बृहत्संहिता · अध्याय 48
विस्तरशो निर्दिष्टं पट्टाणां लक्षणं यद् आचार्यैः।
तत् संक्षेपः क्रियते मया +अत्र सकलार्थसम्पन्नः॥
पट्टः शुभदो राज्णां मध्ये +अष्टाव् अङ्गुलानि विस्तीर्णः।
सप्त नरेन्द्र^महिष्याः षड् युवराजस्य निर्दिष्टः॥
चतुर्^अङ्गुल^विस्तारः पट्टः सेनापतेर् भवति मध्ये।
द्वे च प्रसादपट्टः पञ्चैते कीर्तिताः पट्टाः॥
सर्वे द्विगुणायामा मध्याद् अर्धेन पार्श्वविस्तीर्णाः।
सर्वे च शुद्धकाञ्चनविनिर्मिताः श्रेयसो वृद्ध्यै॥
पञ्च^शिखो भूमिपतेस् त्रिशिखो युवराज^पार्थिव^महिष्योः।
एकशिखः सैन्यपतेः प्रसादपट्टो विना शिखया॥
क्रियमाणं यदि पत्रं सुखेन विस्तारम् एति पट्टस्य।
वृद्धिजयौ भूमिपतेस् तथा प्रजानां च सुखसम्पत्॥
जीवितराज्यविनाशं करोति मध्ये व्रणः समुत्पन्नः।
मध्ये स्फुटितस् त्याज्यो विघ्नकरः पार्श्वयोः स्फुटितः॥
अशुभनिमित्त^उत्पत्तौ शास्त्रज्ञः शान्तिम् आदिशेद् राज्ञः।
शस्तनिमित्तः पट्टो नृप^राष्ट्र^विवृद्धये भवति॥
49 खड्गलक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0