भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 46

46.01

दिव्य^आन्तरिक्ष^आश्रयम् उक्तम् आदौ मया फलं शस्तम् अशोभनं च।
प्रायेण चारेषु समागमेषु युद्धेषु मार्ग^आदिषु विस्तरेण॥

46.02

भूयो वराहमिहिरस्य न युक्तम् एतत्
कर्तुं समासकृद् असव् इति तस्य दोषः।
तज्ज्ञैर् न वाच्यम् इदम् उक्तफल^अनुगीति
यद् *बर्हि[क्.वर्हि]चित्रकम् इति प्रथितं वराङ्गम्॥

46.03

स्वरूपम् एव तस्य तत्^प्रकीर्तित^अनुकीर्तनम्।
ब्रवीम्य् अहं न चेद् इदं तथा +अपि मे +अत्र वाच्यता॥

46.04

उत्तरवीथि^गता द्युतिमन्तः क्षेम^*शुभिक्ष[उ.सुभिक्ष]^शिवाय समस्ताः।
दक्षिण^मार्ग^गता द्युतिहीनाः क्षुद्भय^तस्कर^मृत्यु^करास् ते॥

46.05

कोष्ठागार^गते भृगु^पुत्रे पुष्यस्थे च गिराम् प्रभविष्णौ।
निर्वैराः क्षितिपाः सुखभाजः संहृष्टाश् च जना गतरोगाः॥

46.06

पीडयन्ति यदि कृत्तिकां मघां रोहिणीं श्रवम् ऐन्द्रम् एव वा।
प्रोज्झ्य सूर्यम् अपरे ग्रहास् तदा पश्चिमा दिग् अनयेन पीड्यते॥

46.07

प्राच्यां चेद् ध्वजवद् अवस्थिता दिनान्ते
प्राच्यानां भवति हि विग्रहो नृपाणाम्।
मध्ये चेद् भवति हि मध्यदेश^*पीठा[क्.ऊ.पीडा]
रूक्षैस् तैर् न तु *रुचिमन्[क्.रुचिरैर्] मयूखवद्भिः॥

46.08

दक्षिणां ककुभम् *आश्रितस्[क्.आश्रितैस्] तु तैर् दक्षिणापथपयोमुचां क्षयः।
हीन^रूक्ष^तनुभिश् च विग्रहः स्थूल^देह^किरण^अन्वितैः शुभम्॥

46.09

उत्तरमार्गे स्पष्ट^मयूखाः शान्तिकरास् ते तन् नृपतीनाम्।
ह्रस्व^शरीरा भस्म^सवर्णा दोषकराः स्युर् देश^नृपाणाम्॥

46.10

नक्षत्राणां तारकाः सग्रहाणाम्
धूमज्वालाविस्फुलिङ्गान्विताश् चेत्।
आलोकं वा निर्निमित्तं न यान्ति
याति ध्वंसं सर्वलोकः सभूपः॥

46.11

दिवि भाति यदा तुहिनांशुयुगं
द्विज^वृद्धिर् अतीव तदाशु शुभा।
तदनन्तरवर्णरणो +अर्कयुगे
जगतः प्रलयस् त्रिचतुष्प्रभृति॥

46.12

मुनीन् अभिजितं ध्रुवं मघवतश् च भं संस्पृशन्
शिखी घनविनाशकृत् कुशलकर्महा शोकदः।
*भुजङ्गम्[क्.भुजङ्गभम्] अथ संस्पृशेद् भवति वृष्टिनाशो ध्रुवं
क्षयं व्रजति विद्रुतो जनपदश् च बालाकुलः॥

46.13

प्राग्द्वारेषु चरन् रविपुत्रो नक्षत्रेषु करोति च वक्रम्।
दुर्भिक्षं कुरुते *महदुग्रं[क्.भयम् उग्रं] मित्राणां च विरोधम् अवृष्टिम्॥

46.14

रोहिणीशकटम् अर्कनन्दनो यदि भिनत्ति रुधिरो +अथ वा शिखी।
किं वदामि यद् अनिष्टसागरे जगद् अशेषम् उपयाति संक्षयम्॥

46.15

उदयति सततं यदा शिखी चरति भचक्रम् अशेषम् एव वा।
अनुभवति पुराकृतं तदा फलम् अशुभं सचर^अचरं जगत्॥

46.16

धनुःस्थायी रूक्षो रुधिरसदृशः क्षुद्भयकरो
बलोद्योगं *चन्द्रः[क्.चेन्दुः] कथयति जयं ज्या +अस्य च यतः।
गवां{अवाक्] शृङ्गो गोघ्नो निधनम् अपि सस्यस्य कुरुते
ज्वलन् धूमायन् वा नृपतिमरणायैव भवति॥

46.17

स्निग्धः स्थूलः समशृङ्गो विशालस् तुङ्गश् च^उदग्विचरन् नागवीथ्याम्।
दृष्टः सौम्यैर् अशुभैर् विप्रयुक्तो लोकानन्दं कुरुते +अतीव चन्द्रः॥

46.18

पित्र्य^मैत्र^पुरुहूत^विशाखा^त्वाष्ट्रम् एत्य च युनक्ति शशाङ्कः।
दक्षिणेन न *शुभः शुभकृत्[क्.शुभो हितकृत्] स्याद् यद्य् उदक् चरति मध्यगतो वा॥

46.19

परिघ इति मेघरेखा या तिर्यग्भास्करोदये +अस्ते वा।
परिधिस् तु प्रतिसूर्यो दण्डस् त्व् ऋजुर् इन्द्रचापनिभः॥

46.20

उदये +अस्ते वा भानोर् ये दीर्घा रश्मयस् त्व् अमोघास् ते।
सुरचापखण्डम् ऋजु यद् रोहितम् ऐरावतं दीर्घम्॥

46.21

अर्ध^अस्तमयात् सन्ध्या व्यक्तीभूता न तारका यावत्।
तेजःपरिहानि मुखाद् भानोर् अर्ध^उदयो यावत्॥

46.22

तस्मिन् सन्ध्या^काले चिह्नैर् एतैः शुभ^अशुभं वाच्यम्।
सर्वैर् एतैः स्निग्धैः सद्यो वर्षं भयं रूक्षैः॥

46.23

अच्छिन्नः परिघो वियच् च विमलं श्यामा मयूखा रवेः
स्निग्धा दीधितयः *मितं[क्.ऊ.सितं] सुरधनुर्विद्युच् च पूर्वोत्तरा।
स्निग्धो मेघतरुर् दिवाकरकरैर् आलिङ्गतो वा यदा
वृष्टिः स्याद् यदि वा +अर्कम् अस्तसमये मेघो महान् छादयेत्॥

46.24

खण्डो वक्रः कृष्णो ह्रस्वः काक^आद्यैर् वा चिह्नैर् विद्धः।
यस्मिन् देशे रूक्षश् चार्कस् तत्राभावः प्रायो राज्ञः॥

46.25

वाहिनीं समुपयाति पृष्ठतो मांसभुक् खगगणो युयुत्सतः।
यस्य तस्य बलविद्रवो महान् अग्रैस् तु विजयो विहङ्गमैः॥

46.26

भानोर् उदये यदि वास्तमये गन्धर्वपुरप्रतिमा ध्वजनी।
विम्बं निरुणद्धि तदा नृपतेः प्राप्तं समरं सभयं प्रवदेत्॥

46.27

शस्ता शान्तिद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुपवना च।
पांशुध्वस्ता जनपदनाशं धत्ते रूक्षा रुधिरनिभा वा॥

46.28

यद्विस्तरेण कथितं मुनिभिस् तद् अस्मिन्
सर्वं मया निगदितं पुनरुक्तवर्जम्।
श्रुत्वा +अपि कोकिल^रुतं बलिभुग् विरौति
यत्^तत् स्वभावकृतम् अस्य पिकं न जेतुम्॥
47 पुष्यस्नानाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc