बृहत्संहिता · अध्याय 44
खञ्जनको नाम^अयं यो विहगस् तस्य दर्शने प्रथमे।
प्रोक्तानि यानि मुनिभिः फलानि तानि प्रवक्ष्यामि॥
स्थूलो^अभ्युन्नत^कण्ठः कृष्ण^गलो भद्रकारको भद्रः।
आकण्ठ^मुखात् कृष्णः सम्पूर्णः पूरयत्य् आशाम्॥
कृष्णो गले +अस्य बिन्दुः सित^करटान्तः स रिक्तकृद् रिक्तः।
पीतो गोपीत इति क्लेशकरः खञ्जनो दृष्टः॥
अथ मधुर^सुरभि^फल^कुसुम^तरुषु सलिलाशयेषु पुण्येषु।
करि^तुरग^भुजग^मूर्ध्नि प्रासाद^उद्यान^हर्म्येषु॥
गो^गोष्ठ^सत्^समागम^यज्ञ^उत्सव^पार्थिव^द्विज^समीपे।
हस्ति^तुरङ्गम^शाला^च्छत्र^ध्वज^चामर^आद्येषु॥
हेम^समीप^सित^अम्बर^कमल^उत्पल^पूजित^उपलिप्तेषु।
दधि^पात्र^धान्य^कूटेषु च श्रियं खञ्जनः कुरुते॥
पङ्के स्वाद्व्^अन्न^आप्तिर् गोरस^सम्पच् च गोमय^उपगते।
शाद्वलगे वस्त्र^आप्तिः शकटस्थे देश^विभ्रंशः॥
गृहपटले +अर्थभ्रंशो *बध्रे[क्.वध्रे] बन्धो +अशुचौ भवति रोगः।
पृष्ठे त्व् अज^आविकानां प्रिय^सङ्गमम् आवहत्य् आशु॥
महिष^उष्ट्र^गर्दभ^अस्थिश्मशान^गृहकोण^शर्कर^*अट्ट[क्.अद्रि]स्थः।
प्राकार^भस्म^केशेषु च^अशुभो मरण^रुग्^भयदः॥
पक्षौ धुन्वन् न शुभः शुभः पिबन् वारि निम्नगा^संस्थः।
सूर्योदये *प्रशस्तो[क्.+अथ शस्तो] न^इष्टफलः खञ्जनो +अस्तमये॥
नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम्।
पश्येत् तया गतस्य क्षिप्रम् अरातिर् वशम् उपैति॥
तस्मिन् निधिर् भवति मैथुनम् एति यस्मिन्
यस्मिंस् तु छर्दयति तत्र तले +अस्ति काचम्।
अङ्गारम् अप्य् उपदिशन्ति पुरीषणे +अस्य
तत्^कौतुक^अपनयनाय खनेद् धरित्रीम्॥
मृत^विकल^विभिन्न^रोगितः स्वतनु^समान^फलप्रदः खगः।
धनकृद् अभिनिलीयमानको वियति च बन्धु^समागम^प्रदः॥
नृपतिर् अपि शुभं शुभप्रदेशे खगम् अवलोक्य महीतले विदध्यात्।
सुरभि^कुसुम^धूप^युक्तम् अर्घं शुभम् *अभिनन्दिम्[क्.ऊ.अभिनन्दितम्] एवम् एति वृद्धिम्॥
अशुभम् अपि विलोक्य खञ्जनं द्विज^गुरु^साधु^सुर^अर्चने रतः।
न नृपतिर् अशुभं *समाप्नुयात्[क्.समाप्नुयान्] न यदि दिनानि च सप्त मांसभुक्॥
आवर्षात् प्रथमे दर्शने फलं प्रतिदिनं तु *दिनशेषात्[क्.दिनशेषे]।
दिक्^स्थान^मूर्ति^लग्न^ऋक्ष^शान्त^दीप्त^आदिभिश् च^ऊह्यम्॥
45 उत्पाताध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0