भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 47

47.01

मूलं मनुजाधिपतिः प्रजातरोस् तद् उपघात^संस्कारात्।
अशुभं शुभं च लोके भवति यतो +अतो नृपति^चिन्ता॥

47.02

या व्याख्याता शान्तिः स्वयम्भुवा सुरगुरोर् महेन्द्र^अर्थे।
तां प्राप्य वृद्धगर्गः प्राह यथा भागुरेः शृणुत॥

47.03

पुष्यस्नानं नृपतेः कर्तव्यं दैववित्^पुरोधाभ्याम्।
नातः परं पवित्रं सर्व^उत्पात^अन्तकरम् अस्ति॥

47.04

श्लेष्मातक^अक्ष^कण्टकि^कटु^तिक्त^विगन्धि^पादप^विहीने।
कौशिक^गृध्रप्रभृतिभिर् अनिष्ट^विहगैः परित्यक्ते॥

47.05

तरुण^तरु^गुल्म^वल्ली^लता^प्रतान^*अन्विते[क्.आवृते] वनोद्देशे।
निरुपहत^पत्र^पल्लव^मनोज्ञ^मधुरद्रुमप्राये॥

47.06

कृकवाकु^जीव^जीवक^शुक^शिखि^शतपत्र^चाष^हारीतैः।
क्रकर^चकोर^कपिञ्जल^वञ्जुल^पारावत^श्रीकैः॥

47.07

कुसुम^रसपान^मत्त^द्विरेफ^पुंस्कोकिल^आदिभिश् च^अन्यैः।
विरुते वनोपकण्ठे क्षेत्र^आगारे शुचाव् अथ वा॥

47.08

*हृदिनी[क्.ऊ.ह्रदिनी]^विलासिनीनां जलखग^नखविक्षतेषु रम्येषु।
पुलिन^जघनेषु कुर्याद् दृक्^मनसोः प्रीतिजननेषु॥

47.09

प्रोत्प्लुत^हंस^च्छत्रे कारण्डव^कुरर^सारस^उद्गीते।
फुल्ल^इन्दीवर^नयने सरसि सहस्राक्ष^कान्ति^धरे॥

47.10

प्रोत्फुल्ल^कमल^वदनाः कलहंस^*कल[क्.कलस्वन]^प्रभाषिण्यः।
प्रोत्तुङ्ग^कुड्मल^कुचा यस्मिन् नलिनी^विलासिन्यः॥

47.11

कुर्याद् गोरोमन्थज^फेनलव^शकृत्^खुर^क्षत^उपचिते।
अचिर^प्रसूत^हुङ्कृत^वल्गित^वत्स^उत्सवे गोष्ठे॥

47.12

अथ वा समुद्रतीरे कुशल^आगत^*रत्न^पोत[क्.पोतरत्न]^सम्बाधे।
घन^निचुल^लीन^जलचर^सितखग^शबलीकृत^उपान्ते॥

47.13

क्षमया क्रोध इव जितः सिंहो मृग्य^अभिभूयते *येषु[क्.यत्र]।
दत्त^अभय^खग^मृग^शावकेषु तेष्व् आश्रमेष्व् अथ वा॥

47.14

काञ्ची^कलाप^नूपुर^गुरुजघन^उद्वहन^विघ्नित^पदाभिः।
श्रीमति मृगेक्षणाभिर् गृहे +अन्यभृत^वल्गु^वचनाभिः॥

47.15

पुण्येष्व् आयतनेषु च तीर्थेषु^उद्यान^रम्य^देशेषु।
पूर्वोदक्^प्लव^भूमौ प्रदक्षिण^अम्भोवहायां च॥

47.16

भस्म^अङ्गार^अस्थ्य्^ऊषर^तुष^केश^श्वभ्र^कर्कट^आवासैः।
*श्वाविध[क्.श्वाविन्]^मूषक^विवरैर् वल्मीकैर् या च सन्त्यक्ता॥

47.17

धात्री घना सुगन्धा स्निग्धा मधुरा समा च विजयाय।
सेनावासे +अप्य् एवं योजयितव्या यथायोगम्॥

47.18

निष्क्रम्य पुरान् नक्तं दैवज्ञ^अमात्य^याजकाः प्राच्याम्।
कौबेर्यां वा कृत्वा बलिं दिशीशाधिपायां वा॥

47.19

लाजा^अक्षत^दधि^कुसुमैः प्रयतः प्रणतः पुरोहितः कुर्यात्।
आवाहनम् अथ मन्त्रस् तस्मिन् मुनिभिः समुद्दिष्टः॥

47.20

आगच्छन्तु सुराः सर्वे ये +अत्र पूजा^अभिलाषिणः।
दिशो नागा द्विजाश् च^एव ये *च^अप्य् अन्ये[क्.चानेय् अप्य्] +अंशभागिनः॥

47.21

आवाह्य^एवम् ततः सर्वान् एवं ब्रूयात् पुरोहितः।
श्वः पूजां प्राप्य यास्यन्ति दत्त्वा शान्तिं महीपतेः॥

47.22

आवाहितेषु कृत्वा पूजां तां शर्वरीं वसेयुस् ते।
सदसत्^स्वप्ननिमित्तं यात्रायां स्वप्नविधिर् उक्तः॥

47.23

अपरे +अहनि प्रभाते सम्भारान् उपहरेद् यथोक्तगुणान्।
गत्वा +अवनिप्रदेशे श्लोकाश् च^अप्य् अत्र मुनिगीताः॥

47.24

तस्मिन् मण्डलम् आलिख्य कल्पयेत् तत्र मेदिनीम्।
नाना^रत्नाकरवतीं स्थानानि विविधानि च॥

47.25

पुरोहितो यथास्थानं नागान् यक्षान् सुरान् पितॄन्।
गन्धर्व^अप्सरसश् च^एव मुनीन् सिद्धांश् च विन्यसेत्॥

47.26

ग्रहांश् च *सर्व[क्.सह]नक्षत्रै रुद्रांश् च सह मातृभिः।
स्कन्दं विष्णुं विशाखं च लोकपालान् सुरस्त्रियः॥

47.27

वर्णकैर् विविक्धैः कृत्वा हृद्यैर् गन्ध^गुणान्वितैः।
यथास्वं पूजयेद् विद्वान् गन्ध^माल्यानुलेपनैः॥

47.28

भक्ष्यैर् अन्नैश् च विविधैः फल^मूल^आमिषैस् तथा।
*पानैश् च[क्.पानकैर्] विविधैर् हृद्यैः सुरा^क्षीर^आसव^आदिभिः॥

47.29

कथयाम्य् अतः परम् अहं पूजाम् अस्मिन् यथाभिलिखितानाम्।
ग्रहयज्ञे यः प्रोक्तो विधिर् ग्रहाणां स कर्तव्यः॥

47.30

मांस^ओदन^मद्यैः पिशाच^दितितनय^दानवाः पूज्याः।
अभ्यञ्जन^अञ्जन^तिलैः पितरो मांस^ओदनैश् च^अपि॥

47.31

साम^यजुर्भिर् मुनयस् त्व् ऋग्भिर् गन्धैश् च धूप^माल्य^युतैः।
अश्लेषकवर्णैस् त्रिमधुरेण च^अभ्यर्चयेद् नागान्॥

47.32

धूप^आज्य^आहुति^माल्यैर् विबुधान् *रत्नः[उ.रत्नैः] स्तुति^प्रणामैश् च।
गन्धर्वान् अप्सरसो गन्धैर् माल्यैश् च सुसुगन्धैः॥

47.33

शेषांस् तु सार्ववर्णिक^बलिभिः पूजां न्यसेच् च सर्वेषाम्।
प्रतिसर^वस्त्र^पताका^भूषण^यज्ञोपवीतानि॥

47.34

मण्डल^पश्चिमभागे कृत्वा^अग्निं दक्षिणे +अथ वा वेद्याम्।
आदद्यात् सम्भारान् दर्भान् दीर्घान् अगर्भांश् च॥

47.35

लाजा^आज्य^अक्षत^दधि^मधु^सिद्धार्थक^गन्ध^सुमनसो *धूपः[क्.धुपान्]।
गोरोचन^अञ्जन^*तिलाः[क्.तिलान्] स्वर्तुज^मधुराणि च फलानि॥

47.36

सघृतस्य पायसस्य च तत्र शरावाणि तैश् च सम्भारैः।
पश्चिमवेद्यां पूजां कुर्यात् *स्नानस्य[उ.स्नातस्य] सा वेदी॥

47.37

तस्याः कोणेषु दृढान् कलशान् सित^सूत्र^वेष्टित^ग्रीवान्।
सक्षीर^वृक्ष^पल्लव^फल^अपिधानान् व्यवस्थाप्य॥

47.38

पुष्यस्नान^विमिश्रेण^आपूर्णान् अम्भसा सरत्नांश् च।
पुष्यस्नानद्रव्याण्य् आदद्याद् गर्ग^गीतानि॥

47.39

ज्योतिष्मतीं त्रायमाणाम् अभयाम् अपराजिताम्।
जीवां विश्वेश्वरीं पाठां समङ्गां विजयां तथा॥

47.40

सहां च सहदेवीं च पूर्णकोशां शतावरीम्।
अरिष्टिकां शिवां भद्रां तेषु कुम्भेषु विन्यसेत्॥

47.41

ब्राह्मीं क्षेमाम् अजां च^एव सर्वबीजानि *काञ्चनीम्[क्.काञ्चनम्]।
मङ्गल्यानि यथालाभं सर्वौषध्यो *रसास्[क्.रसांस्] तथा॥

47.42

रत्नानि *सर्वगन्धाश्[क्.सर्वगन्धांश्] च बिल्वं च सविकङ्कतम्।
प्रशस्त^नाम्न्यश् च^ओषध्यो हिरण्यं मङ्गलानि च॥

47.43

आदाव् अनडुहश् चर्म जरया संहृतायुषः।
प्रशस्तलक्षणभृतः प्राचीनग्रीवम् आस्तरेत्॥

47.44

ततो वृषस्य योधस्य चर्म रोहितम् अक्षतम्।
सिम्हस्याथ तृतीयं स्याद् व्याघ्रस्य च ततः परम्॥

47.45

चत्वार्य् एतानि चर्माणि तस्यां वेद्याम् उपास्तरेत्।
शुभे मुहूर्ते सम्प्राप्ते पुष्ययुक्ते निशाकरे॥

47.46

भद्रासनम् एकतमेन कारितं कनक^रजत^ताम्राणाम्।
क्षीरतरु^निर्मितं वा विन्यस्यं चर्मणाम् उपरि॥

47.47

त्रिविधस् तस्य^उच्छ्रायो हस्तः पादाधिको +अर्धयुक्तश् च।
माण्डलिका^अनन्तरजित्^समस्त^राज्य^अर्थिनां शुभदः॥

47.48

अन्तर्धाय हिरण्यं तत्र^उपविशेन् नरेश्वरः सुमनाः।
सचिव^आप्त^पुरोहित^दैव^पौर^कल्याण^नामवृतः॥

47.49

वन्दिजन^पौर^*विप्रैः प्रघुष्ट[क्.विप्रप्रघुष्ट]^पुण्याह^वेद^निर्घोषैः।
समृदङ्ग^शङ्ख^तूर्यैर् मङ्गल^शब्दैर् हतानिष्टः॥

47.50

अहत^क्षौम^निवसनं पुरोहितः कम्बलेन सञ्छाद्य।
कृत^बलि^पूजं कलशैर् अभिषिञ्चेत् सर्पिषा पूर्णैः॥

47.51

अष्टाव् अष्टाविंशतिर् अष्टशतं वा^अपि कलश^परिमाणम्।
अधिके +अधिके गुणोत्तरम् अयं च मन्त्रो +अत्र मुनिगीतः॥

47.52

आज्यं तेजः समुद्दिष्टम् आज्यं पापहरं परम्।
आज्यं सुराणाम् आहार आज्ये लोकाः प्रतिष्ठिताः॥

47.53

भौम^आन्तरिक्षं दिव्यं वा यत् ते *कल्मषम्[क्.कल्विषं] आगतम्।
सर्वं तदाज्यसंस्पर्शात् प्रणाशम् उपगच्छतु॥

47.54

कम्बलम् अपनीय ततः पुष्यस्नानाम्बुभिः सफलपुष्पैः।
अभिषिञ्चेन् मनुजेन्द्रं पुरोहितो +अनेन मन्त्रेण॥

47.55

सुरास् त्वाम् अभिषिञ्चन्तु ये च सिद्धाः पुरातनाः।
ब्रह्मा विष्णुश् च *रुद्रश्[क्.शम्भुश्] च साध्याश् च समरुद्गणाः॥

47.56

आदित्या वसवो रुद्रा अश्विनौ च भिषग्वरौ।
अदितिर् देवमाता च स्वाहा सिद्धिः सरस्वती॥

47.57

कीर्तिर् लक्ष्मीर् धृतिः श्रीश् च सिनीवाली कुहूस् तथा।
दनुश् च सुरसा च^एव विनता कद्रुर् एव च॥

47.58

देवपत्न्यश् च या नोक्ता देवमातर एव च।
सर्वास् त्वाम् अभिषिञ्चन्तु दिव्याश् च^अप्सरसां गणाः॥

47.59

नक्षत्राणि मुहूर्ताश् च पक्ष^अहोरात्र^सन्धयः।
संवत्सरा दिनेशाश् च कलाः काष्ठाः क्षणा लवा।
47.60अब्[क्.48.69च्द्]। सर्वे त्वाम् अभिषिञ्चन्तु कालस्यावयवाः शुभाः।
47.60च्द्[क्.48.70अब्]। एते च^अन्ये च मुनयो वेद^व्रत^परायणाः॥
47.61अब्[क्.ओमित्तेद्]। सशिष्यास् ते +अभिषिञ्चन्तु सदाराश् च तपोधनाः।
47.61च्द्[क्.ओमित्तेद्]। वैमानिकाः सुरगणा मनवः सागरैः सह॥

47.62

सरितश् च महाभागा नागाः किंपुरुषाश् तथा।
वैखानसा महाभागा द्विजा वैहायसाश् च ये॥

47.63

सप्तर्षयः सदाराश् च ध्रुवस्थानानि यानि च।
मरीचिर् अत्रिः पुलहः पुलस्त्यः क्रतुर् अङ्गिराः॥

47.64

भृगुः सनत्कुमारश् च सनको +अथ सनन्दनः।
सनातनश् च दक्षश् च जैगीषव्यो भगन्दरः॥

47.65

एकतश् च द्वितश् च^एव त्रितो जाबालिकश्यपौ।
दुर्वासा दुर्विनीतश् च कण्वः कात्यायनस् तथा॥

47.66

मार्कण्डेयो दीर्घतपाः शुनःशेफो विदूरथः।
ऊर्ध्वः संवर्तकश् च^एव च्यवनो +अत्रिः पराशरः॥

47.67

द्वैपायनो यवक्रीतो देवराजः सहानुजः।
पर्वतास् तरवो वल्ल्यः पुण्यान्य् आयतनानि च॥

47.68

प्रजापतिर् दितिश् च^एव गावो विश्वस्य मातरः।
वाहनानि च दिव्यानि सर्वलोकाश् चर^अचराः॥

47.69

अग्नयः पितरस् तारा जीमूताः खं दिशो जलम्।
एते च^अन्ये च बहवः पुण्य^सङ्कीर्तनाः *शुभैः[क्.शुभाः]॥

47.70

तोयैस् त्वाम् अभिषिञ्चन्तु सर्व^उत्पात^निबर्हणैः।
*यथाभिषिक्तो मघवान् एतैर् मुदित^मनसैः[क्.कल्याणम् ते प्रकुर्वन्तु आयुरारोग्यम् एव च]॥

47.71

इत्य् एतैश् चान्यैश् च^अप्य् अथर्वकल्प^*आहितैः[क्.विहितैः] सरुद्रगणैः।
कौष्माण्ड^महारौहिण^कुबेरहृद्यैः समृद्ध्या च॥

47.72

आपोहिष्ठा^तिसृभिर् हिरण्यवर्णा^इति चतसृभिर् जप्तम्।
कार्पासिक^वस्त्रयुगं बिभृयात् स्नातो नराधिपतिः॥

47.73

पुण्याह^शङ्ख^शब्दैर् आचान्तो +अभ्यर्च्य देव^गुरु^विप्रान्।
छत्र^ध्वज^आयुधानि च ततः स्वपूजां प्रयुञ्जीत॥

47.74

आयुष्यं वर्चस्यं रायस्पोषाभिर् ऋग्भिर् एताभिः।
परिजप्तं वैजयिकं नवं विदध्याद् अलङ्कारम्॥

47.75

गत्वा द्वितीयवेदीं समुपविशेच् चर्मणां उपरि राजा।
देयानि च^एव चर्माण्य् उपर्युपर्य् एवम् एतानि॥

47.76

वृषस्य वृषदंशस्य रुरोश् च पृषतस्य च।
तेषाम् उपरि सिंहस्य व्याघ्रस्य च ततः परम्॥

47.77

मुख्यस्थाने जुहुयात् पुरोहितो +अग्निं समित्^तिल^घृताद्यैः।
त्रिनयन^शक्र^बृहस्पति^नारायण^नित्यगति^ऋग्भिः॥

47.78

इन्द्रध्वज^निर्दिष्टान्य् अग्निनिमित्तानि दैवविद् ब्रूयात्।
कृत्वा +अशेष^समाप्तिं पुरोहितः प्राञ्जलिर् ब्रूयात्॥

47.79

यान्तु देवगणाः सर्वे पूजाम् आदाय पार्थिवात्।
सिद्धिं दत्त्वा *तु विपुलां[क्.सुविपुलाम्] पुनर् आगमनाय *च[क्.वै]॥

47.80

नृपतिर् अतो दैवज्ञं पुरोहितं च^अर्चयेद् धनैर् बहुभिः।
अन्यांश् च दक्षिणीयान् *यथोचितं[क्.यथार्हतः] श्रोत्रियप्रभृतीन्॥

47.81

दत्त्वा +अभयं प्रजानाम् आघातस्थानगान् विसृज्य पशून्।
बन्धन^मोक्षं कुर्याद् अभ्यन्तर^दोषकृद्^वर्जम्॥

47.82

एतत् प्रयुज्यमानं प्रतिपुष्यं सुख^यशो^अर्थ^वृद्धिकरम्।
*पुष्याद्[क्.पुष्यम्] विना^अर्धफलदा पौषी शान्तिः *परा[क्.पुरा] प्रोक्ता॥

47.83

राष्ट्र^उत्पात^उपसर्गेषु राहोः केतोश् च दर्शने।
ग्रहावमर्दने च^एव पुष्यस्नानं समाचरेत्॥

47.84

नास्ति लोके स उत्पातो यो ह्य् अनेन न शाम्यति।
मङ्गलं चापरं नास्ति यद् अस्माद् अतिरिच्यते॥

47.85

अधिराज्यार्थिनो राज्ञः पुत्रजन्म च काङ्क्षतः।
तत्पूर्वम् अभिषेके च विधिर् एष प्रशस्यते॥

47.86

महेन्द्रार्थम् उवाच^इदम् बृहत्कीर्तिर् बृहस्पतिः।
स्नानम् आयुष्^प्रजा^वृद्धि^सौभाग्य^करणं परम्॥

47.87

अनेनैव विधानेन हस्त्य्^अश्वं *स्नापयेत् ततः[क्.स्नापयीत यः]।
तस्य^आमय^विनिर्मुक्तं परां सिद्धिम् अवाप्नुयात्॥
48 पट्टलक्षणाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc