भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 3

3.01

आश्लेषा^अर्धाद् दक्षिणम् उत्तरम् अयनं *रवेर्[क्.ओमित्तेद्] धनिष्ठा^अद्यम्।
नूनं कदा चिद् आसीद् येन^उक्तम् पूर्व^शास्त्रेषु॥

3.02

साम्प्रतम् अयनं सवितुः कर्कटक^आद्यम् मृग^आदितश् च^अन्यत्।
उक्त^अभावो विकृतिः प्रत्यक्ष^परीक्षणैर् व्यक्तिः॥

3.03

दूरस्थ^चिह्न^वेधाद् उदये +अस्तमये +अपि वा सहस्रांशोः।
छाया^प्रवेश^निर्गम^चिह्नैर् वा मण्डले महति॥

3.04

अप्राप्य मकरम् अर्को विनिवृत्तो हन्ति स^अपराम् याम्याम्।
कर्कटकम् असम्प्राप्तो विनिवृत्तश् च^उत्तरां स +ऐन्द्रीम्॥

3.05

उत्तरम् अयनम् अतीत्य व्यावृत्तः क्षेम^सस्य^वृद्धि^करः।
प्रकृतिस्थश् च^अप्य् एवं विकृत^गतिर् भयकृद् उष्णांशुः॥

3.06

स^तमस्कं पर्व विना त्वष्टा नाम^अर्क^मण्डलं कुरुते।
स निहन्ति सप्त भूपान् जनांश् च शस्त्र^अग्नि^दुर्भिक्षैः॥

3.07

तामसकीलक^संज्ञा राहुसुताः केतवस् त्रयस् त्रिंशत्।
वर्ण^स्थान^आकारैस् तान् दृष्ट्वा +अर्के फलं ब्रूयात्॥

3.08

ते च^अर्क^मण्डल^गताः पापफलाश् चन्द्र^मण्डले सौम्याः।
ध्वाङ्क्ष^कबन्ध^प्रहरण^रूपाः पापाः शशाङ्के +अपि॥

3.09

तेषाम् उदये रूपाण्य् अम्भः कलुषं रजो^वृतं व्योम।
नग^तरु^शिखर^*आमर्दी[क्.विमर्दी] सशर्करो मारुतश् चण्डः॥

3.10

ऋतु^विपरीतास् तरवो दीप्ता मृग^पक्षिणो दिशां दाहाः।
निर्घात^महीकम्प^आदयो भवन्त्य् अत्र च^उत्पाताः॥

3.11

न पृथक् फलानि तेषां शिखि^कीलक^राहु^दर्शनानि यदि।
तद्^उदय^कारणम् एषां केतु^आदीनाम् फलं ब्रूयात्॥

3.12

यस्मिन् यस्मिन् देशे दर्शनम् आयान्ति सूर्य^बिम्बस्था।
तस्मिंस् तस्मिन् व्यसनम् महीपतीनाम् परिज्ञेयम्॥

3.13

क्षुत्^प्रम्लान^शरीरा मुनयो +अप्य् उत्सृष्ट^धर्म^सच्^चरिताः।
निर्मांस^बाल^हस्ताः कृच्छ्रेण +आयान्ति *पर^देशम्[क्.परदेशान्]॥

3.14

तस्कर^विलुप्त^वित्ताः प्रदीर्घ^निःश्वास^मुकुलित^अक्षि^पुटाः।
सन्तः सन्न^शरीराः शोक^उद्भव^*वाष्प[क्ऽस् त्र्. बाष्प]रुद्ध^दृशः॥

3.15

क्षामा जुगुप्समानाः स्वनृपति^परचक्र^पीडिता मनुजाः।
स्वनृपति^चरितं कर्म *न[क्.च] *पुरा कृतं[क्.पराकृतं, क्ऽस् त्र्. पुराकृतं] प्रब्रुवन्त्य् अन्ये॥

3.16

गर्भेष्व् अपि निष्पन्ना वारिमुचो न प्रभूत^वारिमुचः।
सरितो यान्ति तनुत्वं क्व चित् क्वचिज् जायते सस्यम्॥

3.17

दण्डे नरेन्द्र^मृत्युर् व्याधि^भयं स्यात् *कबन्ध^संस्थाने[क्.कवन्धसंस्थाने]।
ध्वाङ्क्षे च तस्कर^भयं दुर्भिक्षं कीलके +अर्कस्थे॥

3.18

राज^उपकरण^रूपैश् छत्र^ध्वज^चामर^आदिभिर् विद्धः।
राजान्यत्व^कृद् अर्कः स्फुलिङ्ग^धूम^आदिभिर् जनहा॥

3.19

एको दुर्भिक्ष^करो द्व्याद्याः स्युर् नरपतेर् विनाशाय।
सित^रक्त^पीत^कृष्णैस् तैर् विद्धो +अर्को +अनुवर्णघ्नः॥

3.20

*द्वश्यन्ते[क्.& ऊ.दृश्यन्ते] च यतस् ते रवि^बिम्बस्य^उत्थिता महा^उत्पाताः।
आगच्छति लोकानां तेन^एव भयं प्रदेशेन॥

3.21

ऊर्ध्वकरो दिवस^करस् ताम्रः सेनापतिं विनाशयति।
पीतो नरेन्द्र^पुत्रं श्वेतस् तु पुरोहितं हन्ति॥

3.22

चित्रो +अथ वा^अपि धूम्रो रविरश्मिर् *व्याकुलाम्[क्.व्याकुलां] करोत्य् *ऊर्धम्[क्.महीम्]।
तस्कर^शस्त्र^निपातैर् यदि सलिलं न^आशु पातयति॥

3.23

ताम्रः कपिलो वा^अर्कः शिशिरे हरि^कुङ्कुम^च्छविश् च मधौ।
आपाण्डु^कनक^वर्णो ग्रीष्मे वर्षासु शुक्लश् च॥

3.24

शरदि कमल^उदर^आभो हेमन्ते रुधिर^सन्निभः शस्तः।
प्रावृट्काले स्निग्धः सर्व^ऋतुनिभो +अपि शुभदायी॥

3.25

रूक्षः श्वेतो विप्रान् रक्त^आभः क्षत्रियान् विनाशयति।
पीतो वैश्यान् कृष्णस् ततो अपरान् शुभ^करः स्निग्धः॥

3.26

ग्रीष्मे रक्तो भयकृद् वर्षास्व् असितः करोत्य् अनावृष्टिम्।
हेमन्ते पीतो +अर्कः करोति *न चिरेण[क्.अचिरेण] रोग^भयम्॥

3.27

सुरचाप^पाटित^तनुर् नृपति^विरोध^प्रदः सहस्रांशुः।
प्रावृट्काले सद्यः करोति विमल^द्युतिर् वृष्टिम्॥

3.28

वर्षाकाले वृष्टिं करोति सद्यः शिरीष^पुष्प^आभः।
शिखि^पत्र^निभः सलिलं न करोति द्वादश^अब्दानि॥

3.29

श्यामे +अर्के कीट^भयं भस्म^निभे भयम् उशन्ति परचक्रात्।
यस्य^ऋक्षे सच्छिद्रस् तस्य विनाशः क्षितीशस्य॥

3.30

शश^रुधिर^निभे भानौ नभस्^तल^स्थे भवन्ति सङ्ग्रामाः।
शशि^सदृशे *नृपति^बधः[क्.नृपति^वद्धः] क्षिप्रं च^अन्यो नृपो भवति॥

3.31

क्षुत्^मारकृत् घट^निभः खण्डो *जनहा[क्.नृपहा] विदीधितिर् भयदः।
तोरण^रूपः पुरहा छत्र^निभो देश^नाशाय॥

3.32

ध्वज^चाप^निभे युद्धानि भास्करे वेपने च रूक्षे च।
कृष्णा रेखा सवितरि यदि हन्ति ततो *नृपं[क्.नृपं ततः] सचिवः॥

3.33

*दिन^करम्[क्.दिवसकरम्] *उदय^अस्त^संस्थितम्[क्.उदयसंस्थितम्] उल्का^अशनि^विद्युतो यदा हन्युः।
नरपति^मरणं विन्द्यात् तदा^अन्यराज^*प्रतिष्ठा[क्.प्रतिष्ठां] च॥

3.34

प्रतिदिवसम् अहिम^किरणः परिवेषी सन्ध्ययोर् द्वयोर् अथ वा।
रक्तो +अस्तम् एति रक्त^उदितश् च भूपं करोत्य् अन्यम्॥

3.35

प्रहरण^सदृशैर् जलदैः स्थगितः सन्ध्या^द्वये +अपि रणकारी।
मृग^महिष^विहग^खर^करभ^सदृश^रूपैश् च भयदायी॥

3.36

दिन^कर^कर^अभितापाद् ऋक्षम् अवाप्नोति सुमहतीम् पीडाम्।
भवति तु पश्चात्^शुद्धं कनकम् इव हुताश^परितापात्॥

3.37

दिवसकृतः प्रतिसूर्यो जलकृद् उदग् दक्षिणे स्थितो +अनिलकृत्।
उभयस्थः सलिल^भयं नृपम् उपरि निहन्त्य् अधो जनहा॥

3.38

रुधिर^निभो वियत्य् अवनिप^अन्तकरो न चिरात्
परुष^रजो^अरुणी^कृत^तनुर् यदि वा दिनकृत्।
[क्.3.39अब्] असित^विचित्र^नील^परुषो जन^घात^करः
[क्.3.39च्द्] खग^मृग^भैरव^स्वर^रुतैश् च निशा^द्युमुखे॥

3.39

[क्.3.40अब्] अमल^वपुर् अवक्र^मण्डलः स्फुट^विपुल^अमल^दीर्घ^दीधितिः।
[क्.3.40च्द्] अविकृत^तनु^वर्ण^चिह्न^भृज् जगति करोति शिवं दिवा^करः॥
4 चन्द्रचाराध्यायः।

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc