भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 45

45.01

यान् अत्रेर् उत्पातान् गर्गः प्रोवाच तान् अहं वक्ष्ये।
तेषां संक्षेपो +अयं प्रकृतेर् अन्यत्वम् उत्पातः॥

45.02

अपचारेण नराणाम् उपसर्गः पापसञ्चयाद् भवति।
संसूचयन्ति दिव्य^आन्तरिक्ष^भौमास् *त उत्पाताः[क्.तदुत्पाताः]॥

45.03

मनुजानाम् अपचाराद् अपरक्ता देवताः सृजन्त्य् एतान्।
तत्प्रतिघाताय नृपः शान्तिं राष्ट्रे प्रयुञ्जीत॥

45.04

दिव्यं ग्रह^ऋक्ष^वैकृतम् उल्का^निर्घात^पवन^परिवेषाः।
गन्धर्वपुर^पुरन्दरचाप^आदि यद् आन्तरिक्षं तत्॥

45.05

भौमं चर^स्थिर^भवं तत्^शान्तिभिर् आहतं शमम् उपैति।
नाभसम् उपैति मृदुतां शाम्यति नो दिव्यम् इत्य् एके॥

45.06

दिव्यम् अपि शमम् उपैति प्रभूत^कनक^अन्न^गो^मही^दानैः।
रुद्र^आयतने भूमौ गोदोहात् कोटिहोमाच् च॥

45.07

आत्म^सुत^कोश^वाहन^पुर^दार^पुरोहितेषु *लोके च[क्.लोकेषु]।
पाकम् उपयाति दैवं परिकल्पितम् अष्टधा नृपतेः॥

45.08

अनिमित्त^भङ्ग^चलन^स्वेद^अश्रु^निपात^जल्पन^आद्यानि।
लिङ्ग^आर्चा^आयतनानां नाशाय नरेश^देशानाम्॥

45.09

दैवतयात्रा^शकटाक्ष^चक्र^युग^केतु^भङ्ग^पतनानि।
सम्पर्यासन^सादन^*सङ्गश्[क्.सङ्गाश्] च न देश^नृप^शुभदाः॥

45.10

ऋषि^धर्म^पितृ^ब्रह्म^प्रोद्भूतं वैकृतं द्विजातीनाम्।
यद् रुद्र^लोकपाल^उद्भवं पशूनाम् अनिष्टं तत्॥

45.11

गुरु^सित^शनैश्चर^उत्थं पुरोधसां विष्णुजं च लोकानाम्।
स्कन्द^विशाख^समुत्थं माण्डलिकानां नरेन्द्राणाम्॥

45.12

वेदव्यासे मन्त्रिणि विनायके वैकृतं चमूनाथे।
धातरि सविश्वकर्मणि लोकाभावाय निर्दिष्टम्॥

45.13

देव^कुमार^कुमारी^वनिता^प्रेष्येषु वैकृतं यत् स्यात्।
तन् नरपतेः कुमारक^कुमारिका^स्त्री^परिजनानाम्॥

45.14

रक्षः^पिशाच^*गृह्यक[उ.गुह्यक]^नागानाम् *एवम्[क्.एतद्] एव *निर्दिष्टम्[क्.निर्देश्यम्]।
मासैश् च^अप्य् अष्टाभिः सर्वेषाम् एव फलपाकः॥

45.15

बुद्ध्वा देवविकारं शुचिः पुरोधास् त्र्यह^उषितः स्नातः।
स्नान^कुसुम^अनुलेपन^वस्त्रैर् अभ्यर्चयेत् प्रतिमाम्॥

45.16

मधुपर्केण पुरोधा *भक्ष्यैर्[क्.बक्षैर्] बलिभिश् च विधिवद् उपतिष्ठेत्।
स्थालीपाकं जुहुयाद् विधिवन् मन्त्रैश् च तल्^लिङ्गैः॥

45.17

इति विबुध^विकारे शान्तयः सप्तरात्रं
द्विज^विबुध^गण^अर्चा गीत^नृत्य^उत्सवाश् च।
विधिवद् अवनि^पालैर् यैः प्रयुक्ता न तेषां
भवति दुरित^पाको दक्षिणाभिश् च रुद्धः॥

45.18

राष्ट्रे यस्य^अनग्निः प्रदीप्यते दीप्यते च न^इन्धनवान्।
मनुजेश्वरस्य पीडा तस्य *च[क्.ओमित्तेद्] राष्ट्रस्य विज्ञेया॥

45.19

जल^मांस^आर्द्र^ज्वलने नृपति^वधः प्रहरणे रणो रौद्रः।
सैन्य^ग्राम^पुरेषु च नाशो वह्नेर् भयं कुरुते॥

45.20

प्रासाद^भवन^तोरण^केत्व्^आदिष्व् अननलेन दग्धेषु।
तडिता वा षण्मासात् परचक्रस्य^आगमो नियमात्॥

45.21

धूमो +अनग्नि^समुत्थो रजस् तमश् च^अह्निजं महा^भयदम्।
व्यभ्रे निश्य् उडुनाशो दर्शनम् अपि च^अह्नि दोषकरम्॥

45.22

नगर^*चतुष्पाद्^अण्डज[क्.चतुष्पाद^अण्डज]^मनुजानां भयकरं ज्वलनम् आहुः।
धूम^अग्नि^विस्फुलिङ्गैः शय्या^अम्बर^केशगैर् मृत्युः॥

45.23

आयुध^ज्वलन^सर्पण^स्वनाः कोश^निर्गमन^वेपनानि वा।
वैकृतानि यदि वा^आयुधे +अपराण्य् आशु रौद्र^रण^सङ्कुलं वदेत्॥

45.24

मन्त्रैर् *आग्नेयैः[क्.वाह्नैः] क्षीरवृक्षात् समिद्भिर्
होतव्यो +अग्निः सर्षपैः सर्पिषा च।
अग्न्यादीनां वैकृते शान्तिर् एवं
देयं च^अस्मिन् काञ्चनं ब्राह्मणेभ्यः॥

45.25

शाखाभङ्गे +अकस्माद् वृक्षाणां निर्दिशेद् रणोद्योगम्।
हसने देशभ्रंशं रुदिते च व्याधि^बाहुल्यम्॥

45.26

राष्ट्र^विभेदस् त्व् अनृतौ बालवधो +अतीव कुसुमिते बाले।
वृक्षात् क्षीरस्रावे सर्वद्रव्य^क्षयो भवति॥

45.27

मद्ये वाहन^नाशः संग्रामः शोणिते मधुनि रोगः।
स्नेहे दुर्भिक्ष^भयं महद्भयं *निःस्रुते[क्.निःसृते] सलिले॥

45.28

शुष्क^विरोहे वीर्य^अन्न^संक्षयः शोषणे च विरुजानाम्।
पतितानाम् उत्थाने स्वयं भयं दैवजनितं च॥

45.29

पूजितवृक्षे ह्य् अनृतौ कुसुमफलं नृप^वधाय निर्दिष्टम्।
धूमस् तस्मिन् ज्वाला +अथ वा भवेन् नृप^वधाय^एव॥

45.30

सर्पत्सु तरुषु जल्पत्सु वा^अपि जन^संक्षयो विनिर्दिष्टः।
वृक्षाणां वैकृत्ये दशभिर् मासैः फल^विपाकः॥

45.31

स्रग्^गन्ध^धूप^अम्बर^पूजितस्य छत्रं विधाय^उपरि पादपस्य।
कृत्वा शिवं रुद्रजपो +अत्र कार्यो रुद्रेभ्य इत्य् अत्र *षड् एव होमाः[क्.षडङ्गहोमः]॥

45.32

पायसेन *मधुनापि[क्.मधुना च] भोजयेद् ब्राह्मणान् घृतयुतेन भूपतिः।
मेदिनी निगदिता^अत्र दक्षिणा वैकृते तरुकृते हितार्थिभिः॥

45.33

नाले +अब्ज^यव^आदीनाम् एकस्मिन् द्वि^त्रि^सम्भवो मरणम्।
कथयति तदधिपतीनां यमलं जातं च कुसुमफलम्॥

45.34

अतिवृद्धिः सस्यानां नाना^फल^कुसुम^*सम्भवो[क्.भवो] वृक्षे।
भवति हि यद्य् एकस्मिन् परचक्रस्य^आगमो नियमात्॥

45.35

अर्धेन यदा तैलं भवति तिलानाम् अतैलता वा स्यात्।
अन्नस्य च वैरस्यं तदा तु विन्द्याद् भयं सुमहत्॥

45.36

विकृत^कुसुमं फलम् वा ग्रामाद् अथ वा पुराद् वहिः[क्.ऊ.बहिः] कार्यम्।
सौम्यो +अत्र चरुः कार्यो निर्वाप्यो वा पशुः शान्त्यै॥

45.37

सस्ये च दृष्ट्वा विकृतिं प्रदेयं
तत्क्षेत्रम् एव प्रथमं द्विजेभ्यः।
तस्य^एव मध्ये चरुम् अत्र भौमं
कृत्वा न दोषं समुपैति *तज्जम्[क्.तज्जान्]॥

45.38

दुर्भिक्षम् *अनावृष्टाव् अतिवृष्टौ[क्.अनावृष्ट्याम् अतिवृष्ट्याम्] क्षुद्भयं *परभयं च[क्.सपरचक्रम्]।
रोगो ह्य् अनृतु^भवायां *नृपति^वधो[क्.नृप^वधो] +अनभ्रजातायाम्॥

45.39

शीत^उष्ण^*विपर्यासो[क्.विपर्यासे] नो सम्यगृतुषु च सम्प्रवृत्तेषु।
षण्मासाद् राष्ट्र^भयं रोग^भयं दैव^जनितं च॥

45.40

अन्य^ऋतौ सप्ताहं प्रबन्ध^वर्षे प्रधान^नृप^मरणम्।
रक्ते शस्त्र^उद्योगो मांस^अस्थि^वसा^आदिभिर् मरकः॥

45.41

धान्य^हिरण्य^त्वक्^फल^कुसुम^आद्यैर् वर्षितैर् भयं विन्द्यात्।
अङ्गार^पांशु^वर्षे विनाशम् आयाति तन्नगरम्॥

45.42

उपला विना जलधरैर् विकृता वा प्राणिनो यदा वृष्टाः।
छिद्रं वा^अप्य् अतिवृष्टौ सस्यानाम् ईति^संजननम्॥
[क्.ओने वेर्से इन्सेर्तेद्
क्. 46.43अब्। क्षीर^घृत^क्षौद्राणां दध्नो रुधिर^उष्ण^वारिणां[क्ऽस् त्र्. वारिणो] वर्षे।
क्. 46.43च्द्। देशविनाशो ज्ञेयो +असृग्वर्षे च अपि नृप^युद्धम्॥]

45.43

यद्य् अमले +अर्के छाया न दृश्यते प्रतीपा वा।
देशस्य तदा सुमहद्^भयम् आयातं विनिर्देश्यम्॥

45.44

व्यभ्रे नभसि^इन्द्रधनुर् दिवा यदा दृश्यते +अथ वा रात्रौ।
प्राच्याम् अपरस्यां वा तदा भवेत् क्षुद्भ्यं सुमहत्॥

45.45

सूर्य^इन्दु^पर्जन्य^समीरणानां *यागः[क्.योगः] स्मृतो वृष्टि^विकार^काले।
धान्य^अन्न^गो^काञ्चन^दक्षिणाश् च देयास् ततः शान्तिम् उपैति पापम्॥

45.46

अपसर्पणं नदीनाम् नगराद् अचिरेण शून्यतां कुरुते।
शोषश् च^अशोष्याणाम् अन्येषां वा ह्रदादीनाम्॥

45.47

स्नेहा^सृग्^मांस^वहाः सङ्कुल^कलुषाः प्रतीपगाश् च^अपि।
परचक्रस्य^आगमनं नद्यः कथयन्ति षण्मासात्॥

45.48

ज्वाला^धूम^क्वाथ^आरुदित^उत्क्रुष्टानि च^एव कूपानाम्।
गीत^प्रजल्पितानि च जन^मरकाय^*उपदिष्टानि[क्.प्रदिष्टानि]॥

45.49

*सलिल[क्.तोय]^उत्पत्तिर् अखाते गन्ध^रस^विपर्यये च तोयानाम्।
सलिलाशय^विकृतौ वा महद्भयं तत्र शन्तिम् *इमाम्[क्.इयम्]॥

45.50

सलिल^विकारे कुर्यात् पूजां वरुणस्य वारुणैर् मन्त्रैः।
तैर् एव च जप^होमं शमम् एवं पापम् उपयाति॥

45.51

प्रसव^विकारे स्त्रीणां द्वि^त्रि^चतुष्^प्रभृति^सम्प्रसूतौ वा।
हीन^अतिरिक्त^काले च देश^कुल^संक्षयो भवति॥

45.52

वडवा^उष्ट्र^महिष^गो^हस्तिनीषु यमल^उद्भवे *रण^मरणम्[क्.मरणम्] एषाम्।
षण्मासात् सूतिफलं शान्तौ श्लोकौ च गर्ग^उक्तौ॥

45.53

नार्यः परस्य विषये त्यक्तव्यास् ता हित^अर्थिना।
तर्पयेच् च द्विजान् कामैः शान्तिं च^एव^अत्र कारयेत्॥

45.54

चतुष्पादाः स्व^यूथेभ्यस् त्यक्तव्याः पर^भूमिषु।
नगरं स्वामिनं यूथम् अन्यथा तु विनाशयेत्॥

45.55

परयोनाव् अभिगमनं भवति तिरश्चाम् असाधु धेनूनाम्।
उक्षाणो वा^अन्योन्यं पिबति श्वा वा सुरभि^पुत्रम्॥

45.56

मासत्रयेण विन्द्यात् तस्मिन् निःसंशयं पर^आगमनम्।
तत्प्रतिघाताय^एतौ श्लोकौ गर्गेण निर्दिष्टौ॥

45.57

त्यागो विवासनं दानं तत् तस्य^आशु शुभं भवेत्।
तर्पयेद् ब्राह्मणांश् च^अत्र जप^होमांश् च कारयेत्॥

45.58

स्थालीपाकेन धातारं पशुना च पुरोहितः।
प्राजापत्येन मन्त्रेण यजेद् बह्व्^अन्न^दक्षिणम्॥

45.59

यानं वाह^वियुक्तं यदि गच्छेन् न व्रजेच् च वाह^युतम्।
राष्ट्र^भयं भवति तदा चक्राणां साद^भङ्गे च॥
45.60अब्[क्.46.61अब्]। गीतरव^तूर्यशब्दा नभसि यदा वा चर^स्थिर^अन्यत्वम्।
45.60च्द्[क्.46.61च्द्]। मृत्युस् तदा गदा वा *विस्वतूर्ये[क्.ऊ.विस्वरतार्ये] पर^अभिभवः॥
45.61अब्[क्.46.62अब्]। अनभिहत^तूर्य^नादः शब्दो वा ताडितेषु यदि न स्यात्।
45.61च्द्[क्.46.62च्द्]। व्युत्पत्तौ वा तेषां पर^आगमो नृपति^मरणं वा॥

45.62

गो^लाङ्गलयोः सङ्गे दर्वी^शूर्प^आद्य्^उपस्कर^विकारे।
क्रोष्टुक^नादे च तथा शस्त्र^भयं मुनिवचश् च^इदम्॥

45.63

वायव्येष्व् एषु नृपतिर् वायुं शक्तुभिर् अर्चयेत्।
आवायोर् इति पञ्चर्चो *जप्तव्याः[क्.जाप्याश् च] प्रयतैर् द्विजैः॥

45.64

ब्राह्मणान् परम^अन्नेन दक्षिणाभिश् च तर्पयेत्।
बह्व्^अन्न^दक्षिणा होमाः कर्तव्याश् च प्रयत्नतः॥

45.65

पुर^पक्षिणो वनचरा वन्या वा निर्भया विशन्ति पुरम्।
नक्तं वा दिवस^चराः क्षपा^चरा वा चरन्त्य् अहनि॥

45.66

सन्ध्या^द्वये +अपि मण्डलम् आबध्नन्तो मृगा विहङ्गा वा।
दीप्तायां दिश्य् अथ वा क्रोशन्तः संहता भयदाः॥

45.67

*श्येनाः[क्.श्वानः] प्ररुदन्त इव द्वारे क्रोशन्ति जम्बुका दीप्ताः।
प्रविशेन् नरेन्द्र^भवने कपोतकः कौशिको यदि वा॥

45.68

कुक्कुट^रुतं प्रदोषे हेमन्त^आदौ च कोकिल^आलापाः।
प्रतिलोम^मण्डल^चराः श्येन^आद्याश् च^अम्बरे भयदाः॥

45.69

गृह^चैत्य^तोरणेषु द्वारेषु च पक्षि^सङ्घ^*सम्पातः[क्.सम्पाताः]।
मधु^वल्मीक^अम्भोरुह^*समुद्भवश्[क्.समुद्भवाश्] च^अपि नाशाय॥

45.70

श्वभिर् अस्थि^शव^अवयव^प्रवेशनं मन्दिरेषु मरकाय।
पशु^शस्त्र^व्याहारे नृप^मृत्युर् मुनिवचश् च^इदम्॥

45.71

मृग^पक्षि^विकारेषु कुर्याद् *धीमान्[क्.ऊ.धोमान्] सदक्षिणान्।
देवाः कपोत इति च जप्तव्याः पञ्चभिर् द्विजैः॥

45.72

सुदेवा इति च^एकेन देया गावः *सदक्षिणाः[क्.च दक्षिणा]।
जपेत्^शाकुन^सूक्तं वा मनो वेदशिरांशि च॥

45.73

शक्रध्वज^इन्द्रकील^स्तम्भद्वार^प्रपात^भङ्गेषु।
तद्वत् कपाट^तोरण^केतूनां नरपतेर् मरणम्॥

45.74

सन्ध्या^द्वयस्य दीप्तिर् धूम^उत्पत्तिश् च कानने +अनग्नौ।
छिद्र^अभावे भूमेर् दरणं कम्पश् च भयकारी॥

45.75

*पाखण्डाणां[क्.पाषण्डाणां] नास्तिकानां च भक्तः
साध्व्^आचार^प्रोज्झितः क्रोध^शीलः।
ईर्ष्युः क्रूरो विग्रह^आसक्त^चेता
यस्मिन् राजा तस्य देशस्य नाशः॥

45.76

प्रहर हर छिन्धि भिन्धि^इत्य् आयुध^काष्ठ^अश्म^पाणयो बालाः।
निगदन्तः प्रहरन्ते तत्र^अपि भयं भवत्य् आशु॥

45.77

अङ्गार^गैरिक^आद्यैर् विकृत^प्रेत^अभिलेखनं यस्मिन्।
नायक^चित्रितम् अथ वा क्षये क्षयं याति न चिरेण॥

45.78

लूता^पट^अङ्ग^शबलं न सन्ध्ययोः पूजितं कलह^युक्तम्।
नित्य^उच्छिष्ट^स्त्रीकं च यद् गृहं तत् क्षयं याति॥

45.79

दृष्टेषु यातुधानेषु निर्दिशेन् मरकम् आशु सम्प्राप्तम्।
प्रतिघाताय^एतेषां गर्गः शान्तिं चकार^इमाम्॥

45.80

महाशान्त्यो +अथ बलयो भोज्यानि सुमहान्ति च।
कारयेत महेन्द्रं च *माहेन्द्रीं[क्.महेन्द्रीभिः] च समर्चयेत्॥

45.81

नरपति^देश^विनाशे केतोर् उदये +अथ वा ग्रहे +अर्केन्द्वोः।
उत्पातानां प्रभवः स्व^ऋतुभवश् च^अप्य् अदोषाय॥

45.82

ये च न दोषान् जनयन्त्य् उत्पातास् तान् ऋतु^स्वभाव^कृतान्।
ऋषिपुत्र^कृतैः श्लोकैर् विद्याद् एतैः समास^उक्तैः॥

45.83

वज्र^अशनि^मही^कम्प^सन्ध्या^निर्घात^निःस्वनाः।
परिवेष^रजो^धूम^रक्त^अर्क^*अस्तमय[क्.अस्तमन]^उदयाः॥

45.84

द्रुमेभ्यो +अन्न^रस^स्नेह^बहु^पुष्प^फल^उद्गमाः।
गो^पक्षि^मद^वृद्धिश् च शिवाय मधु^माधवे॥

45.85

तारा^उल्का^पात^कलुषं कपिल^अर्केन्दु^मण्डलम्।
अनग्नि^ज्वलन^स्फोट^धूम^रेण्व्^अनिल^आहतम्॥

45.86

रक्त^पद्म^*अरुणा[क्.अरुणम्] *सन्ध्या[क्.सन्ध्यं] नभः क्षुब्ध^अर्णव^उपमम्।
सरितां च^अम्बु^संशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत्॥

45.87

शक्रायुध^परीवेष^विद्युत्^शुष्क^विरोहणम्।
कम्प^उद्वर्तन^वैकृत्यं रसनं दरणं क्षितेः॥

45.88

सरो^नद्य्^उदपानानां वृद्ध्य्^ऊर्ध्व^तरण^प्लवाः।
सरणं च^अद्रि^गेहानां वर्षासु न भय^आवहम्॥

45.89

दिव्य^स्त्री^भूत^गन्धर्व^विमान^अद्भुत^दर्शनम्।
ग्रह^नक्षत्र^ताराणां दर्शनं च दिवा +अम्बरे॥

45.90

गीत^वादित्र^निर्घोषा वन^पर्वत^सानुषु।
सस्य^वृद्धिर् अपां हानिर् अपापाः शरदि स्मृताः॥

45.91

शीत^अनिल^तुषारत्वं नर्दनं मृग^पक्षिणाम्।
रक्षो^यक्ष^आदि^सत्त्वानां दर्शनं वाग् अमनुषी॥

45.92

दिशो धूम^अन्धकाराश् च स^नभो^वन^पर्वताः।
उच्चैः सूर्य^उदय^अस्तौ च हेमन्ते शोभनाः स्मृताः॥

45.93

हिम^पात^अनिल^उत्पाता विरूप^अद्भुत^दर्शनम्।
कृष्ण^अञ्जन^आभम् आकाशं तारा^उल्का^पात^पिञ्जरम्॥

45.94

चित्र^गर्भ^उद्भवाः स्त्रीषु गो^अज^अश्व^मृग^पक्षिषु।
पत्र^अङ्कुर^लतानां च विकाराः शिशिरे शुभाः॥

45.95

ऋतु^स्वभाव^जा ह्य् एते दृष्टाः स्व^ऋतौ शुभ^प्रदाः।
ऋतोर् अन्यत्र च^उत्पाता दृष्टास् ते *च^अतिदारुणाः[क्.बृशदारुनाः]॥

45.96

उन्मत्तानां च या गाथाः शिशूनां *यच् च भाषितम्[क्.भाषितं च यत्]।
स्त्रियो यच् च प्रभाषन्ते तस्य नास्ति व्यतिक्रमः॥

45.97

पूर्वं चरति देवेषु पश्चाच् *चरति[क्.गच्छति] मानुषान्।
न^अचोदिता वाग् वदति सत्या ह्य् एषा सरस्वती॥

45.98

उत्पातान् गणित^विवर्जितो +अपि बुद्ध्वा
विख्यातो भवति नरेन्द्र^वल्लभश् च।
एतत् तन्^मुनिवचनं रहस्यम् उक्तं
यज् ज्ञात्वा भवति नरस् त्रिकालदर्शी॥
46 मयूरचित्रकाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc