भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 4

4.01

नित्यम् अधःस्थस्य^इन्दोर् भाभिर् भानोः सितं भवत्य् अर्धम्।
स्वच्छायया^अन्यद् असितं कुम्भस्य^इव^आतपस्थस्य॥

4.02

सलिल^मये शशिनि रवेर् दीधितयो मूर्छितास् तमो नैशम्।
क्षपयन्ति दर्पण^उदर*निहिता[क्.निहता] इव मन्दिरस्य^अन्तः॥

4.03

त्यजतो +अर्क^तलं शशिनः पश्चाद् अवलम्बते यथा शौक्ल्यम्।
दिनकर^वशात् तथा^इन्दोः प्रकाशते +अधः प्रभृत्य् उदयः॥

4.04

प्रतिदिवसम् एवम् अर्कात् स्थान^विशेषेण शौक्ल्य^परिवृद्धिः।
भवति शशिनो +अपराह्णे पश्चाद् भागे घटस्य^इव

4.05

ऐन्द्रस्य शीत^किरणो मूल^आषाढा^द्वयस्य *च^आयातः[क्.वा यातः]।
याम्येन *वीज[क्.ऊ.बीज]^जलचर^काननहा वह्नि^भयदश् च॥

4.06

दक्षिण^पार्श्वेन गतः शशी विशाखा^अनुराधयोः पापः।
मध्येन तु प्रशस्तः *पितृदेव[क्.पित्र्यस्य]^विशाखयोश् च^अपि॥

4.07

षड् अनागतानि पौष्णाद् द्वादश रौद्राच् च मध्य^योगीनि।
ज्येष्ठ^आद्यानि नव^ऋक्षाण्य् उडुपतिना^अतीत्य युज्यन्ते॥

4.08

उन्नतम् ईषच्^छृङ्गं नौ^संस्थाने विशालता च^उक्ता।
नाविक^पीडा तस्मिन् भवति शिवं सर्व^लोकस्य॥

4.09

अर्द्ध^उन्नते च लाङ्गलम् इति पीडा तद्^उपजीविनां तस्मिन्।
प्रीतिश् च निर्निमित्तं मनुजपतीनां सुभिक्षं च॥

4.10

दक्षिण^विषाणम् अर्ध^उन्नतं यदा दुष्ट^लाङ्गल^आख्यं तत्।
पाण्ड्य^नरेश्वर^निधन^कृद् उद्योग^करं बलानाम् च॥

4.11

सम^शशिनि सुभिक्ष^क्षेम^वृष्टयः प्रथम^दिवस^सदृशाः स्युः।
दण्डवद् उदिते पीडा गवां नृपश् च^उग्र^दण्डो +अत्र॥

4.12

कार्मुक^रूपे युद्धानि यत्र तु ज्या ततो जयस् तेषाम्।
स्थानं युगम् इति याम्य^उत्तर^आयतं भूमि^कम्पाय॥

4.13

युगम् एव याम्य^कोट्यां किं चित् तुङ्गं स पार्श्व^शायी^इति
विनिहन्ति सार्थवाहान् वृष्टेश् च विनिग्रहं कुर्यात्॥

4.14

अभ्युच्छ्रायाद् एकं यदि शशिनो +अवाङ्मुखं भवेत्^छृङ्गम्।
आवर्जितम् इत्य् असुभिक्ष^कारि तद् गो^धनस्य^अपि॥

4.15

अव्युच्छिन्ना रेखा समन्ततो मण्डला च कुण्ड^आख्यम्।
अस्मिन् माण्डलिकानां स्थान^त्यागो नरपतीनाम्॥

4.16

प्रोक्त^स्थान^अभावाद् उदग्^उच्चः क्षेम^वृद्धि^वृष्टि^करः।
दक्षिण^तुङ्गश् चन्द्रो दुर्भिक्ष^भयाय निर्दिष्टः॥

4.17

शृङ्गेण^एकेन^*इन्दुर्[क्.इन्दुं] विलीनम् अथ वा^अप्य् अवाङ्मुखं *शृङ्गम्[क्.अशृङ्गम्]।
सम्पूर्णं च^अभिनवं दृष्ट्वा^एको जीविताद् भ्रश्येत्॥

4.18

संस्थान^विधिः कथितो रूपाण्य् अस्माद् भवन्ति चन्द्रमसः।
स्वल्पो दुर्भिक्ष^करो महान् सुभिक्ष^आवहः प्रोक्तः॥

4.19

मध्य^तनुर् वज्र^आख्यः क्षुद्^भयदः सम्भ्रमाय राज्ञां च।
चन्द्रो मृदङ्ग^रूपः क्षेम^सुभिक्ष^आवहो भवति॥

4.20

ज्ञेयो विशाल^मूर्तिर् नरपति^लक्ष्मी^विवृद्धये चन्द्रः।
स्थूलः सुभिक्ष^कारी प्रिय^धान्य^करस् तु तनु^मूर्तिः॥

4.21

प्रत्यन्तान् कु^नृपांश् च हन्त्य् उडुपतिः शृङ्गे कुजेन^आहते
शस्त्र^क्षुद्^भयकृद् यमेन शशिजेन^अवृष्टि^दुर्भिक्ष^कृत्।
श्रेष्ठान् हन्ति नृपान् महेन्द्र^गुरुणा शुक्रेण च^अल्पान् नृपान्
शुक्ले याप्यम् इदं फलम् ग्रह^कृतं कृष्णे यथोक्त^आगमम्॥

4.22

भिन्नः सितेन मगधान् यवनान् पुलिन्दान्
नेपाल^भृङ्गि^*मरुकच्छ[क्ऽस् त्र्. मरुकुच्च]^सुराष्ट्र^मद्रान्।
पाञ्चाल^कैकय^कुलूतक^पुरुषादान्
हन्याद् उशीनर^जनान् अपि सप्त मासान्॥

4.23

गान्धार^सौवीरक^सिन्धु^कीरान् धान्यानि शैलान् द्रविड^अधिपांश् च।
द्विजांश् च मासान् दश शीतरश्मिः सन्तापयेद् वाक्पतिना विभिन्नः॥

4.24

उद्युक्तान् सह वाहनैर् नरपतींस् त्रैगर्तकान् मालवान्
कौलिन्दान् गण^पुङ्गवान् अथ शिबीन् आयोध्यकान् पार्थिवान्।
हन्यात् कौरव^मत्स्य^शुक्त्य्^अधिपतीन् राजन्य^मुख्यान् अपि
प्रालेयांशुर् असृग्ग्रहे तनुगते षण्मासम् अर्यादया॥

4.25

यौधेयान् सचिवान् सकौरवान् प्रागीशान् अथ च^अर्जुनायनान्।
हन्याद् अर्कज^भिन्न^मण्डलः शीतांशुर् दश^मास^पीडया॥

4.26

मगधान् मथुरां च पीडयेद् वेणायाश् च तटं शशाङ्कजः।
अपरत्र कृतं युगं वदेद् यदि भित्त्वा शशिनं विनिर्गतः॥

4.27

क्षेम^आरोग्य^सुभिक्ष^विनाशी शीतांशुः शिखिना यदि भिन्नः।
कुर्याद् आयुध^जीवि^विनाशं चौराणाम् अधिकेन च पीडाम्॥

4.28

उल्कया यदा शशी ग्रस्त एव हन्यते।
हन्यते तदा नृपो यस्य जन्मनि स्थितः॥

4.29

भस्म^निभः परुषो +अरुण^मूर्तिः शीत^करः किरणैः परिहीणः।
श्याव^तनुः स्फुटितः स्फुरणो वा *क्षुड्^डमर[क्.क्षुत्समरा]^आमय^चौर^भयाय॥

4.30

प्रालेय^कुन्द^कुमुद^स्फटिक^अवदातो यत्नाद् इव^अद्रिसुतया परिमृज्य चन्द्रः।
उच्चैः कृतो निशि भविष्यति मे शिवाय यो दृश्यते स भविता जगतः शिवाय॥
4.31अब्[क्.4.32अब्]। शुक्ले पक्षे सम्प्रवृद्धे प्रवृद्धिं ब्रह्म^क्षत्रं याति वृद्धिं प्रजाश् च।
4.31च्द्[क्.4.32च्द्]। हीने हानिस् तुल्यता तुल्यतायां कृष्णे सर्वे तत्फलं व्यत्ययेन॥
4.32अब्[क्.4.31अब्]। यदि कुमुद^मृणाल^हार^गौरस् तिथि^नियमात् क्षयम् एति वर्द्धते वा।
4.32च्द्[क्.4.31च्द्]। अविकृत^गति^मण्डल^अंशु^योगी भवति नृणां विजयाय शीतरश्मिः॥
5 राहुचाराध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc