बृहत्संहिता · अध्याय 43
भगवति जलधर^पक्ष्म^क्षपाकर^अर्क^ईक्षणे कमलनाभे।
उन्मीलयति *तुरङ्ग[क्.तुरङ्गन]करि^नर^नीराजनं कुर्यात्॥
द्वादश्याम् अष्टम्यां *कार्तिक[क्.कार्त्तिक]शुक्लस्य पञ्चदश्यां वा।
आश्वयुजे वा कुर्यान् नीराजन^संज्ञितां शान्तिम्॥
नगर^उत्तरपूर्वदिशि प्रशस्तभूमौ प्रशस्तदारुमयम्।
षोडशहस्त^उच्छ्रायं दशविपुलं तोरणं कार्यम्॥।
सर्ज^उदुम्बर^*ककुभ^शाखामय[क्.शाखाककुभमयं]^शान्तिसद्म कुशबहुलम्।
वंश^विनिर्मित^मत्स्य^ध्वज^चक्र^अलङ्कृत^द्वारम्॥
प्रतिसरया तुरगाणां भल्लातक^शालि^कुष्ठ^सिद्धार्थान्।
कण्ठेषु निबध्नीयात् पुष्ट्यर्थं शान्तिगृहगाणाम्॥
रवि^वरुण^विश्वदेव^प्रजेश^पुरुहूत^वैष्णवैर् मन्त्रैः।
सप्ताहं शान्तिगृहे कुर्यात्^शान्तिं तुरङ्गाणाम्॥
अभ्यर्चिता न परुषं वक्तव्या नापि ताडनीयास् ते।
पुण्याह^शङ्ख^तूर्य^ध्वनि^गीतरवैर् विमुक्त^भयाः॥
प्राप्ते अष्टमे +अह्नि कुर्याद् उदङ्मुखं तोरणस्य दक्षिणतः।
कुश^चीर^आवृतम् आश्रमम् अग्निं पुरतो +अस्य वेद्यां च॥
चन्दन^कुष्ठ^समङ्गा^हरिताल^मनःशिला^प्रियङ्गु^वचाः।
दन्त्य्^अमृता^अञ्जन^रजनी^सुवर्णपुष्प्य्^अग्निमन्थाश्[क्.सुवर्णपुष्पाग्निमन्थाश्] च॥
श्वेतां सपूर्णकोशां कटम्भरा^त्रायमाण^सहदेवीः।
नागकुसुमं स्वगुप्तां शतावरीं सोमराजीं च॥
कलशेष्व् *एताः[क्.एतान्] कृत्वा सम्भारान् उपहरेद् *वलिं[क्.ऊ.बलिं] सम्यक्॥
भक्ष्यैर् नानाकारैर् मधु^पायस^यावक^प्रचुरैः॥
खदिर^पलाश^उदुम्बर^काश्मर्य्^अश्वत्थ^निर्मिताः समिधः।
स्रुक् कनकाद् रजताद् वा कर्तव्या भूतिकामेन॥
पूर्व^अभिमुखः श्रीमान् वैयाघ्रे चर्मणि स्थितो राजा।
तिष्ठेद् अनल^समीपे तुरगभिषग्^दैववित्^सहितः॥
यात्रायां यद् अभिहितं ग्रहयज्ञ^विधौ महेन्द्रकेतौ च।
वेदी^पुरोहित^अनल^लक्षणम् अस्मिंस् तद् अवधार्यम्॥
लक्षणयुक्तं तुरगं द्विरदवरं च^एव दीक्षितं स्नातम्।
अहत^सित^अम्बर^गन्ध^स्रग्^*धूम[क्.ऊ.धूपा]^अभ्यर्चितं कृत्वा।
आश्रम^तोरण^मूलं समुपनयेत् सान्त्वयन् शनैर् वाचा।
वादित्र^शङ्ख^पुण्याह^निःस्वन^आपूरित^दिगन्तम्॥
यद्य् आनीतस् तिष्ठेद् दक्षिणचरणं हयः समुत्क्षिप्य।
स जयति तदा नरेन्द्रः शत्रून् *नचिराद्[क्.अचिराद्] विना यत्नात्॥
त्रस्यन् न^इष्टो राज्ञः परिशेषं चेष्टितं द्विप^हयानाम्।
यात्रायां व्याख्यातं तद् इह विचिन्त्यं यथायुक्ति॥
पिण्डम् अभिमन्त्र्य दद्यात् पुरोहितो वाजिने स यदि जिघ्रेत्।
अश्नीयाद् वा जयकृद् विपरीतो +अतो +अन्यथा^अभिहितः॥
कलश^उदकेषु शाखाम् आप्लाव्य^औदुम्बरीं स्पृशेत् तुरगान्।
शान्तिक^पौष्टिक^मन्त्रैर् एवं सेनां सनृप^नागाम्॥
शान्तिं राष्ट्र^विवृद्ध्यै कृत्वा भूयो +अभिचारकैर् मन्त्रैः।
मृत्मयम् अरिं विभिन्द्यात्^शूलेन^उरःस्थले विप्रः॥
खलिनं हयाय दद्याद् अभिमन्त्र्य पुरोहितस् ततो राजा।
आरुह्य^उदक्पूर्वां यायान् नीराजितः सबलः॥
मृदङ्ग^शङ्ख^ध्वनि^हृष्ट^कुञ्जर^स्रवन्मद^आमोद^सुगन्ध^मारुतः।
शिरोमणि^*प्रान्त[क्.व्रात]चलत् प्रभाचयैर् ज्वलन् विवस्वान् इव तोयद^अत्यये॥
हंस^पङ्क्तिभिर् इतस् ततो +अद्रिराट् सम्पतद्भिर् इव शुक्लचामरैः॥
मृष्टगन्ध^पवन^अनुवाहिभिर् धूयमान^रुचिर^स्रग्^अम्बरः।
नैकवर्ण^मणि^वज्र^भूषितैर् भूषितो मुकुट^कुण्डल^अङ्गदैः।
भूरि^रत्न^किरण^अनुरञ्जितः शक्रकार्मुक^*रुचिं[क्.रुचं] समुद्वहन्॥
उत्पतद्भिर् इव खं तुरङ्गमैर् दारयद्भिर् इव दन्तिभिर् धराम्।
निर्जित^अरिभिर् इव^अमरैर् नरैः शक्रवत् परिवृतो व्रजेन् नृपः॥
सवज्र^मुक्ताफल^भूषणो +अथ वा सित^स्रग्^उष्णीष^विलेपन^अम्बरः।
धृत^आतपत्रो गज^पृष्ठम् आश्रितो घन^उपरि^इव^इन्दुतले भृगोः सुतः॥
सम्प्रहृष्ट^नर^वाजि^कुञ्जरं निर्मल^प्रहरण^अंशु^भासुरम्।
निर्विकारम् अरि^पक्ष^भीषणं यस्य सैन्यम् अचिरात् स गां जयेत्॥
44 खञ्जनकलक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0