीडां दिग्दाहो नृप^भयं च स^अग्नि^भयं।
रूक्षो वायुः प्रबलश् चौरसमुत्थं भयं धत्ते॥
निर्घातः सुरचापं दण्डश् च क्षुद्^भयं स^परचक्रम्।
*ग्रहयुद्धे[क्.ग्रहयुद्धं] नृप^युद्धं केतुश् च तद् एव सन्दृष्टः॥
अविकृतसलिल*निपातैः[क्.निपाते] सप्ताह^अन्तः सुभिक्षम् आदेश्यम्।
यच् च^अशुभं ग्रहणजं तत् सर्वं नाशन् उपयाति॥
सोमग्रहे निवृत्ते पक्षान्ते यदि भवेद् ग्रहो +अर्कस्य।
तत्र^अनयः प्रजानां दम्पत्योर् वैरम् अन्योन्यम्॥
अर्कग्रहात् तु शशिनो ग्रहणं यदि दृश्यते ततो विप्राः।
नैक^क्रतु^फल^भाजो भवन्ति मुदिताः प्रजाश् च^एव॥
6 भौमचाराध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0