भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 41

41.01

अतिवृष्ट्य्^उल्का^दण्डान् परिवेष^ग्रहण^परिधि^पूर्वांश् च।
दृष्ट्वा^अमावास्यायाम् उत्पातान् *पौर्णमास्यां[क्.पूर्णमास्यां] च॥

41.02

ब्रूयाद् अर्घविशेषान् प्रतिमासं राशिषु क्रमात् सूर्ये।
अन्यतिथाव् उत्पाता ये ते डमरार्तये राज्ञाम्॥

41.03

मेष^उपगते सूर्ये ग्रीष्मज^धान्यस्य संग्रहं *कृत्वा[क्.कुर्यात्]।
वन^मूल^फलस्य वृषे चतुर्थमासे तयोर् लाभः॥

41.04

मिथुनस्थे सर्वरसान् धान्यानि च संग्रहं समुपनीय।
षष्ठे मासे विपुलं *विक्रेता[क्.विक्रीणन्] प्राप्नुयाल् लाभम्॥

41.05

कर्किण्य् अर्के मधु^गन्ध^तैल^घृत^फाणितानि विनिधाय।
द्विगुणा द्वितीयमासे लब्धिर् हीन^अधिके छेदः॥

41.06

सिंहे सुवर्ण^मणि^चर्म^वर्म^शस्त्राणि मौक्तिकं रजतम्।
पञ्चममासे लब्धिर् विक्रेतुर् अतो +अन्यथा छेदः॥

41.07

कन्यागते दिनकरे चामर^खर^करभ^वाजिनां क्रेता।
षष्ठे मासे द्विगुणं लाभम् अवाप्नोति विक्रीणन्॥

41.08

तौलिनि तान्तव^भाण्डं मणि^कम्बल^काच^पीतकुसुमानि।
आदद्याद् धान्यानि च *वर्षार्धाद्[क्.षण्मासाद्] द्विगुणिता वृद्धिः॥

41.09

वृश्चिक^संस्थे सवितरि फल^कन्दक^मूल^विविध^रत्नानि।
वर्षद्वयम् उषितानि द्विगुणं लाभं प्रयच्छन्ति॥

41.10

चापगते गृह्णीयात् *कुङ्कुम[क्.कुङ्कम]^शङ्ख^प्रवाल^काचानि।
मुक्ताफलानि च ततो वर्षार्धाद् द्विगुणतां यान्ति॥

41.11

*मृग^घट^संस्थे सवितरि गृह्णीयाल्[क्.मृगधटगे गृह्णीयाद् दिवाकरे] लोहभाण्ड^धान्यानि।
स्थित्वा मासं दद्याल् लाभार्थी द्विगुणम् आप्नोति॥

41.12

सवितरि झषम् उपयाते मूल^फलं कन्द^भाण्ड^रत्नानि।
संस्थाप्य वत्सरार्धं लाभकम् इष्टं समाप्नोति॥

41.13

राशौ राशौ यस्मिन् शिशिरमयूखः सहस्रकिरणो वा।
युक्तो +अधिमित्रदृष्टस् तत्र^अयं लाभको दिष्टः॥

41.14

सवितृ^सहितः सम्पूर्णो वा शुभैर् युतवीक्षितः
शिशिरकिरणः सद्यो +अर्घस्य प्रवृद्धिकरः स्मृतः।
अशुभसहितः सन्दृष्टो वा हिनस्त्य् अथ वा रविः
प्रतिगृहगतान् भावान् बुद्ध्वा वदेत् सदसत्फलम्॥
42 इन्द्रध्वजसम्पदध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc