बृहत्संहिता · अध्याय 42
ब्रह्माणम् ऊचुर् अमरा भगवन् शक्ताः स्म नासुरान् समरे।
प्रतियोधयितुम् अतस् त्वां शरण्यशरणं समुपयाताः॥
देवान् उवाच भगवान् क्षीरोदे केशवः स वः केतुम्।
यं दास्यति तं दृष्ट्वा न^आजौ स्थास्यन्ति वो दैत्याः॥
लब्धवराः क्षीरोदं गत्वा ते तुष्टुवुः सुराः स^इन्द्राः।
श्रीवत्स^अङ्कं कौस्तुभ^मणि^किरन^उद्भासित^उरस्कम्॥
श्रीपतिम् अचिन्त्यम् असमं *समं ततः[क्.समन्ततः] सर्वदेहिनां सूक्ष्मम्।
परमात्मानम् अनादिं विष्णुम् अविज्ञात^पर्यन्तम्॥
तैः संस्तुतः स देवस् तुतोष नारायणो ददौ चैषाम्।
ध्वजम् असुर^सुर^वधू^मुख^कमल^वन^तुषार^तीक्ष्णांशुम्॥
तं विष्णु^तेजो^भवम् अष्टचक्रे रथे स्थितं भास्वति रत्नचित्रे।
देदीप्यमानं शरदि^इव सूर्यं ध्वजं समासाद्य मुमोद शक्रः॥
स किङ्किणी^जाल^*परिष्कृतेन[क्.परिस्कृतेन] स्रक्^छत्र^घण्टा^पिटका^अन्वितेन।
समुच्छ्रितेन^अमरराड्^ध्वजेन निन्ये विनाशं समरे +अरिसैन्यम्॥
उपरिचरस्य^अमरपो वसोर् ददौ चेदिपस्य वेणुमयीम्।
यष्टिं तां स नरेन्द्रो विधिवत् सम्पूजयाम् आस॥
प्रीतो महेन *मघवा[क्.मघवान्] प्राह^एवं ये नृपाः करिष्यन्ति।
वसुवद्^वसुमन्तस् ते भुवि सिद्धाज्ञा भविष्यन्ति॥
मुदिताः प्रजाश् च तेषां भयरोग^विवर्जिताः प्रभूतान्नाः।
ध्वज^एव च^अभिधास्यति जगति निमित्तैः फलं सदसत्॥
पूजा तस्य नरेन्द्रैर् बल^वृद्धि^जय^अर्थिभिर् यथा पूर्वम्।
शक्राज्ञया प्रयुक्ता ताम् आगमतः प्रवक्ष्यामि॥
तस्य विधानं शुभ^करण^दिवस^नक्षत्र^मङ्गल^मुहूर्तैः।
प्रास्थानिकैर् वनम् इयाद् दैवज्ञः सूत्रधारश् च॥
उद्यान^देवतालय^पितृवन^वल्मीक^मार्ग^चितिजाताः।
कुब्ज^ऊर्ध्वशुष्क^कण्टकि^वल्ली^वन्दाक^युक्ताश् च॥
बहु^विहगालय^कोटर^पवन^अनल^पीडिताश् च ये तरवः।
ये च स्युः स्त्रीसंज्ञा न ते शुभाः शक्रकेत्वर्थे॥
श्रेष्ठो +अर्जुनो *+अजकर्णः[क्.अश्वकमः] प्रियक^धव^उदुम्बराश् च पञ्चैते।
एतेषाम् *एकतमं[क्.अन्यतमं] प्रशस्तम् अथ वा^अपरं वृक्षम्॥
गौर^असित^क्षिति^भवं सम्पूज्य यथाविधि द्विजः पूर्वम्।
विजने समेत्य रात्रौ स्पृष्ट्वा ब्रूयाद् इमं मन्त्रम्॥
यानीह वृक्षे भूतानि तेभ्यः स्वस्ति नमो +अस्तु वः।
उपहारं गृहीत्वा^इमं क्रियतां वासपर्ययः॥
पार्थिवस् त्वां वरयते स्वस्ति ते +अस्तु नगोत्तम।
ध्वजार्थं देवराजस्य पूजा^इयं प्रतिगृह्यताम्॥
छिन्द्यात् प्रभातसमये वृक्षम् उदक् प्राङ्मुखो +अपि वा भूत्वा।
परशोर् जर्जरशब्दो न^इष्टः स्निग्धो घनश् च हितः॥
नृप^जयदम् अविध्वंस्तं पतनम् अनाकुञ्चितं च पूर्वोदक्।
अविलग्नं च^अन्यतरौ विपरीतम् अतस् त्यजेत् पतितम्॥
छित्त्वाग्रे चतुर्^अङ्गुलम् अष्टौ मूले जले क्षिपेद् यष्टिम्।
उद्धृत्य पुरद्वारं शकटेन नयेन् मनुष्यैर् वा॥
अरभङ्गे बलभेदो नेम्या नाशो बलस्य विज्ञेयः।
अर्थक्षयो +अक्ष^भङ्गे तथा^अणिभङ्गे च वर्द्धकिनः॥
भाद्रपद^शुक्ल^पक्षस्य^अष्टम्यां नागरैर् वृतो राजा।
दैवज्ञ^सचिव^कञ्चुकि^विप्रप्रमुखैः सुवेषधरैः॥
अहत^अम्बर^संवीतां यष्टिं पौरन्दरीं पुरं पौरैः।
स्रग्^गन्ध^धूप^युक्तां प्रवेशयेत् शङ्ख^तूर्य^रवैः॥
रुचिर^पताका^तोरण^वनमाला^अलङ्कृतं प्रहृष्ट^जनम्।
सम्मार्जित^अर्चित^पथं सुवेष^गणिकाजन^आकीर्णम्॥
अभ्यर्चित^आपणगृहं प्रभूत^पुण्याह^वेद^निर्घोषम्।
नट^नर्तक^गेयज्ञैर् आकीर्ण^चतुष्पथं नगरम्॥
तत्र पताकाः श्वेता *भवन्ति विजयाय[क्.विजयाय भवन्ति] रोगदाः पीताः।
जयदाश् च चित्ररूपा रक्ताः शस्त्र^प्रकोपाय॥
यष्टिं प्रवेशयन्तीं निपातयन्तो भयाय नागाद्याः।
बालानां तलशब्दे संग्रामः सत्त्व^युद्धे वा॥
सन्तक्ष्य पुनस् तक्षा विधिवद् यष्टिं प्ररोपयेद् यन्त्रे।
जागरम् एकादश्यां नरेश्वरः कारयेच् चास्याम्॥
सित^वस्त्र^उष्णीषधरः पुरोहितः शाक्र^वैष्णवैर् मन्त्रैः।
जुहुयाद् अग्निं साम्वत्सरो निमित्तानि गृह्णीयात्॥
इष्ट^द्रव्य^आकारः सुरभिः स्निग्धो घनो +अनलो +अर्चिष्मान्।
शुभकृद् अतो +अन्यो *+अनिष्टो[क्.नेष्टो] यात्रायां विस्तरो +अभिहितः॥
स्वाहावसानसमये स्वयम् उज्ज्वलार्चिः
स्निग्धः प्रदक्षिण^शिखो हुतभुग् नृपस्य।
गङ्गा^दिवाकरसुता^जल^चारुहारां
धात्रीं *समुद्र^रशनां[क्.समुद्ररसनां] वशगां करोति॥
चामीकर^अशोक^कुरण्टक^अब्ज^
वैदूर्य^नीलोत्पल^सन्निभे +अग्नौ।
न ध्वान्तम् अन्तर्भवने +अवकाशं
करोति रत्न^अंशु^हतं नृपस्य॥
येषां रथौघ^अर्णव^मेघ^दन्तिनां
समस्वनो +अग्निर् यदि वा^अपि दुन्दुभेः।
तेषां मदान्ध^इभ^घट^अवघट्टिता
भवन्ति याने तिमिर^उपमा दिशः॥
ध्वज^कुम्भ^हय^इभ^भूभृताम् अनुरूपे वशम् एति भूभृताम्।
उदय^अस्त^धराधरा +अधरा हिमवद्^विन्ध्य^पयोधरा धरा॥
द्विरद^मद^मही^सरोज^लाजा[क्.लाजैः]^घृत^मधुना च हुताशने सगन्धे।
प्रणत^नृप^शिरोमणि^प्रभाभिर् भवति पुरश्^छुरितेव भूर् नृपस्य॥
उक्तं यद् उत्तिष्ठति शक्रकेतौ शुभ^अशुभं सप्तमरीचिरूपैः।
तज्जन्म^यज्ञ^ग्रहशान्ति^यात्रा^विवाह^कालेष्व् अपि चिन्तनीयम्॥
गुड^पूप^पायस^आद्यैर् विप्रान् अभ्यर्च्य दक्षिणाभिश् च।
श्रवणेन द्वादश्याम् उत्थाप्यो +अन्यत्र वा श्रवणात्॥
शक्र^कुमार्यः कार्याः प्राह मनुः सप्त पञ्च वा तज्ज्ञैः।
नन्द^उपनन्द^संज्ञे *पाद^ऊन^अर्धे ध्वज^उच्छ्रायात्[क्.पादेनार्धेन चोच्छ्रायात्]॥
षोडशभाग^अभ्यधिके जयविजये द्वे वसुन्धरे च^अन्ये।
अधिका शक्रजनित्री मध्ये +अष्टांशेन च^एतासाम्॥
प्रीतैः कृतानि विबुधैर् यानि पुरा भूषणानि सुरकेतोः।
तानि क्रमेण दद्यात् पिटकानि विचित्ररूपाणि॥
रक्त^अशोक^निकाशं *चतुरस्रं[क्.चतुरश्रम्] विश्वकर्मणा प्रथमम्।
*रशना[क्.रसना] स्वयम्भुवा शङ्करेण *च^अनेकवर्णगा दत्ता[क्.चानेकवर्णधरी]॥
अष्टाश्रि नीलरक्तं तृतीयम् इन्द्रेण भूषणं दत्तम्।
असितं यमश् चतुर्थं मसूरकं कान्तिमद् अयच्छत्॥
मञ्जिष्ठाभं वरुणः षडश्रि तत्पञ्चमं जलोर्मिनिभम्।
मयूरं केयूरं षष्ठं वायुर् जलदनीलम्॥
स्कन्धः स्वं केयूरं सप्तमम् अददद् ध्वजाय बहुचित्रम्।
अष्टमम् अनल^ज्वाला^सङ्काशं हव्यभुग्^*वृत्तम्[क्.दत्तम्]॥
वैदूर्य^सदृशम् *इन्द्रो[क्.इन्दुर्] नवमं ग्रैवेयकं ददाव् अन्यत्।
रथचक्राभं दशमं सूर्यस् त्वष्टा प्रभायुक्तम्॥
एकादशम् उद्वंशं विश्वेदेवाः सरोजसङ्काशम्।
द्वादशम् अपि च *निवेशम् ऋषयो[क्.निवंशं मुनयो] नीलोत्पलाभासम्॥
किञ् चिद् अधऊर्ध्व^*निर्मितम्[क्.निर्नतम्] उपरि विशालं त्रयोदशं केतोः।
शिरसि बृहस्पति^शुक्रौ लाक्षारससन्निभं ददतुः॥
यद्य् यद् येन *विभूषणम्[क्.विनिर्मितम्] अमरेण विनिर्मितं[क्.विभूषणम्] ध्वजस्य^अर्थे।
तत्तत् तद्दैवत्यं विज्ञातव्यं विपश्चिद्भिः॥
ध्वज^परिमाण^त्र्यंशः परिधिः प्रथमस्य भवति पिटकस्य।
परतः प्रथमात् प्रथमाद् अष्टांशाष्टांशहीनानि॥
कुर्याद् अहनि चतुर्थे पूरणम् इन्द्रध्वजस्य शास्त्रज्ञः।
मनुना च^आगमगीतान् मन्त्रान् एतान् पठेन् नियतः॥
हर^अर्क^वैवस्वत^शक्र^सोमैर् धनेश^वैश्वानर^पाशभृद्भिः।
महर्षि^संघैः सदिग्^अप्सरोभिः शुक्र^अङ्गिरः^स्कन्द^मरुद्गणैश् च॥
यथा त्वम् ऊर्जस्करण^एकरूपैः समर्चितस् त्व् आभरणैर् उदारैः।
तथेह तान्य् आभरणानि *यागे[क्.देव] शुभानि सम्प्रीतमना गृहाण॥
अजो +अव्ययः शाश्वत एकरूपो विष्णुर् वराहः पुरुषः पुराणः।
त्वम् अन्तकः सर्वहरः कृशानुः *सहस्रशीर्षः[क्.सहस्रशीर्शा] शतमन्युर् ईड्यः॥
कविं सप्तजिह्वं त्रातारम् इन्द्रं *स्ववितारं[क्.अवितारं] सुरेशम्।
ह्वयामि शक्रं वृत्रहणं सुषेणम् अस्माकं वीरा *उत्तरा[क्.उत्तरे] भवन्तु॥
प्रपूरणे च^उच्छ्रयणे प्रवेशे स्नाने तथा माल्यविधौ विसर्गे।
पठेद् इमान् नृपतिः सोपवासो मन्त्रान् शुभान् पुरुहूतस्य केतोः॥
क्षत्र[क्.ऊ.छत्र]^ध्वज^आदर्श^फल^अर्ध^चन्द्रैर् विचित्रमाला^कदली^इक्षुदण्डैः।
सव्याल^सिंहैः पिटकैर् गवाक्षैर् अलङ्कृतं दिक्षु च लोकपालैः॥
अच्छिन्न^रज्जुं दृढ^काष्ठ^मातृकं
सुश्लिष्ट^यन्त्र^अर्गल^पाद^तोरणम्।
उत्थापयेल् लक्ष्म सहस्रचक्षुषः
सारद्रुम^अभग्न^कुमारिक^अन्वितम्॥
अविरत^जन^रावं मङ्गल^आशीः^प्रणामैः।
पटु^पटह^मृदङ्गैः शङ्ख^भेर्य्^आदिभिश् च।
श्रुति^विहित^वचोभिः पापठद्भिश् च विप्रैर्
अशुभ^*विहत[क्.रहित]^शब्दं केतुम् *उत्थापयेच्[क्.उत्थापयीत] च॥
फल^दधि^घृत^लाजा^क्षौद्र^पुष्प^अग्रहस्तैः
प्रणिपतित^शिरोभिस् *तुष्टवद्भिश्[क्.तुष्टुवद्भिश्] च पौरैः।
*वृतम्[क्.धृतम्] अनिमिष^भर्तुः केतुम् ईशः प्रजानाम्
अरिनगर^नत^अग्रं कारयेद् द्विड्^*बधाय[क्.वधाय]॥
न^अतिद्रुतं न च विलम्बितम् अप्रकम्पम्
अध्वस्त^माल्य^पिटक^आदि^विभूषणम् च।
उत्थानम् इष्टम् अशुभं यद् अतो +अन्यथा स्यात्
तच्छान्तिभिर् नरपतेः शमयेत् पुरोधाः॥
क्रव्याद^कौशिक^कपोतक^काक^कङ्कैः
केतुस्थितैर् महद् उशन्ति भयं नृपस्य।
चाषेण च^अपि युवराजभयं वदन्ति
श्येनो विलोचनभयं निपतन् करोति॥
छत्र^भङ्ग^पतने नृप^मृत्युस्
तस्करान् मधु करोति निलीनम्।
हन्ति च^अप्य् अथ पुरोहितम् उल्का
पार्थिवस्य महिषीम् अशनिश् च॥
राज्ञीविनाशं पतिता पताका
करोत्य् अवृष्टिं पिटकस्य पातः।
मध्य^अग्र^मूलेषु च केतुभङ्गो
निहन्ति मन्त्रि^क्षितिपाल^पौरान्॥
धूम^आवृते शिखि^भयं तमसा च मोहो
व्यालैश् च भग्न^पतितैर् न भवत्य् अमात्याः।
ग्लायन्त्य् उदक्प्रभृति च क्रमशो *द्विजाद्यान्[क्.द्विजाद्या]
भङ्गे तु बन्धकि^*बधः[क्.वधः] कथितः कुमार्याः॥
रज्जु^उत्सङ्ग^च्छेदने बाल^पीडा
राज्ञो मातुः पीडनं मातृकायाः।
यद्यत् कुर्युश् *चारणा बालका[क्.बालकाश् चारणा] वा
तत्तत् तादृग् भावि पापं शुभं वा॥
दिनचतुष्टयम् उत्थितम् अर्चितं
समभिपूज्य नृपो +अहनि पञ्चमे।
प्रकृतिभिः सह लक्ष्म विसर्जयेद्
बलभिदः स्वबल^अभिविवृद्धये॥
उपरिचर^वसु^प्रवर्तितं नृपतिभिर् अप्य् अनुसन्ततं कृतम्।
विधिम् इमम् अनुमन्य पार्थिवो न रिपुकृतं भयम् आप्नुयाद् इति॥
43 नीराजनाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0